________________
तत्पुरुषसमासप्रकरणम् ।
पत्तौ द्विजायार्थ इति प्रयोगः स्यात् । अर्थरै विभवा अपीत्यमरोक्त्याऽर्थशब्दस्य नित्यपुंस्त्वात् (परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरित्यनेन सर्वत्र पुंलिङ्गस्यैव प्रयोगात द्विजार्था यवागूः द्विजार्थं पय इत्यादयः प्रयोगा न स्युः ।
वस्तुतस्तु - अनेन विशेष्यलिङ्गतैव विधेया, समासनित्यत्वरूपद्वितीय विधेयस्य चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्रहाप्रसक्त्या न्यायसिद्धत्वात् । गुरोरिदं गुर्वश्रमित्यादाविव लिडस्यापि लोकतः सिद्धत्वे तु स्पष्टार्थमेवैतद्वार्त्तिकमित्यवसेयमिति दिक् ॥
४९
पञ्चमी भयेन । पञ्चम्यन्तं भयशब्दप्रकृतिकसमर्थसुबन्तेन समस्यते इत्यर्थः । अत्र सूत्रे विनिगमकाऽभावात्सूत्रेणैव वृकभीत इत्यादौ समाससिद्धौ ( भयभीतभीतिभीभिरिति वाच्यम् ) इत्येतद्वार्त्तिकाऽऽरम्भाच्च न भयेत्यर्थग्रहणं किन्तु स्वरूपस्यैव । तेन न वृकात्त्रास इत्यादौ समासाऽऽपत्तिरूपो दोषः । वार्त्तिके उपलक्षणत्वान्निर्गतजुगुप्सयोरपि ग्रहणं बोध्यम् । न च सुत्रे भयेत्यर्थाग्रहणे स्वरूपस्य ग्रहणाद् भोगोपरत इत्यादौ समासो न स्यादिति वाच्यम् । बहुलग्रहणात्क्वचिद्विभक्तयन्तरस्याऽपि कृता समास इत्यस्य पूर्वमे. वाभिहितत्वेन तत्र समासोपपत्तेः । सुसुपेति मयूरव्यंसकादित्वाद्वा तदुपपत्तेश्च ॥
प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् । पदं पदं प्रति विहिता प्रतिपदविधाना कारकविशेषोपादानेन विहितेत्यर्थः । ' षष्ठी शेषे' इत्येतद्विहितषष्ठ्यतिरिक्ता सर्वाsपि षष्ठी प्रतिपदविधानेत्युच्यते सा न समस्यत इति तदर्थः । ननु (न नि. धरणे) इत्यनेन निर्धारणविहितपष्ठ्याः समासो निषिध्यते, वार्त्तिकेनापि प्रतिपदविधानपट्याः समासनिषेधः क्रियते । एवञ्च शेषषष्ट्यतिरिक्तायाः सर्वस्या अपि षष्ठ्याः प्रतिपदविधानत्वाद्वार्त्तिकेनैवोक्त सूत्रप्रयोजनस्य गतार्थत्वात्सूत्रं व्यर्थमिति चेन्न । (यतश्च निर्धार - णमित्यनेन षष्ठ्या अविधानेन सप्तम्या एव विधानादनया तस्या बाधाऽभावाय, तत्प्रतिप्रसवात्तन्न सम्बन्धसामान्य एव षष्ट्या विधानात्तस्याश्चाऽप्रतिपदविधित्वाद्वार्त्तिकेनाऽगतार्थतया सूत्रस्य सार्थक्यात् । यत्तु (ज्ञोऽविदर्थस्य करणे) इत्यादि ( कृत्वोऽर्थ प्रयोगे कालेऽधिकरणे) इत्येतेषु सूत्रेषु शेषपदसम्बन्धात्तैः शेष एव पष्ठीविधानात्तत्र च (शेषेषष्ठी)त्येव सिद्धावुक्तसूत्रसमुदायसामर्थ्यात्तत्तत्सूत्रविहितषट्याः समासाभावकल्पनेन वार्त्तिकस्य सिद्धत्वान्नापूर्वन्तदिति तन्न । उक्तसूत्राणां तत्तद्वातुयोगे उपात्तकारकाणां शेषत्वाभावज्ञापनद्वारा वार्त्तिकज्ञापकत्वे विनिगमकत्वाऽभावात् । वार्त्तिकस्या पूर्वत्वादेव नेदं भाष्ये प्रत्याख्यातम्, अत एव च प्रतिपदविधानेति पूर्वपक्षोद्घाटने शेषलक्षणाऽतिरिक्ता सर्वा प्रतिपदविधाना, 'कर्तृकर्मणोः कृती' ति कुद्योगेति च तत्रोक्तम् । तत्र शेषलक्षणेत्यस्य शेषमात्रलक्षणेत्यर्थ इति दिकू ॥
ननु ब्राह्मणस्य ये दन्तास्ते शुक्ला इत्यर्थादूब्राह्मणशद्वस्य दन्तै रेवाऽन्वयात्तेनैव सामथ्र्येन शुक्लशब्देनाऽसामर्थ्यात् (सविशेषणानां वृत्तिर्न वृत्तस्य च विशेषणयोगो ने ) ति निषेधाच्च ब्राह्मणस्य शुक्ला इत्यत्र समासो न स्यादत आह-यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहरणमिति । अधुना शुक्लशब्दस्यैव विशेष्यसमर्पकत्वमिति न समासप्राप्तिरिति भावः ॥
अनित्योऽयं गुणेन निषेध इति । गुणवाचकशब्देन षष्ट्यन्तस्य समासनिषेधो
५ फ० म०
Aho! Shrutgyanam