Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 247
________________ 'तुदादिप्रकरणम् । अथ तिङन्ते तूदादिप्रकरणम् ।। ननु रमित्यस्य मित्वादन्त्यादचः परत्वेन विधानात् (भ्रस्जो रोपधयोरमन्यतरस्या. मि)तिसूत्रे रोपधयोरिति पष्टीनिर्देशो व्यर्थ इत्यत आह-स्थानषष्ठीनिदर्देशाद्रोपध. योनिवृत्तिरिति । अयम्भावः, स्थानं हि प्रसङ्गः । तेन रोपधयोः प्रसङ्ग रम् प्रयुज्यत इत्यर्थः । प्रयुज्यमानो रम् मित्वादन्त्यादचः पर एव । देशान्तरे यस्य विधानं नास्ति तस्य स्थानिदेश एव विधानं युक्तम् । स्थानषष्ठीनिर्देशसामर्थ्यात्तु देशान्तरे प्रयुज्यमानस्यापि रमो रोपधयोनिवर्तकत्वम् । तस्मात् श्नमः प्रत्ययागमत्वे इव रमादे. शागमत्वे द्वेऽपीष्टे इति ॥ । ननु आशीलिंङि सम्प्रसारणं बाधित्वा परत्वाद्रमि(सकृद्दति) न्यायेन सम्प्रसारणाऽभावे (१)(पुनः प्रसङ्गविज्ञानात्सिद्धमि) ति न्यायेन सम्प्रसारणेऽपि आद्गुणे भादित्याप. त्तिरित्यत आह [ कितिररमागमंबाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेनेति । स. म्प्रसारणरमो जति भ्रष्टेत्यादाववकाशादिति भावः । कृताकृतप्रसंगित्वमात्रेण सम्प्रसारणस्य नित्यत्वमपि सुवचम् । नच ऋकारान्तर्गतरेफमादाय रमोऽपि नित्यत्वमिति वा. व्यम् । वर्णग्रहणे वर्णेकदेशाग्रहणस्य भाष्ये स्पष्टत्वादिति दिक् ॥ ननु अस्य तुकि तस्य चुत्वेन चकारे लिटि दित्वेऽभ्यासकायें 'ऋच्छती' ति गुणे त्रिहल्त्वान्नुट् न स्यादत आह-द्विहलूग्रहणस्याऽनेकहलुपक्षणत्वान्नुडिति ॥ न द्विहलग्रहणस्यानेकहलुपलक्षणत्वे प्रमाणाभावात्कथन्तत्र नुडिति वाच्यम् । अदुपधस्य चेदश्नोतरेवेति नियमाद्विहल्ग्रहणस्य प्रत्याख्यानं कुर्वतो भाष्यकारस्यैव तत्र प्रमाणत्वेन तदुपपत्तेः । न च (२) (वार्णादाङ्ग बलीयः) इति परिभाषया गुणे तुको प्राप्त्या त्रि. हल्त्वाऽभावादुक्ताऽनुपपत्त्यभावेन द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वाऽभ्युपगमो व्यर्थ एवेति वाच्यम् । 'च्छवोः शूडनुनासिक चेत्यत्र सतुनिर्देशेनोक्तारिभाषायास्तुग्विषयेऽनाश्र. यणादिति दिक् ॥ म्रियतेलुंलिङोश्च । डित्वं स्वारार्थमिति । 'तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमित्यनेन 'माहि मृते' त्यत्र डितः परस्य लादेशसार्धधातुकस्यानुदात्तत्वे कृते धातोरुदात्तत्वम् । सत्यङित्वे तु प्रत्ययस्योदात्तत्वे धातोरनुदात्तत्वं स्यात् । न च सिज्लोपस्यासिद्धत्वाल्लसार्वधातुकस्य डितः परत्वस्य दुरुपपादत्वात्कथं तस्यानुदात्तत्वमिति वाच्यम् । ङित्वसामथ्र्येन सिज्लोपस्यासिद्धत्वाऽभावज्ञापनात् । अमृतेत्यत्राऽडागमस्यै. वोदात्तत्वेन नान्यत्किञ्चित्प्रयोजनं मृडो डिक्त्वस्येति तत्राऽटवारणाय माङः प्रयोगे 'तिङ्ङतिङ' इति तिङन्तनिघातेऽपि ङित्त्वं व्यर्थमेवेति हि शब्दप्रयोगः, तत्प्रयोगे तु 'हि चे' त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरसिद्धिरित्यलम् ॥ ___ (१) तुल्यबलपुरुषद्वयस्यैको भृत्यः पर्यायेण कार्यसम्पादको भवति न युगपन्नानादिक्षु च कार्ये प्रेषितः, तथा लक्ष्यप्रयोजनस्यापि शास्त्रद्वयस्य कुत्रचिल्लक्ष्ये युगपत्प्रवृत्यसम्भवेनाऽ प्रतिपत्तौ सत्यां परविध्यर्थमिदं विप्रतिषेधसूत्रम्। कृते च तस्मिन् पूर्वशास्त्रप्राप्तौ सत्यां तद. पि भवत्येवेति मूलोक्तन्यायासिद्धिः। (२) वर्णोद्देश्यककार्यादङ्गोद्देश्यककार्य बलवदित्यर्थः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280