________________
एकशेषसमासप्रकरणम् । क्लानीत्येत्त्सूत्रोदाहरणम् । तत्रविग्रहवाक्ये पटपदोपादानं शुक्लादिपदानां गुणे पुंस्त्वादूगुणिपरत्वबोधनायेत्यलम् ॥
श्वशुरः श्वश्र्वा । ननु पितृशब्देन मातापित्रोः श्वशुरशब्देन श्वश्रुश्वशुरयोलक्षणया बोधसम्भवादिदं पिता मानेति च सूत्रद्वयं व्यर्थम् । नच यथा सरूपाणामित्यादिसूत्रसमूहस्य द्वन्द्वव्यावृत्त्यर्थमावश्यकत्वन्तथैतत्सूत्रद्वयमपि द्वन्द्वनिवृत्यर्थमावश्यकमिति वाच्यम् । पक्षे द्वन्द्वस्यापीष्टापत्तेः । एवञ्च तदवस्थैवोक्तसूत्रद्वयस्य वैयर्थ्यशंकेति चेन्न । पितृश्वशुरशब्दयोरिव मातृश्वश्रूशब्दयोः केवलयोर्द्वन्द्वविषये प्रयोगव्यावृत्तये सूत्रद्वयस्यावश्यकत्वात् । नच द्वन्द्वविषये तादृशप्रयोगस्याऽनभिधानादेव वारणसम्भवादनारम्भणीयमेव सूत्रद्वयमिति वाच्यम् । अनभिधानाऽऽश्रयणेन प्रत्याख्यानस्याऽनौचित्यादिति भावः ॥
त्यदादीनि सर्वैनित्यम् । अत्र सूने द्विपर्यन्तानामिति नियमो न प्रवर्तते अहञ्च भवांश्च आवामिति भाष्योदाहरणात् । उक्तनियमप्रवृत्तौ तु अस्मच्छब्दस्य द्विपर्यन्तानामित्येतन्मध्येऽसत्वात्तस्य शेषानापत्त्या भाष्योदाहरणाऽसङ्गतिरिति भावः ।
इत्येकशेषसमासः ॥
अथ सर्वसमासशेषप्रकरणम् । वृत्तिनिरूपणप्रस्तावादाह-कृतद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तय इति । परार्थाऽभिधानं वृत्तिरिति । परशब्देन परपदार्थो गृह्यते । अर्थशब्देन स्व. स्यार्थी गृह्यते, परणे परदार्थेन युक्तो यः स्वस्याऽर्थः स परार्थस्तस्य योऽभिधाजन्योपस्थितिस्तत्करणत्वमिति तदर्थः । इतरपदार्थान्वितस्वार्थविषयकाऽभिधाजन्योपस्थितिजनकत्वमिति फलितोऽर्थः । __ यद्वा परेण प्रधानशब्देन शब्दान्तरार्थस्याऽभिधानं विशेषणत्वेन ग्रहणं तत्करणमित्यर्थः । यत्रत्यप्रधानपदेनेतरविशेषणकस्वार्थस्यैवोपस्थितिस्तत्करणमिति यावत् । __यद्वा परेणाऽप्रधानशब्देनाऽन्यशब्दार्थस्य विशेष्यत्वेन ग्रहणमित्यर्थः । वृत्तिरिति शेषः । साचाऽवयवशक्तिसहकृतसमुदायशक्तिसाध्या अवयवशक्तिलॊकसिद्धा । शास्त्रकल्पिता च समुदायशक्तिरिति । तद्धितादिप्रत्यये समुदायस्य वृत्याश्रयत्वादेषामौपचारिको वृ. त्तित्वव्यवहारः प्राचाम् । सा च वृत्तिः समर्थःपदविधिरिति परिभाषा लभ्या, तत्र समासतद्धि तयोः पदोद्देश्यकविधित्वस्य स्पष्टत्वान्मानान्तरसिद्धैकार्थीभावस्य सत्त्वाञ्च स्पष्टैव परिभाषाप्रवृत्तिः । उपपदनिमित्तकानां कृतामपि स्पष्टमेव पदविधित्वम् । तत्साहचर्येणाऽन्यत्रापि पदविधित्वं बोध्यम् । अत एव पाचकादीनां क्रियाकारकभावसम्बन्धप्रवृत्तिनिमित्तकत्वमूलकः क्रियाशब्दत्वव्यवहारः । एकशेषेऽपि द्वन्द्वस्याऽनुवर्तनादेतद्विषये एकशेषविधानादेकार्थीभावस्याऽऽवश्यकत्वम् ।
वस्तुतस्तु-परार्थाऽन्वितस्वार्थोपस्थापकत्वाऽभावादेकोषस्य वृत्तित्वे मानाऽभा. वः । शिष्ट पदेन स्ववृत्त्यैव तत्तत्समूहार्थोपस्थानस्य भाष्ये स्पष्टप्रतिपादनात् । एकशेषस्य वृत्तित्वाऽभावादेव 'समर्थः पदविधिरि त्यस्याऽधिकारत्वपक्षे नोक्त एकशेषसङ्ग्रहो
Aho! Shrutgyanam