________________
द्वन्द्वसमासप्रकरणम् ।
ननु 'विभाषा वृक्षमृगे तिसूत्रेऽप्राणिनो ग्रहणं व्यर्थमिति चेन्न । तस्य 'जातिरप्रा. णिनामि ति सूत्रप्राप्तनित्यद्वन्द्वस्य विकल्पविधानेन सार्थक्यादित्याह-विभाषावृक्ष इति सूत्र इति । __ ननु विभाषा वृक्षमृगेति सूत्रे पशुग्रहणाऽभावे हस्त्यश्वादीनां सेनाङ्गत्वेन 'द्वन्द्वश्वप्रा. णितूर्यसेनाङ्गानामि'त्यनेन नित्यद्वन्द्वो दुर्वारः स्यादित्यत आह-हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते पशुग्रहणं विकल्पार्थमिति ॥
ननु उद्भतावयवभेदविवक्षाऽनुद्भूतावयवभेदविवक्षाभ्यां रुरुपृषतम् रुरुपृषताः शुकबकम् शुकबका इत्यत्र (चाथै द्वन्द्वः) इत्यनेनैव द्वन्द्वसिद्धौ विभाषावृक्षमृगेतिसूत्रे मृगशकुनिग्रहणं व्यर्थमिति चेन्न । तस्य नियमार्थत्वेन सार्थक्यात् सचेत्थं नियमः, मृगाणां मृगैरेव द्वन्द्वः, शकुनीनां रेवेति । अन्यैस्तु सहेतरेतरयोग एवेत्याह-मृगाणां मृगैरे. वेत्यादि ।
अश्ववडवग्रहणं तु पक्षे नपुसकत्वार्थमिति । अश्ववडवयोः पशुत्वाविकल्पसिद्धौ तयोर्ग्रहणं प्रतिपद्विधानार्थम् । तथा च, अश्ववडवमित्येकवद्भावपक्षे 'पूर्ववदश्ववडवौ' इत्येतत्सूत्रं बाधित्वा 'स नपुंसकमित्येव भवतीति भावः ॥ ___ ननु 'विप्रतिषिद्धं चानधिकरणवाची ति सूत्रं व्यर्थम् , उद्भूतावयवभेदविवक्षया इत. रेतरयोगद्वन्द्वे द्विवचनादेः, अनुभूतावयवभेदविवक्षया समाहारद्वन्द्वे एकवचनस्य च वचनमन्तराऽप्युपपत्तेरिति चेन्न । विरुद्धार्थानां द्वन्द्वस्यैकंवभावश्चेद्व्यवाचिनामेवेति नियमार्थत्वेन तस्य सार्थक्यादित्याह-वैकल्पिकः समाहार इत्यादि । नियमफलञ्च, शीतोष्णे उदके स्त इत्यत्र द्रव्यवाचित्वादितरेतरयोग एवेति भावः ॥
विप्रतिषिद्धं किमिति । एतदग्रहणे अद्रव्यवाचिनामेवद्वन्द्व एकवद्वेति सामान्यतो नियमेऽविरुद्धार्थयोर्द्रव्यवाचिनोरेकवद्भावाविधानान्नन्दकपाञ्चजन्यावित्येव स्यान्नतु नन्दकपाञ्चजन्यमित्यतस्तद्ग्रहणमित्याशयेनाह-इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति । अनधिकरणवाचीत्यस्याग्रहणे शीतोष्णे उदके स्त इत्यत्र पाक्षिकसमाहारद्वन्द्वस्याऽनिष्टस्यापत्तिरिति भावः ।
नन् 'आनङ ऋतो द्वन्द्वे' इत्यस्य लक्ष्याऽनुरोधेन ऋदन्तानां द्वन्द्वे ऋदन्तस्य पूर्वस्याऽऽनङ् स्यादृदन्त उत्तरपद इत्यर्थस्वीकारे पिता बावित्यत्राऽऽनङ् न स्याह. न्तानां द्वन्द्वाऽभावादृदन्तोत्तरपदपरत्वाऽभावाच्चेत्याशंक्य समाधत्ते-पुत्रेऽन्यतरस्यामित्यत इति । उक्तसूत्रात्पुत्र इत्यस्य मण्डूकप्लुत्याऽनुवर्त्तनेन वाक्यभेदाश्रयणेन ऋद. न्तानां द्वन्दवे ऋदन्तस्य पूर्वस्याऽऽनङ् ऋदन्ते उत्तरपदे अन्दन्तस्य पूर्वस्याऽऽनङ पुत्रशब्दे इति द्विधार्थकरणान्नोक्तस्थलीया काचिदनुपपत्तिरिति दिक ।
ननु 'आनङ् ऋतो द्वन्द्वे' इत्यतो द्वन्द्वपदानुवृत्यैव सिद्धौ पुनः ‘देवता द्वन्द्वेचे'त्यत्र द्वन्द्वग्रहणम्व्यर्थमित्यत आह-पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहर्चयस्य परिग्रहार्थमिति। येषां सहचरणं प्रसिद्धन्तेषामेव द्वन्द्वे आनकुन्तरपदे इत्येतदर्थन्द्वन्द्वग्रहणं तेन ब्रह्मा च प्रजापतिश्चेति विग्रहे ब्रह्मप्रजापतीत्यादावानङ् न । एतयोरेकहविर्भागित्वेन सहचरणं न दृष्टं श्रुतञ्चेति भावः ॥
इति द्वन्द्वः ॥
Aho! Shrutgyanam