________________
बहुव्रीहिसमासप्रकरणम् । तत्पुरुषसमासप्रकरणस्थवात्तिकेन प्रगत आचार्य इत्यादौ प्रथमान्तस्य तत्पुरुषसमासविधानादिति चेन्न । उक्तवात्तिकेन प्रथमान्तेन प्रादीनामुक्तसमासविधानेऽपि प्रथमान्तस्योक्तसमासाविधानादिति भावः । नच कण्ठे काल इत्यादौ व्यधिकरणपदस्यापि बहुव्रीहिदर्शनात्प्रथमान्तस्यैवोक्तसमास इत्ययुक्तमिति वाच्यम् । तत्र तत्र ज्ञापकसाध्यबहुव्रीहेर्दृष्टत्वात् ।
अनेकमन्यपदार्थे । अन्यस्य समस्यमानपदातिरिक्तस्य पदस्यार्थोऽन्यपदार्थस्तत्र विद्यमानस्याऽनेकप्रथमान्तस्य वा समासः स च बहुव्रीहिसंज्ञक इत्यर्थः । अन्यपदार्थ इत्यत्राऽन्यपदं भेदविशिष्टार्थकं ततश्च भेदस्य प्रतियोगिनि साकाङ्कत्वाच्छेषपदोपस्थितस्य प्रतियोगित्वेन तत्राऽन्वयादिद्वतीयान्ताद्यर्थ इति लब्धम् । तथा च, स्वनिष्टप्रतियोगितानिरूपितभेदविशिष्टार्थकपदाथें विद्यमानस्याऽनेकप्रथमान्तस्य समास इति फलितार्थः ॥
अप्रथाविभक्तयर्थे बहुव्रीहिरिति । 'अनेकमन्यपदाथे इत्यनेकप्रथमान्तस्य समासविधानात्तत्राऽन्यपदार्थपदेन प्रथमान्तार्थातिरिक्तस्यैव ग्रहणं युक्तमित्येतत्फलितन्तदिति भावः ॥
समानाधिकरणानामिति च फलितमिति। समानाधिकरणत्वञ्च, एकार्थबोधजन. कत्वम् । अनेकप्रथमान्तस्थले अभेदाऽन्वयप्रयोजकीभूतसमानविभक्त्यन्तविशेष्यविशेषणवाचकपदसत्वादर्थादेव समानाधिकरणत्वोपपत्तिरिति तदाशयः । अनेकप्रथमान्तस्य समासविधानादेकप्रथमान्तस्य तदभाव इत्याह-प्रथमार्थे तु नेति । सूत्रे प्रथमान्तमित्यस्य फलमाह-पञ्चभिभुक्तमस्येति । । प्रादिभ्यो धातुजस्येति । प्रादिभ्यः परं यद्धातुजं पदं तदन्तस्य पदान्तरेण समासः पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य वा लोप इत्यर्थः। प्रपर्ण इत्युदाहरणम् ॥ ___ नमोऽस्त्यर्थानामिति । ननः प्ररं यदस्त्यर्थवाचि पदं तदन्तस्य पदान्तरेण बहुबीहिः, अस्त्यर्थवाचिनाम्पदानाम्वा लोप इत्यर्थः । अविद्यमानः पुत्रोऽपुत्र इत्युदाहरणम् । तत्राऽस्त्यर्थानामित्यस्याऽसत्वे अनुपनीतपुत्र इत्यत्रापिसमासोत्तरपदलोपयोरापत्तिरतस्तत् । नजोऽसत्वे निविद्यमानपुत्र इत्यत्राप्युक्तापत्तिः । नन्विह सुपेत्यस्याऽसम्बन्धेऽपि सबि. त्यस्य सम्बन्धादस्तीत्यस्य तिन्तत्वेन समासो न स्यादत आह-अस्तीति विभक्तिप्रतिरूपकमव्ययमिति ।
अत्र केचित्-चित्रा जरती गौर्यस्येति विग्रहे सूत्रेऽने केतिपदसत्त्वेन त्रिपदबहुव्रीहिः तत्र सूत्रेणोत्तरपदे पुंवत्त्वविधानादुत्तरपदशब्दस्य समासस्य चरमावयवे रूढत्वेनोत्तरपदस्य मध्यमपदेन व्यवधानात्प्रथमस्य न पुंवद्भावः । गोरूपोत्तरपदे जरतीत्यस्य द्वितीयस्यापि न सः । पूर्वपदशब्दस्य प्रथमावयवे रूढत्वेन तस्य पूर्वपदत्वाऽभावात तथा च चित्राजरतीगुः । जातीचित्रागुर्वा । दीर्घातन्वीजधः । तन्वीदीर्घाजंघ इत्ये. वेत्याहुः।
वस्तुतस्तु-यथा द्वन्द्वसमासप्रकरणस्थे 'आनङ् ऋतो द्वन्द्वे' अत्र सूत्रे ( होतोतृनेष्टोद्गातार) इति समर्थसूत्रस्थभाष्यप्रयोगान्न पूर्वपदाक्षेपः । अत एव भाष्यकृदुदाहृ. तस्य तृतीयस्यानङः सङ्गतिः । अन्यथा पूर्वपदशब्दस्य प्रथमावयवे रूढत्वात्तत्र तृतीयस्य पूर्वपदत्वाऽभावात्तदसंगतिः । तथैवाऽत्रापि पूर्वपदाक्षेपाऽऽभावेनोपान्त्यस्य पुंवत्वं स्यादेवेति चित्राजरद्गुरित्येव प्रयोगः । अत्र सूत्रे पूर्वपदसम्बन्धाऽभावादेव, चित्राजरत्यौ
Aho! Shrutgyanam