________________
फक्किकारत्नमञ्जूषा।
ऽसार्वत्रिकेत्यर्थः । पूरणार्थेन च षष्ठ्यन्तस्य समासनिषेधोऽपि तथेत्यपि बोव्यम् । अत्र प्रमाणं ('तदशिष्यं संज्ञाप्रमाणत्वात्। ) इत्यादिनिर्देश एव, तथाहि, गुणेन पूरणार्थेन च समासनिषेधस्य नित्यत्वे तस्य अशिष्यमित्यत्र समासनिषेधेन निर्देशाऽसङ्गतिरिति स एव व्यर्थीभूतो ज्ञापयति, अनित्योऽयमित्यादि । पूरणार्थन समासनिषेधस्य नित्यत्वे 'लोपेन चेत्पादपूरणमिति निर्देशः प्रमाणम् । तथाहि, पूरणार्थेन समासनिषेधस्य नित्यत्वे पादस्य पूरणमिति समासाऽनापत्त्या निर्देशासङ्गतिरिति स एवोक्तार्थ ज्ञापयतीति भावः । तेन कुम्भपूरणभव उञ्छषष्ठ इत्यादौ समाससिद्धिः ।
शेखरकृतस्तु-पूरणार्थन समासनिषेधाऽनित्यत्वस्य नोक्तोदाहरणे समाससिद्धि : फलम् । कुम्भसम्बन्धि पुरणं उञ्छसबन्धी षष्ष्ठ इति मध्यमपदलोपिसमासस्य सिद्धत्वात् । अत एव गुणेन समासनिषेधाऽनित्यत्वम्भाष्ये नोक्तम् । (१)अन्यत्राऽस्याऽनभिधानम् । (२)अत एव, सर्वश्वेत इत्यादौ गुणेन न समास इति सन्दिह्य (गुणात्तरेणतरलोपश्चेति) वचनमारब्धं सर्वगुणेति सूत्रे भाष्ये (३)संख्याशब्दानां (४)भावशब्दत्वाद्योजनशतादौ क्रोशशतादौ गोविंशतिरित्यादौ च नायं निषेध इति । तथा च पंक्तिविंशतीति सूत्रभाष्यम् (ते एते विंशत्यादयः शब्दाः समुदाये सन्तो भाववचना भवन्ती)ति (विंशत्यादिषु भा. ववचनेष्वि)ति च, यस्तु तत्र (५)एषां गुणवचनत्वव्यवहारोऽपि स तु (६)तत्सादृश्यात् । (७)अन्यथा गावो धनमित्युपक्रमस्य धनमेको गुणः, अपत्यमेको गुणः इत्यपि भाष्योक्त. श्चैत्रधनं चैत्राऽपत्यादीनीत्यादि न स्यादित्याहुः ।।
पूर्वोत्तरसाहचर्येण कृव्ययस्यैव ग्रहणमिति-पूर्वपरयोः सत्तव्ययोः कृतोः सान्निध्यादव्ययपदेन कृदव्ययस्य ग्रहणादेव (सर्वपश्चा दि)तिभाष्यप्रयोग उपपन्नः। अन्यथा कृ दकृत्साधारणस्याऽव्ययस्याव्ययपदेन ग्रहणेन पश्चाच्छब्दस्याव्ययत्वेन तद्योगे समासनिषे. धापत्तावुक्तभाष्यप्रयोगो नोपपद्येत। प्रकृतसूत्रस्थभाष्येऽपि अव्ययैरुच्चैरादिशब्दैः सामर्थ्याभावान्नसमास इत्यभिधाय कृदव्ययमेवोदाहृतम् । एतेन सति सामर्थ्य न्याव्ययैः स. मासस्येष्टत्वमवगम्यते ।
नागेशास्तु-द्विजस्य कुर्वन्कृत्वेत्यादौ सूत्रेण कारकषष्ट्या समासनिषेधात् कटा. द्यपेक्षया शेषषष्ट्यां तु असामर्थ्यात्समासप्राप्तिरेव नेति सन्दिह्य द्विजस्य द्विषन् पुरा सू.
(१) नन्वेवं काककायॆमित्याद्यपि स्यादत आह-अन्यत्रेति भाष्यादावनुक्तत्वान्नान्यत्रोक्तसमास इति भावः ।
( २ ) अस्य निषेधस्याऽनित्यत्वाऽभावादेवेत्यर्थः ।
( ३ ) अस्य निषेधस्याऽनित्यत्वाऽभावाद्गोविंशतिरित्यादिसिद्धिर्न स्यादत आहसंख्याशब्दानामिति ।
( ४ ) भावप्रवृत्तिनिमित्तकत्वादित्यर्थः । यथा 'तस्यभाव' इत्यत्र भावशब्दस्य धर्मपरस्वं तथैवाऽत्राऽपि तस्य तत्वामिति भावः ।
(५) विंशत्यादीनामित्यर्थः। (६) गुणसादृश्यादित्यर्थः । (७) गुणबोधकत्वस्यैव स्वीकार इत्यर्थः ।
Aho ! Shrutgyanam