Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 249
________________ तनादिप्रकरणम् । न्तरङ्गार्थकोपसर्गनिमित्ताद्वित्वाद्यपेक्षया सुडन्तरङ्ग इति तदाशयः । लावस्थायामडितिपक्षे तु सम्परिभ्यां परत्वयोग्यस्य करोतेः सुडिति तदर्थात्सर्वथा पूर्व सुडित्यदोषः ॥ ननु 'समवाये चेत्यनेन सम्पूर्वकस्य करोतेषणसंधातयोरर्थयोरेव सुटो विधानादन्याथें तदविधानेन 'संस्कृतं भक्षा' इति सूत्रमसङ्गतिमाप्नुयादित्यत आह-सम्पूर्वस्य क्वचिदभूषणेऽपि सुडिति । अत्रार्थेऽवतरणदलोक्तसूत्रस्यैव ज्ञापकत्वमित्यवसेयम् ॥ __ इति तनादिप्रकरणम् । अथ तिङन्ते क्यादिप्रकरणम् । अवष्टभ्नोति । ननु [वेः स्क-नातेनित्यमि] ति सूत्रे श्नाप्रत्ययनिर्देशेन श्नाप्रत्ययसद्भाव एव षत्वस्य न्याय्यत्वेन श्नुप्रत्ययपक्षे षत्वं कथमिति चेन्न । धातुनिर्देशे स्तिप्प्रत्यये कृते विकरणस्यावश्यकत्वेन शबपवादश्नुश्नाप्रत्ययप्रवृत्तेरवश्यं स्वीकार्यत्वात्तत्राऽन्यतरोच्चारणस्य साधुत्वार्थत्वेनेतरनिवृत्त्यर्थत्वानभ्युपगमादिति भावः ॥ दीर्घनिर्देशसामर्थ्यान्न ह्रस्व इति । ननु ज्ञाजनोर्ज इत्येव सूत्रकरणे (अतोदी. ो यकी) ति दीर्घसिद्धौ दीर्घग्रहणस्य (१)(अङ्गवृत्तौ पुनर्वृत्तावविधिरि)ति परिभाषाज्ञापकत्वस्याऽऽकरे स्थितत्वाद्दीर्घनिर्देशस्योपक्षयेन कथं ह्रस्वाभावे ज्ञापकत्वमिति चेन्न । सत्येव हस्वाभावे दीर्घनिर्देशस्योक्तपरिभाषाज्ञापकत्वात् । सनि हस्वे तु पुनरंगकार्यस्य प्रवृत्तत्वान्न ज्ञापकत्वम् । एवञ्च न हस्वाभावज्ञापने किमपि बाधकमिति भावः ॥ इति क्रयादिप्रकरणम् । । अथ तिङन्ते चुरादिप्रकरणम् । तेषामिह ग्रहणं प्रपश्चार्थमिति । (२)(अनिर्दिष्टार्थाः स्वार्थे भवन्ती) ति परिभाषया स्वार्थे विधानार्थत्वात्प्रपञ्चार्थत्वकथनं तेषामयुक्तमिति वाच्यम् । सत्यशब्दस्य कृषथै णिच्यापुगित्यर्थक (सत्यस्य कुञ्यापुगि) तिभाष्यविरोधात् । न च सत्यापग्रहणस्याऽऽपुनिपातनार्थमावश्यकत्वमिति वाच्यम् । अर्थवेदार्थभाष्यके वार्तिक एवोक्तशब्दग्रहणेनापुर सिद्धेरिति भावः ॥ ___ ननु चितेरिदित्करणं व्यर्थमित्यत आह-चिन्तेति पठितव्ये इदिकरणं णिचः पाक्षिकत्वे लिङ्गमिति । अयम्भावः व्यर्थमिदित्करणं चुरादेणिज्वेति ज्ञापयति । णिचो नित्यत्वे तु तेन व्यवहितत्वान्नलोपाप्राप्त्या व्यर्थमेवेदित्करणं स्यात् । न च णिजन्ताक्वि. पि नलोपाभावार्थमिदित्करणस्य चारितार्थ्यम् । न च णिलोपस्य स्थानिवद्भावेन व्यवधानादेव नलोपवारणमिति वाच्यम् । [क्वौ विधौ न स्थानिवदि] ति स्थानिवत्वनिषेधेन दोषस्य तादवस्थ्यादिति वाच्यम् । 'असिद्धवदत्राऽभादितिणिलोपस्यासिद्धत्वेन क्वौ वि. (१) अङ्गवृत्तेऽङ्गाधिकारकार्थे जाते पुनरन्यस्याऽगकार्यस्य विधानं न भवतीत्यर्थः । ज्यादादीयस इत्याद्विधानेन झापिता चेयम् । द्वयोरिति निर्देशादनित्या च । (२) येषां प्रत्ययानामर्था न निदिष्टास्तेषां स्बार्थे विधानं भवतीत्यर्थः । प्रत्यय इति महासज्ञाबलादर्थाकांक्षायामन्यानुपस्थितिरेवास्या बीजम् ,स्पष्टाचेयं सुपि स्थ इत्यादिसूत्रेषु भाष्ये Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280