________________
फक्किारत्नमञ्जूषा । 'उदाहरणवाद्येकदेश्याह, कथमसामर्थ्य प्रष्टेकदेश्याह, समानाधिकरणमसमर्थवदिति । उ. दाहरणवाद्येकदेश्याह, अधात्वभिहितमिति तच्छेषात्सर्पिषः पोयमानस्येत्युदाहरणमित्यु. पसर्जनसंज्ञासूत्रस्थभाष्यैकवाक्यत्वेनाऽस्यैवं व्याख्यानमेव युक्तमिति वदन्ति ॥
राजपूजितमित्यादौ भूते क्तान्तेनेति-नच (तक्रकौण्डिन्य) न्यायेन वर्तमानार्थकक्तेन भूतार्थकक्तस्य बाधान्मूलोक्तमयुक्तमिति वाच्यम् । भूतार्थकक्तस्याऽवश्यं प्राप्तौ वर्तमानार्थकक्तस्याऽनारम्भात् । भूतत्ववर्त्तमानत्वयोर्युगपद्विवक्षाया असम्भवात् । द. धिदानस्याऽवश्यं प्राप्तौ तक्रदानारम्भायुक्त एव तक्रदानेन दधिदानबाधः प्रकृते तथा ना. स्तीति भावः ।
केचित्त-उक्तन्यायेन वर्तमानार्थकक्तेन भूतार्थकक्तस्य बाधप्राप्तावन्यथा समाधत्तेतथा हि, याक्तन्यायेनोक्तार्थकप्रत्ययेनोक्तार्थकप्रत्ययस्य बाधः स्यात्तदा तेनैक दिक' इ. त्यनेन षष्ठीविधानादुपज्ञातशब्दस्य तेनेति तृतीयया योगो न स्यादित्युक्तनि:शाद्वर्त्तमान. क्तेन न भूतक्तस्य बाध इति ज्ञायते । नचैवमप्युक्तनिर्देशस्य ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यम् ।
पूजितो यः सुरासुरैः।
इति प्रयोगाऽनुरोधेन सामान्यविषयकज्ञापकत्वस्यैवौचित्यात् केचिच्च कारकषष्ट्या एव समासनिषेधकमिदं सूत्रं शेषषष्ठ्या स्यादेव समास इत्याहुरित्यलम् ॥
ननु भृजस्तृचि निष्पन्नस्य भर्तृ शब्दस्य तृजन्तत्वेन 'तृजकाभ्यां कर्तरीति निषेधेन षष्ठीसमासाऽभावे भर्तृशब्दस्य याजकादिगणे पाठेन समासप्येष्टत्वाद्ववन्य भत्तेत्युदाहरणमयुक्तमित्यत आह-पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समास इति। प्रसिद्ध. त्वेन पत्यर्थभतृ शब्दस्यैव याजकादिणे पाठादन्यार्थकस्य तस्याऽग्रहणाद्ववस्य भत्तत्यत्र भर्तृशब्दस्य धारणकर्बर्थकत्वेन नोक्तसूत्रेण समासाऽऽपत्तिरिति युक्तमेवोदाहरणम् । नव याजकादिषु भर्तृशब्दस्याऽर्थविशेषविशिष्टत्वेनाऽपाठात्सामान्यतस्तस्य तत्र पाठेनोदाहरणेऽप्यनेन समासस्याऽवश्यम्भावितयाऽयुक्तमेवोदाहरणप्रदर्शनमिति वाच्यम् । रूढेवंशीय. स्त्वात्पतिपर्यायस्यैव भर्तृ शब्दस्य ग्रहणेनोदाहरणप्रदर्शनस्य युक्तत्वात् । तृजकाभ्यामित्यत्र तृच्साहचर्येण कर्बर्थकस्यैवाकस्य ग्रहणेन कर्तृ ग्रहणमनावश्यकमिति नाशक्यम्, तथा सति उत्तरसूत्रे भावार्थकस्यैवाकः सम्भवादर्थाधिकाराऽनुरोधेन प्रकृतसूत्रेऽपि भावार्थकस्यैव ग्रहणमिति शंकानिरासाय कर्तृग्रहणस्यावश्यकत्वादिति भावः ॥
ननु (तृजकाभ्यामि)तिनिषेधस्य जागरूकत्वात् त्रिभुवन विधातुरितिसमस्तप्रयोगो नैवोपपद्यतेत्याशयेनाऽऽशंकते-कथं तर्हि घटानां निर्मातुरित्यादि । समाधो-शे. षषष्ठया समास इति । प्रत्यासत्त्या कारकषष्ट्या एवाऽनेन समासनिषेध इतिभावः ।
न्यासकारास्तु-विधातृशब्दस्य तृन्नन्तत्वादनेनाऽनिषेधात्षष्ठीति सूत्रेण समासादुक्तप्रयोगोपपत्तिः । न च तृन्योगे (नलोकाव्ययनिष्ठाखलर्थतनामि)ति सूत्रेण षष्टीनिषेधात्तत्समासाऽप्राप्त्या पुनस्तदवस्थ एवोक्तदोप इति वाच्यम् । काभ्यामित्येव व. क्तव्ये तृचः साऽनुबन्धस्य ग्रहणसामर्थ्यादुक्तनिषेधानित्यत्वज्ञापनेनोक्तदोपोद्धारादिति वदन्ति ।
Aho ! Shrutgyanam