Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 227
________________ चातुरर्थिकप्रकरणम् । ननु सूत्रेऽपूर्ववचन इत्यस्य भावप्रधाननिर्देशत्वादित्याह-अपूर्वत्वे निपातनमिति । स्त्रिया एवापूर्वत्वमिष्यते न पुरुषस्य, पुरुषस्तु अपूर्वभार्यो भवतु मा वेति नाग्रहः ॥ - इसुसुक्तान्तात्कः। ननु इसुसुक्तात्क इत्येव सूत्रकरणेऽप्यधिकृताङ्गविशेषणत्वादेव तदन्तविधिना तान्तादित्यर्थलाभः स्यादेवेत्यन्तग्रहणं व्यर्थं सज्ज्ञापयति प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो यथा स्यादिति । ज्ञापनफलं तु माथितिक इत्यत्र ठस्न्येकादेशे यस्येति लोपे च तान्तत्वेऽपि कादेशाऽभावरूपम् । स्पष्टञ्चेदं ठस्येक इति सूत्रे कैयटे । केचित्तु इकस्थाने कादेशस्य सन्निपातपरिभाषयैव वारणसम्भवादन्तग्रहणं हेयमेवेत्याहुः ॥ ___ननु इसुसुगिति सूत्रे सामान्यत इससोर्ग्रहणे आशिष्घटकस्येसोऽपि ग्रहणात्ततः परस्यापि ठस्य कादेशापत्त्या आशिषिक इति प्रयोगो न सिद्धयेदत आह-इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेहेति । (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमि)ति परिभाषया प्रतिपदोक्तयोरेवेससोर्ग्रहणादाशिष्घटकस्येसोऽतथात्वान्नोक्तदोषावकाश इति भावः । मतोश्च बह्वजङ्गात्-ननु मतोर्बह्वच इत्येव सूत्रकरणेऽपि वैयधिकरण्यसम्बन्धेन बह्वचो विहितो यो मतुप् तदन्तादजित्यर्थेनैवेष्टसिद्धाविहानग्रहणं व्यर्थमित्याशङ्का समाधत्तेअङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्थान्मत्वन्तविशेषणं माभूदिति । सम्भवति सामानाधिकरण्ये वैयधिकरण्यमन्याय्यमित्यभियुक्तोक्क्या सत्यङ्गग्रहणे वह्नजित्यंगवि. शेषणमेव नतु मत्वन्तविशेषणम् । असत्यंगग्रहणे तु मत्वन्तविशेषणमेव स्यादेवञ्च आहि. मतमित्यादावजो दुर्वारत्वं स्यादिति भावः । ननु ठूलोपसूत्राल्लोपपदानुवर्तनाल्लोपसिद्धाविह लुग्ग्रहणं व्यर्थमिति शङ्का निराकरोति लुग्ग्रहणं सर्वलोपार्थमिति । इति चातुर्थिकप्रकरणम् । इति मैथिलवंशोद्भवस्य ठक्कुरोपनामकश्रीकनकलालशर्मणः कृतौ ___ फक्किकारत्नमञ्जूषायां तद्धितप्रकरणं सम्पूर्णम् ॥ C an2----- Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280