________________
1
अलुक्समासप्रकरणम् ।
हृल्लेखे' त्यत्र लेखग्रहणज्ञापितस्य सत्त्वात्तदन्तविध्यभावात्पूरणप्रत्ययान्त इत्यर्थो न स्या दिति चेन्न । आत्मनूशब्दात्पूरणे प्रत्ययासम्भवेन तदन्तग्रहणस्याऽऽवश्यकत्वादुक्तार्थस्य सुलभत्वात् । एतदुदाहरणे देताविति प्रकृत्यादिभ्य इति तृतीया, सुप्सुपेति समासः ॥
७३
ननु प्रकृतिविकृतिभावस्य विरहेण रन्धनाय स्थाली इत्यत्रैव, 'आत्मने पदम् आत्मने भाषेत्यत्र समासो न स्यादित्यत आह-चतुर्थीतियोगविभागात्समास इति । अलुग्विधानसामर्थ्यादपीह समासः सुवच इत्यपि बोध्यम् ॥
गवियुधिस्थिरः - ष्टा धातोः 'अजिरशिशिर' इत्यौणादिकसूत्रेण किरचि स्थिरशब्दो निष्पन्नः । अत्र सात्पदाद्येोरित्यनेन निषेधे प्राप्ते एतदारम्भः अनेन पत्वे गविष्ठियुधिष्ठिर इति सिद्ध्यति । ननु लुकं बाधित्वादन्तरङ्गत्वाच्चाऽऽदेशे 'हलदन्तात्सप्तम्याः संज्ञायामि' त्यनेनैवाऽलुक् सिद्ध्यतीति किमर्थं सूत्रमिदमिति चेन्न । ( अन्तरङानपि विबहिरङ्गो लुग्बाधते) इति न्यायेनाऽवादेशात्पूर्वं लुक्प्राप्त्या हलदन्तादित्यस्याप्राप्त्याऽस्यावश्यकत्वादित्याशयेनाह - श्रत्र गवीति वचनादेवाऽलुगिति ॥
इत्यलुक्समासः ।
अथ समासाश्रयप्रकरणम् ।
घरूपकल्पचेलडुब्रुवगोत्रेति - घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु भाषितपुंस्काद्विहितस्य ड्यन्तस्याऽनेकाचो ह्रस्व इत्यर्थः । ननु घादीनां प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तदन्तविधिर्दुर्वार इति चेन्न । लेखग्रहणेनोत्तरपदाधिकारे क्वचित्प्रत्ययग्रहणे तदन्तविध्यभावज्ञापनात् । इत्थंहि ज्ञापनप्रकारः, यदि प्रत्ययग्रहणे तदन्तग्रहण स्यात्तदाऽणः प्रत्ययत्वात्ततस्तदन्तविधावणन्तरूपोत्तरपदे हृदादेश इत्यर्थं लेखशब्देऽप्यादे - शस्य सौलभ्येन लेखग्रहणस्य वैयथ्यं स्पष्टमेव । न च घञन्तलेखशब्दस्य प्रयोगघटकत्वं यत्र तत्राऽप्यादेशार्थं लेखग्रहणस्याssवश्यकतया कथं तद्वैयर्थ्यानेति वाच्यम्, लेखग्रहणस्योक्तार्थज्ञापकत्ववर्णनपरभाष्यप्रामाण्याद् घञन्तले खशब्दोत्तरपदकपूर्वपदस्य प्रयोगस्याऽनभिधानादिति भावः ॥
हृदयस्य हृल्लेखेति- अत्र सूत्रेऽणन्तस्यैव लेखशब्दस्य ग्रहणं नतु घजन्तस्य, अण्प्रत्ययसाहचर्यात्, अत एव घञन्तरूपोत्तरपदे हृदयलेख इत्येव रूपं नत्वस्मिन् हृदादेशः । नन्वणन्तलेखशब्दग्रहणेऽण्ग्रहणेनैव सिद्धे लेखग्रहणं व्यर्थमिति चेन्न । उत्तरपदाधिकारे तदन्तविधिर्नास्तीति ज्ञापनेन तस्य सार्थक्यात् । ज्ञापनप्रकारच प्रागेवोक्त इति भावः ॥
इको ह्रस्वोऽङ्यो गालवस्य - ननु सूत्रे गालवग्रहणं विकल्पेन ह्रस्वविधानार्थमेव तिष्ठति तच्चेत्पूर्वसूत्रात् 'एकहलादौ पूरयितव्येऽन्यतरस्यामि'त्यस्मादन्यतरस्यामित्यनु. वृत्यैव सिद्धमिति निष्फलमेव तद्ग्रहणमित्यत आह- गालवग्रहणं पूजार्थमिति ।
सम्प्रसारणस्य-उत्तरपदे सम्प्रसारणस्य दीर्घ इत्यर्थः । ननु कौमुद्गन्धोपुत्र इत्यत्र 'इको ह्रस्वissar गालवस्ये' ति ह्रस्वो दुर्वारः । नच कृते ह्रस्वे दीर्घविधानं व्यर्थ
७ फ० म०
Aho! Shrutgyanam