Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 242
________________ फक्किकारलमञ्जूषा | अथ तिङन्तेऽदादिप्रकरणम् । ऋतेरीयङ् - 'वञ्चिलुञ्च्युतश्चे 'ति निर्देशात् 'कमेर्णिङ्' इति निर्देशाच्च इका निद्दिष्टस्तान्तोऽयं धातुर्नविकारान्तः । यत्तु ईयङोदीर्घोच्चारणात्तान्तोऽयं धातुः, इदन्तले हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादिति, तन्न, 'एनरेकाच' इति यणापत्तौ सवर्णदीर्घस्य दुर्लभत्वात् । नच ऋतेर्यङ् विधौ (अकृत्सावें ) ति दीर्घोपपत्तेरीयडू विधानं तान्तत्वे लिङ्ग स्यादेवेति वाच्यम् । यद्विधौ 'सन्यडोरिति द्वित्वापत्तेरिति भावः ॥ ९६ ननु जघस् अतुसिति स्थितौ 'गमहनेत्युपधालोपे तस्य 'अचः परस्मिन्निति स्थानिवत्वेन व्यवधानात् खर्परत्वाभावाच्चर्त्वाऽप्राप्त्या जक्षतुरिति न सिद्ध्येत आहगमहनेत्युपधालोपस्तस्य चविधिं प्रतीति- 'न पदान्त' सूत्रेण चर्त्वम्प्रतिस्थानित्वनिषेधात्सर्वमुपपन्नमिति भावः ॥ ननु हन्तेर्लोट मध्यमपुरुषैकवचने हौ तस्मिन् 'हन्तेर्ज:' इत्यनेन हनोजादेशे 'अतोहे:' इति हेलुगू, दुर्वार इति शंकां समाधत्ते श्राभीयतया जस्यासिद्धत्वाद्धेर्न लुगि· ति । यत्तु सन्निपातपरिभापयाऽपि हेर्लुको व्यावृत्तिः सम्भवतीति तन्न । 'अतोहे:' इत्यारम्भसामर्थ्यादुक्तपरिभाषाऽप्रवृत्तेरिति ॥ वधादेशोऽदन्त इति - तेनाऽऽदेशोपदेशकालेऽनेकाच्त्वेन अवधीदित्यत्र 'एकाच ' इतीर्णानिषेधस्याऽप्रवृत्तावपि 'अतो हलादेः" इत्यनेनेडादौ सिचि प्राप्ताया वृद्धेरलोपस्य स्थानिवत्वेन व्यवधानाद्वयावृत्तिरिति भावः ॥ अयं दर्शनेऽपीति - 'विश्वारूपा अभिचष्टे शचीभिः' इत्यत्र दर्शनार्थत्वेन व्याख्यातत्वादिति भावः । नुम् तु न श्रन्तेदित इति व्याख्यानादिति - 'इदितो नुम् धातोरिति नुविधौ 'गोः पदान्ते' इत्यतोऽन्त इत्यस्यानुवृत्याऽन्त्यावयवे कारेत्संज्ञकधातोरेव नुमितिभावः । एवञ्च नुमागमशंकोच्छेदाय चक्षिङ इकारस्थाने अकार एव वमुचित इति ॥ ननु अनुदात्तत्वेनैव तङः सिद्धौ ङकारोच्चारणं व्यर्थमित्यत आह- ङकारस्त्विति । इ माधवानुरोधेन । एतस्य मूलोक्तपरिभाषायां ज्ञापकत्वेन भाष्येऽनुपन्यासात्स्फायनित्यादिप्रयोगा असाधव एवेति परे । अत्र भाष्ये खूशादिरयमादेश इति - अयम्भावः 'चक्षिङ: ख्याञ्' इत्यनेन न afts: ख्याजादेशः किन्तु ख्शानादेश एव, तेन पुंख्यानमित्यत्र न 'पुमः खय्यम्परे' इति रुत्वमित्यादि सन्धावेवोक्तम् । असिद्धकाण्डे (शस्य योवेति स्थितमि) नि तेन णत्वप्रकरणान्तरमितिशेषः । अत एव शकारेण व्यवायान्न ' कृत्यच' इत्यनेन पर्याख्यानमित्यत्र त्वम् । नापि सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीय इत्यत्र यत्वासिद्धत्वेन 'धन्वयोपधाति'ति वुञ् किन्तु छप्रत्यय एवेत्यलम् ॥ ननु 'ईशीजनां सेध्वयोरित्येकयोगकरणेनैव प्रयोजनसिद्धे पृथकयोगकरणं व्यर्थमित्यत आह-योगविभागो वैचित्र्यार्थ इति । ध्ये इत्यस्य पूर्वयोगेऽपकर्षः । से इत्यस्योत्तरत्रानुत्तिरित्येवं विचित्रबोध इत्यर्थः । नव ईशेध्वं इडभावाय योगविभागस्यावश्य Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280