________________
बहुव्रीहिसमासप्रकरणम् । ल्यात् । तेन स्वायम्भुवमित्यादिसिद्धिः । [ओरोदि] तिन्यासे ओदित्यत्र तकारस्योचारणार्थत्वात्तपरत्वे फलाऽभावान्न 'तपरस्तत्कालस्ये' त्यस्य प्रवृत्तिः। किञ्च 'ओरो' इत्येवास्त्विति भावः ॥
पूर्वपदात्संज्ञायामगः-ननु सूत्रेऽग इत्यस्य सत्त्वाद्गकारव्यवधाने पूर्वापदस्थनिमित्तात्परस्य नस्य णत्वन्नेत्यर्थे ऋगयनमितिषष्ठीतत्पुरुषे णत्वन्न भवतीत्याशयेनोदाहरति-अगः किम् । ऋगयनमिति।।
वस्तुतस्तु-नागग्रहणस्योक्तस्थलीयणत्वापत्तिनिवृत्तिः फलम् । तस्या 'अणगयनादिभ्यः' इति सूत्रे गयनशब्दपाठसामर्थ्यान्निपातनेनैव निवृतेरिति व्यर्थमेव तदिति भाष्ये स्पष्टमित्याह-श्रणगयनादिभ्य इत्यादि ।
उपसर्गाद्वहुलम्-नन्वस्य सूत्रस्याऽष्टाऽध्याय्यामपठितत्वात्कुत उपलब्धिरिति नाशडक्यम् । 'उपसर्गादनोत्परः' इत्यत्राऽनोत्पर इति परित्यज्य तत्स्थाने बहलग्रहणं संयोज्य भाष्यकृतैव पठितत्वात् । सत्यस्मिन् नसो नस्योपसर्गस्थनिमित्तात्परस्य बहुलं णत्वमित्यर्थे प्रणोनयेत्यत्राऽव्याप्तिबारणं प्रश्नः पूषेत्यादावतिव्याप्तिवारणञ्च फलमित्यलम् ॥
ननु उक्तसुत्रे [ वेग्रा वक्तव्यः ] [ख्यश्चेति वात्तिकद्वयस्य सत्त्वात्ताभ्यां ग्रख्य. योरन्य तरस्य विधानाद्विनसेत्यस्योपपत्त्यसम्भवादुक्तप्रयोगघटितस्य भट्टिरद्यस्य कथमुपपत्तिरित्याशयेनाशंकते-कथं तर्हि विनसा हतवान्धवेति भट्टिरिति । समाधतेविगतयेति । एवञ्च विनसेति पदन्नस्सूत्रेण नसादेशेन तृतीयान्तमिति न कश्चिद्दोष इति भावः ॥
इनः स्त्रियाम् । इनः प्रत्ययत्वेन ( प्रत्ययग्रहण ) परिभाषया तदन्तविधौ स्त्रियां विद्यमानादिन्नन्तबहुव्रीहेः कबित्यर्थः । तथाच उक्तपरिभाषया दण्डिन्नित्यस्यैवेन्नन्तत्वाद्वहुदण्डिन्नित्यस्य तत्त्वाऽभावात्कप न स्यादित्यत आह-अनिनस्मन्ग्रहणान्यर्थवताचाऽनर्थकन च तदन्तविधि प्रयोजयन्तीति ॥
इति बहुव्रीहिः ॥
अथ दन्दसमासप्रकरणम् । चार्थे द्वन्द्वः । 'अनेकमन्यपदार्थे' इत्यतोऽनेकमित्यस्यानुवृत्त्या चस्याऽर्थे विद्यमा. नानामनेकप्रथमान्तानां द्वन्द्वसमासो भवतीत्यर्थः । उक्तसूत्रादनुवृत्तस्थाऽनेकमित्यस्य स्रग वारपदं होतृपोत्नेष्टोद्गातार इत्यादौ यथायथं समासान्तस्याऽनङश्च मध्ये प्रवृत्तिरन्ते एव प्रवृत्तिश्च फलम्बोध्यम् ।
अत्र केचित् । चैत्रेण मैत्रेण च कृतमिति वाक्येऽवयवकर्तृत्वस्यैव प्रतीत्या चैत्रमैत्राभ्यां कृतमिति समासे समुदायकर्तृत्वस्यैव प्रतीत्या चैत्रेण मैत्रेण च कृतमिति वाक्यस्य समाससमानार्थकत्वाऽभावेन चैत्रेण मैत्रेणेत्यस्य चैत्रमैत्राश्यामिति समुदायसाधुत्वप्रयोजकवाक्यत्वाऽभावात्प्रथमान्तानामेव द्वन्द्वो नतु परिनिष्ठितविभक्त्यन्तानामिति । वाक्यस्य समुदायसाधुत्वप्रयोजकत्वाऽभावादेव (यदग्नये च प्रजापतये चे)त्यादौ व्यस्ते
Aho ! Shrutgyanam