________________
६६
फक्किकारत्नमञ्जूषा । गावौ यस्येति द्वन्द्वगर्भ ऽपि बहुव्रीहौ चित्राजरद्गुरिति भाष्यं संगच्छते । न नु तत्र पूर्वपदे पुंवत्वेन कुतो न टान्निवृत्तिरिति चेन्न । द्वन्द्वान्तर्गतस्य जरच्छब्दस्योत्तरपदत्वेऽपि समानाधिकरणत्वाऽभावेन तदनिवृत्तेः । नवमपि द्वन्द्वात्मकपूर्वपदस्य समानाधिकरणो. त्तरपदपरत्वेन सति गुंबदुभावे तदवस्थ एवोक्तदोष इति वाच्यम् । स्त्रीप्रत्ययप्रकृतिभूतयो. ईन्दान्तर्गतचित्राजरच्छब्दयोरेकैकस्य भाषितपुंस्कत्वेऽपि द्वन्द्वात्मकपूर्वपदस्य भाषितपुंस्कत्वाऽभावेनादोषादिति भावः । कर्मधारयपूर्वपदे तु पूर्वपदान्तर्गतोत्तरपदाश्रयणेन प्रथमस्योत्तरपदाश्रयणेन द्वितीयस्य च पुंवत्त्वे जरचित्रगुः । कर्मधारयोत्तरपदे तु जरति चासौ. गौश्चेति विग्रहे ‘गोरतद्धित' इति टचि टित्वान्डीपि जरद्गवी, अस्य चित्राशब्देन बहुव्रीहौ चित्राजरद्गवी यस्येतिविग्रहे 'नवृतश्चेति वक्ष्यमाणसूत्रेण कपि चित्रजरदूगवीक इति प्रयोगः । सूत्रे भाषितऍस्कादित्यस्याऽसत्त्वे गंगाभार्य इत्यत्र भार्थ्यारूपोत्तरपदपरत्वेन पुंवद्भावापत्तिः । न च गंगाशब्दस्य नित्यस्त्रीत्वानोक्तापत्तिरिति वाच्यम् । सूत्रेण स्त्रीरूपार्थकबोधकस्य शब्दस्य पुंस्त्वरूपार्थातिदेशकरणसमार्थ्यात्स्त्रीत्वरूपार्थबोधकत्वेऽपि गं. गाशब्दस्योक्तापत्तेढुंवारत्वादिति भावः ॥
वृद्धिनिमित्तस्य च तद्धितस्येति-ननु वृद्धिशब्देन विहिता या वृद्धिरित्यर्थलाभः कथमिति चेन्न । व्याख्यानेन तल्लाभात् । तथाहि, यः सकलाया वृद्धेनिमित्तं यस्त्रयाणामाकारैकारौकाराणां निमित्तमितिभाष्यप्रामाण्यावृद्धिशब्दस्यावृत्तिः । तथा च सुकर एवोक्तार्थलाभः ॥ वृद्धिम्प्रति वृद्धिशब्देन फलोपधानाभावादिह पुम्वदिति । वृद्धिशब्देन ताम्प्रतिस्वरूपयोग्यस्वीकारे तु स्रौघ्नीभार्य इत्यत्र वृद्धिशब्देन विहिताया वृद्धरौकाररूपाया हेतुभूततद्धितस्वरूपयोग्यत्वं वैयाकरणभायेंत्यत्रापि तद्धितस्याऽणः सत्वान्निषेधापत्तिः । फलोपहितस्वीकारे तु नापत्तिः।। तथाहि फलोपहितस्वरूपयोग्यभेदेन द्विविधं निमित्तम् । तत्राऽऽद्य कार्याव्यवहितपूर्वकालावच्छेदेन कार्याधिकरणवृत्तित्वे सति कार्यसमानाधिकरणाऽत्यन्ताऽभावीयप्रतियोगिताऽनवच्छेदकधर्मवत्त्वरूपम् । अन्त्यश्च सत्यन्तविशेषणरहितम् । तथा च वृद्धिरूपकार्यसमानाधिकरणे उक्तप्रयोगेऽणः सत्वादणतिरिक्ताऽभावीयप्रतियोगिताऽनवच्छेदकाऽणत्वधर्मवत्ताया उभयत्र सत्त्वेपि वृद्धिरूपका-व्यवहितपूर्वकालाऽवच्छेदेनोक्तरूपकार्याधिकरणे स्रौनीत्यादिप्रयोगे वैयाकरणघटकस्याऽणोऽसत्वान्नापत्तिः । अत्र प्रवाहणस्य परस्य वृद्धिर्न पूर्वस्य तु वेत्यर्थके 'प्रवाहणस्ये तिसूत्रे प्रवाहणेयीभार्य इत्यत्र वृद्धिनिमित्तस्य चेति एंवत्वनिषेधो न प्राप्नोति माभूदेवं जातेरिति भविष्यतीति भाष्योक्तरेवाऽत्र प्रमाणत्वं बोध्यम् । तावभार्य इत्यत्रत्यदोषव्यावृत्तये वृद्धेनिमित्तं यस्मिन्नित्यर्थाश्रयणपरभाप्यादुक्तप्रयोगे वृद्विनिषेध इष्ट एवेति शेखरकृदिति दिक् ॥ ___ अनु ‘ओरोदि' त्येव लाघवात् सूत्रमस्तु गुणग्रहणघटितसूत्रकरणे संज्ञापूर्वकविधित्वेन गौरवाद्धेयम् । नच गुणग्रहणाघटितसूत्रकरणेऽपि भस्य तद्धिते इत्येवरूपसंज्ञापूर्वकत्वस्य सत्वादूगौरवाद्धयमित्ययुक्तमिति चेन्न । यत्र संज्ञापदं विधेयसमर्पकं तस्यैव संज्ञापू. वकविधित्वात्प्रकृते भस्य तद्धिते इति सत्वेऽपि संज्ञारूपविधेयसमर्पकपदत्वाऽभावेनादोपादिति चेन्न । गुणग्रहणस्य समार्थ्यात् [ संज्ञापूर्वकोविधिरनित्यः ] इत्यर्थज्ञापनेन साफ
Aho ! Shrutgyanam