________________
तत्पुरुषसमासप्रकरणम् ।
५१
यो तो रित्यादौ (द्विषः शतुर्वा वचनन्तोसुन्कसुनोरप्रतिषेध) इति कारकपष्टोसत्वात्तदाहृतभाष्येतस्मादीदृशे विषये शेषत्वविवक्षणस्य तादर्थ्यस्य सम्बन्धत्वविवक्षणस्य चाभाव एव पाणिनितात्पर्य्य निर्णयायैव भाष्यकृत्प्रवृत्तेरिति वदन्ति ॥
समानाधिकरणे समासनिषेधोदाहरणं - तक्षकस्य सर्पस्येति - अत्र परत्वात्प्रासमानाधिकरणसमासं बाधित्वा प्राप्तस्य षष्ठीसमासस्य निषेधः । नव षष्ट्यन्तयोः समासेऽर्थाऽभेदात्प्रधानस्याऽपूर्वनिपात इत्येतन्निरूपणप्रस्तावे येन सुबन्तेन समासस्तन्निरू. पितसम्बन्धार्थकस्यैव षष्ठ्यन्तस्य ग्रहणमित्युक्त्या प्रकृते तादृशषष्ठयभावात्समासाऽप्रात्या निषेधो विफल एवेति वाच्यम् । भाष्यप्रामाण्याद्यत्र व्यधिकरणषष्ठ्यन्तयोः समासस्तत्र तादृश्या षष्ठ्या ग्रहणेन समानाधिकरणषष्ठ्यन्तयोः समासे उक्तनियमाभावात्समासप्राप्त्या निषेधस्य साफल्यात् । अत्र प्रकृतसूत्रस्थसमानाधिकरणग्रहणमेव मानमिति सूत्रकृत्तात्पर्यम् । नचाम्रासामर्थ्यादेव समाखाप्राप्त्या निषेधो व्यर्थ एवेति वाच्यम् । कटोsपि कर्म भीष्मादयोऽपीति पक्षे परस्पराऽन्वय एवेति सामर्थ्यस्य सत्वान्निषेधस्य सार्थक्यात् । क्रियान्वयनियमश्च न साक्षादेव किन्तु यदूद्वारा कारकत्वं तद्द्वारकोऽपीत्यु'क्तम् । नच समानाधिकरणाऽधिकारे समानमध्यमवीराश्चेति पाठात् तस्य समानाधिकरणाधिकारस्थलसमासविषयत्वाऽभावेऽप्यन्यत्राप्रवृत्तौ प्रमाणाभावेन समानाधिकरणमसमर्थवदित्यसामर्थ्यात्समासाऽप्राप्त्या निषेधो व्यर्थ इति वाच्यम् । अधात्वभिहितमित्युक्त्या धातूत्तरप्रत्ययेन कर्माभिधाने यजुषः पीयमानस्येत्याद्यथं निषेधस्य सार्थक्यात् । इदं भाष्ये स्पष्टम् । ननु तक्षकस्य सर्पस्येत्यत्र विशेषणतावच्छेदकतक्षकत्वस्य सर्पत्वात्मकविशेष्यतावच्छेदकाऽव्यभिचारान्न विशेषणसमासप्राप्तिरिति चेन्न । कैलासाद्रिरित्यादौ समासानापत्या 'विशेषणं विशेष्येण बहुलमित्यत्र विशेषणविशेष्यो भयोपादानेन विशेषणत्वविशेष्यत्वाऽवच्छेदकधर्मद्वयस्य परस्परव्यभिचारे एव विशेषणसमासप्राप्तिरिति नियमाभावेन तत्रोक्तसमासस्य दुर्वारत्वात । एवं च षष्ठीसमासनिषेधेऽप्युक्तसमासः स्यादेवेतिनिषेधो विफल एवेत्याशङ्क्य समाधत्ते - विशेषणसमासस्त्विह बहुलग्रहणान्नेति उक्तस्थले विशेषणसमासेऽपि फले विशेषाऽभावादिति भावः । समानाधिकरणे समासनिषेधस्य फलान्तरमप्याह – गोर्धेनोरित्यादि - विभक्त्यन्तरे चरितार्थस्य पोटायुवतीत्यादेः परत्वाद्बाधकस्य षष्टीसमासस्याप्यनेन बाध इति भावः । अन्यथा तत्र हि षष्ठीसमासे सति गुणप्रवृत्तिनिमित्तकत्वादप्रधानत्वेन प्रथमानिर्दिष्टत्वेन च धेनोः पूर्वनिपातः विशेषणसमासे तु गोरिति भेदः । तत्रादिपदेन भोज्यस्योष्णस्येत्यादेः संग्रहो बोध्यः । ये तु नोपसर्गसंज्ञाया अन्वर्थत्वमङ्गीकुर्वन्ति तेषां मते षष्ठीसमासे पूर्वनिपातनियम इति तद्वारनाय निषेधः, विशेषणसमासस्तु स्यादेवेति कैयट इति प्राञ्चः ।
नागेशास्तु (प्रथमानिद्दिष्टमि ) तिसूत्रस्थ माध्योक्तरीत्या (षष्ठी) इति सूत्रे येन सुबन्तेन समासस्तदर्थनिरूपितसम्बन्धार्थकषष्ठ्या ग्रहणात्प्रकृते समासाऽप्राप्त्या निषेधस्याSनावश्यकत्वेन समानाधिकरणग्रहणं व्यर्थमेव, ध्वनितञ्चेदम्भाष्ये । तथाहि भाष्यं, समानाधिकरणे किमुदाहरणम्, एकदेश्याह, राज्ञः पाटलिपुत्रकस्य, प्रष्टाऽऽह नैतदस्ति, असामर्थ्यादन न भविष्यति । येन सुबन्तेन समासस्तदर्थनिरूपितषष्ठ्यन्तेनाऽसामर्थ्यरूपः ।
Aho! Shrutgyanam