________________
फक्किकारत्नमञ्जूषा। भाष्ये इत्यवसेयम् । सनादिषु क्यजादेः सुबन्ताद्विधानेन स्पष्टमेव पदविधित्वमिति । स्वभावत एव वृत्त्यवृत्योः सिद्धत्वाद्वावचनं न कार्यमिति तत्प्रत्याख्यानपरभाष्यप्रामाण्यात्सुलभ एवैकार्थीभावः सनीति बोध्यम् । प्रातिपदिकप्रकृतिकणिचाप्येकार्थीभावः सुघट एवेति । वाक्यमिति । तव तत्समासघटकपदानान्तत्तत्समासप्रवृत्तियोग्यविभक्त्यन्तानां पृथक्प्रयोगरूपमित्यर्थः । संज्ञाविषयसमासे वाक्येन संज्ञाऽनवगमेऽपि वृत्तिघ. कपदज्ञापनायासमस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । नित्यसमासव्यवहारस्तु तप्य वाक्यस्य वृत्तिसमानार्थत्वाऽभावादूगौणो बोध्यः । अविग्रह इति । लौकिकविग्रहरहित इत्यर्थः । नित्याऽधिकारीयसमासे समासघटकपदानां व्यपेक्षाया अभावेन लो. किकवाक्याऽभावात् । एवञ्च विग्रहप्रदर्शनफलम्बोध्यम् । अश्वपदेति । समस्यमानया. वत्पदाघटित इत्यर्थः । समासविभाजकोपाधिगणनाया आवश्यकत्वादाह-सुपां सुपा तिङा नाम्नेत्यादि । अथ तिडामित्यतः प्राक्सर्वत्र तिडामित्यस्य सम्बन्धः । अत्र सुपां तिडेत्यनेनेव तिडा सुबन्तेनेत्यस्य लाभात्समासस्य पञ्चविधत्वमेव युक्तम् । उभयत्रा. पि सुप्तिङ्घटितत्वस्याऽविशिष्टत्वादित्यलम् ।
इति सर्वसमासशेषः ॥
अथ समासान्तप्रकरणम् । ऋक्पूरब्धूरिति-अ अनक्षे इतिछेदः, अ इति लुप्तविभक्तिकसौत्रो निर्देश इति भावः ॥
ननु सुष्टु आपो यस्मिन्निति विग्रहे अपशब्दान्तत्वेन 'ऋक्कूाबधूरि त्यनेन समा. सान्तोऽप्प्रत्यययः स्यादिति चेन्न । 'न पूजनादि' तितन्निषेधात् । तथा च 'द्वयन्तरुपसर्गेभ्योऽप ईदिति नेत्वापत्तिरित्याशयेनाह-कृतसमासान्तग्रहणान्नेह सुबिति ॥
कृष्णोदकपाण्डुसंख्यापूर्वाया भूमेरजिष्यते। 'संख्याया नदीगोदावरीभ्यां चेति वार्तिद्वयन्नाऽपूर्व किन्तु 'अच् प्रत्यन्ववपूर्वात्सामलोम्नः' इत्यत्राजितियोगविभागात् सिद्धमेव, एवञ्च योगविभागेनैव सिद्धत्वाद्वार्तिकद्वयं नारम्भणीयमिति केचित् । केचिच्च भाष्ये योगविभागस्यादर्शनादुक्तवार्तिकद्वयोदाहरणानां पृषोदरादित्वात्सिद्धिरित्याहुः ।
इति समासान्ताः।
अथाऽलुकसमासप्रकरणम् । अलुगुत्तरपदे-पदे इत्येव सिद्ध उत्तरग्रहणसामर्थ्यादुत्तरपदशब्दस्य समासच. रमावयवे रुढत्वम् । तथा च समासचरमावयवे परे पञ्चम्यादीनामलुगिति तत्तत्सूत्राणामर्थः । 'पञ्चम्याः स्तोकादिम्यः' इत्यादेरारम्भान्नायं विधिः किन्त्वधिकार एवेत्याह-अल. गधिकारः प्रागानङः, उत्तरपदाधिकारस्त्वाऽऽपादपरिसमाप्तेरिति ।
पूरण इति वक्तव्यम् । पूरणप्रत्ययान्ते उत्तरपदे आत्मञ्छब्दप्रकृतिकतृतीयाया अलगिति तदर्थः । ननु उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणमित्यस्य 'हृदयस्य
Aho! Shrutgyanam