________________
६८
फक्किकारत्नमञ्जूषा।
प्रत्येकं देवतात्वप्रतीतिः । अग्नीषोमाभ्यामित्यादौ समुदाये देवतात्वप्रतीतिरिति व्यवस्था सिद्धयति । वाक्यस्याऽपि समुदायसाधुत्वप्रयोजकत्वे तु समास इव वाक्येऽपि स. मुदाये देवतात्वप्रतीतिरेव स्यात् । अत एव (डिसम्बुद्धयोरनुत्तरपदे ) इति वात्तिके सम्बुद्धिग्रहणमिहाऽनावश्यकं राजवृन्दारकेत्यादौ सम्बुद्धयन्तानां समासः, इह तावत्समाससमानार्थकेन वाक्येन भवितव्यम् । यश्चेहार्थो वाक्येन गम्यते नासौ कदाचित्समासेन गम्यते अवयवसम्बोधनं वाक्येन गम्यते समुदायसम्बोधनं समासेनेति 'न डिसम्बुद्धयोरिशति सुत्रे भाष्ये उक्तम् । सम्बोधनविभक्त्यन्तस्य सम्मुखीभावफलकत्वात्प्रत्येकमेव सम्मुखीभावप्रतीत्या क्रियाऽन्वयेऽभावेन परस्परमसामर्थ्यमिति तदाशयः । यदा समानाऽधिकरणस्थलेऽपि न समासस्तदा व्यधिकरणानां सुतरां न द्वन्द्व इति परिनिष्ठतविभक्त्या समासेऽपि राजपुरोहिताविति द्वन्द्वोदाहरणम् । एवञ्च व्यधिकरणतृतीयाऽद्यन्तानामपि क्रियादावेवाऽन्वयेन क्रियाजनकत्वरूपकारकत्वस्य प्रत्येकमेव बोधान्न वाक्यसमासयोस्तुल्यार्थत्वमित्यलम् ॥
मिलितानामन्वय इतरेतरयोग इति । परस्पराऽपेक्षाणामुभूताऽवयभेदसमूहरूपाणामेकस्मिन्धर्मावच्छिन्नेनाऽन्वय इति तदर्थः । तेन नीधातोःसंयोगजनकव्यापारा. ऽनुकूलव्यापारवाचकत्वेन द्विकर्मकत्वेऽपि अजां ग्रामं नयतीत्यादौ नाऽपि चकारप्रयोगो नाऽपि समास एकधर्मावच्छिन्नेऽन्वयाऽभावात । (१)अत एवाऽत्राऽनेकवकारप्रयोगः । यत्र मिलितानामन्वयस्तत्रेतरेतरयोगस्तादृशसमूहश्चार्थ इत्यन्वयः । समूहे उद्भूताऽवयवभेदत्वञ्च, अवयवगतसंख्यारोपवत्त्वं प्रत्यवयवं समूहरूपत्वाऽऽरोपो वा । समूह इति । अनुभुताऽवयवभेदः समूह इत्यर्थः । तत्रेतरेतरयोगे उद्भूताऽवयभेदसमूहस्य प्रतीत्या प्रवृत्तिधर्मरूपमेव प्रवृत्तिनिमित्तम् । समाहारे तु अतिरिक्तत्वेनैव समूहत्वभानात्समृहत्वं प्रवृत्तिनिमित्तमिति विशेषः । ईश्वरं गुरुञ्च भजस्वेत्यादौ न समास असा. मर्थ्यादिति । अनेक सुबन्तानां चार्थे वृत्यभावेनैकार्थीभावरूपसामर्थ्याऽभावादित्यर्थः । समुच्चयस्थले च समभिव्याहृतस्यैकस्य सुबन्तस्य चार्थे वृत्तावपि अपरस्य चार्थे वृत्त्यभावः। अन्वाचये तु उभयोरपि चार्थे वृत्त्यभाव इति भावः ॥
ननु उद्भताऽवयवभेदविवक्षणे इतरेतरयोगद्वन्द्वे द्विवचनबहुवचनस्य, अनुभुताऽवय. वभेदविक्षणे समाहारद्वन्द्वे समुदायगतैकत्वादेकवचनस्य चोपपत्तावेकवद्भाव विधायकप्रकरणमन्तरापीति व्यर्थमेवैतत्प्रकरणम् । इतरेतरयोगद्वन्द्वे नेष्ट एकवद्भावो लक्ष्यानुरोधादिति चेन्न । प्राण्यङ्गादीनां समाहार एव नेतरेतरयोग इति नियमार्थत्वेन सार्थक्यात् । तथा च नैतेभ्यो बहुवचन द्विवचनापत्तिरुद्भुताऽवयवभेदविवक्षयेति बोध्यम् । (तिष्यपुनर्वस्वोनक्षत्रद्वन्द्वे ) इति विपरीतनियमो नाऽऽशनीयः । तथा हि एकवचनस्य द्विवचनाऽभावो बहुवचनग्रहणप्रयोजनम् । विपरीतनियमे तु प्राण्यङ्गाद्यतिरिक्तस्य समाहारत्वाऽभावादेकवचनाऽनुत्पत्या बहुवचनस्यैव द्विवचनसिद्धौ पुनर्बहुवचनग्रहणं व्यर्थमेव स्यादित्यभिप्रायेणाशंक्य समाधानमाह-समाहारस्यैकन्वादेकत्वे सिधे नियमार्थ प्रकरणमिति । नियमस्तूपरिष्टादुक्त एवेति बोध्यमित्यलम् ॥
( १ ) अत एव परस्पराऽपेक्षासत्वादेवेत्यर्थः ।
Aho! Shrutgyanam