________________
फक्किकारत्नमञ्जूषा।
अथैकशेषसमासकप्रकरणम् । ननु एकशेषस्य द्वन्द्वापवाइसङ्गत्यर्थमेतदुत्त रमेक शेषारम्भं प्रदर्शपति-प्रथैक रोष इति । नचाऽपवादस्याऽपि सङ्गतित्वे,
सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा ।
निर्वाहकैकार्य्यत्वे, पोढा सङ्गतिरिष्यते ॥ इत्यनेन पोढात्वकथनस्य विरुद्धत्वमिति वाच्यम् । अपवादेत्यनेनाऽपि अपवाद्याअपवादकभावरूपप्रसङ्गनिर्वाहकसम्बन्धस्य सूचनेनाऽविरोधात् ॥
वृद्धो यूना तल्लक्षणश्चेदिति । अत्र सूत्रे वृद्धपदेन अपत्यमन्तर्हितं वृद्धमिति पूर्वाचार्य्यपरिभाषितस्य पणिन्युक्तगोत्राऽपरपर्यायस्य ग्रहणम् । नच वृद्धपदेनेदृशस्य ग्रहणे किं प्रमाणमिति वाच्यम् । कृत्रिमेन यूना साहचर्य्यस्यैव चात्र प्रमाणत्वादित्यत एवाह मूले-गोत्रं शिष्यत इति । गोयुवप्रत्ययमात्रेति । अत्र प्रत्ययपदस्य प्रतीति. परत्वाद्गोत्रयुबत्वप्रतीतिमात्रेत्यर्थः । तेन गर्गाश्च गाायणाश्च गर्गा इत्यस्य सिद्धिः । एवशब्दार्थो मात्रं, तेन प्रत्ययार्थकृत्स्नादेः प्रकृत्यर्थस्य च प्रतीतेर्व्यवच्छेदादाह-कृत्स्नमिति । एतदेव विकारलभ्यन्तस्कृत एव विशेषश्चेन्नतु तत्कृतातिरिक्ति इत्यर्थः । सूत्रे तल्ल. क्षणः किमित्यस्य तल्लक्षण एव किमित्यर्थः । प्रत्युदाहरति-भागवित्तिभागवित्तिकाविति । भागवित्तस्य गोत्राऽपत्यं भागवित्तिः । अस्मादपल्येऽथें इज यनि अर्थे 'वृद्धादडक् सौवीरेषु बहुलमिति कुल्लाया टकि, तस्य कादेशे द्वितीयस्य सिद्धिः अत्र कुल्लासौ. वीरत्वयोरधिकयोरपेक्षणायुवत्वमात्रकृतवैरूप्याऽभावाच्चैकशेष इति बोध्यम् । कृत्स्नं कि. मिति । एवकारेण प्रकृत्यर्थस्यापि व्यावृत्तिः किमर्थेति प्रश्नः । उत्तरयति-गर्गवात्स्या. यनाविति । अत्र प्रकृत्यंशे वैरुप्यं न गोत्रादिकृतमिति नैकशेषः । तल्लक्षणविशेष इत्येव सामर्थ्यात्तल्लक्षण एवेति लाभे स्पष्टार्थमेवकारग्रहणिमति बोध्यम् ॥
नपुंसकमनपंसकेनैकवच्चेति । नन्वानन्तार्थकचशब्दबलाच्च सूत्रघटकस्याऽन्यरस्यामित्यस्यैकवच्चेत्यनेनैव सम्बन्धो नत्वेकशेषेणेत्यत आह-तच्चैकवद्वेति । श्रन. पंसकेनेति किमिति । एतद्ग्रहणाभावे नपुंसकेनापि द्वन्द्वे एक शेषापत्तिः । शुक्लञ्च, शुक्लञ्च, शुक्ले इति । ननु 'नपुंसकमनपंसकेनैकवच्वास्याऽन्यतरस्यामित्येवं सूत्र. करणेऽपि यत्राऽनेनैवशेषस्तत्रैकवद्भावो भविष्यतीति प्रकृतसूत्रेऽस्य ग्रहणं व्यर्थमिति चेन्न । अनसकेन सहोक्तो नपुंसकस्यैकशेषस्तस्यैवैकवद्भाव इति बोधनार्थ. न्तस्याऽऽवश्यकत्वेन सार्थक्यात् । तेन नाऽन्यसूत्राणां समाहारद्वन्द्वविषये प्रवृत्तिरिति बो. ध्यम् । ननु 'सरूपाणामि' ति सुत्रस्य तर्हि समाहारविवक्षायामप्राप्त्याऽपवादाऽभावाद् घटघटमिति समाहारविवक्षायान्द्वन्द्वः प्राप्नोतीति चेन्न । अनभिधानाद्वघटमिति द्व. न्द्वाऽप्राप्तेः । एकशेषविषये घट्वटमिति द्वन्द्वव्यावृत्त्यर्थमनभिधानस्याऽऽवश्यकत्वाद् द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्यैकशब्दस्याऽनेकार्थत्वाञ्चाश्रित्य प्रत्याख्यातमेकशेष. प्रकरणम्भाष्ये । एकशब्दस्यानेकार्थत्वाऽभावे एकशेषाऽऽरम्भेऽपि गाग्र्यावित्यतो गाग्र्या. यणस्य बोधो न स्यात्तस्य तदर्थकत्वाऽभावात् । शुक्लञ्च शुक्ला च शुक्लश्चेति विग्रह शु.
Aho! Shrutgyanam