________________
'तुदादिप्रकरणम् ।
अथ तिङन्ते तूदादिप्रकरणम् ।। ननु रमित्यस्य मित्वादन्त्यादचः परत्वेन विधानात् (भ्रस्जो रोपधयोरमन्यतरस्या. मि)तिसूत्रे रोपधयोरिति पष्टीनिर्देशो व्यर्थ इत्यत आह-स्थानषष्ठीनिदर्देशाद्रोपध. योनिवृत्तिरिति । अयम्भावः, स्थानं हि प्रसङ्गः । तेन रोपधयोः प्रसङ्ग रम् प्रयुज्यत इत्यर्थः । प्रयुज्यमानो रम् मित्वादन्त्यादचः पर एव । देशान्तरे यस्य विधानं नास्ति तस्य स्थानिदेश एव विधानं युक्तम् । स्थानषष्ठीनिर्देशसामर्थ्यात्तु देशान्तरे प्रयुज्यमानस्यापि रमो रोपधयोनिवर्तकत्वम् । तस्मात् श्नमः प्रत्ययागमत्वे इव रमादे. शागमत्वे द्वेऽपीष्टे इति ॥ । ननु आशीलिंङि सम्प्रसारणं बाधित्वा परत्वाद्रमि(सकृद्दति) न्यायेन सम्प्रसारणाऽभावे (१)(पुनः प्रसङ्गविज्ञानात्सिद्धमि) ति न्यायेन सम्प्रसारणेऽपि आद्गुणे भादित्याप. त्तिरित्यत आह [ कितिररमागमंबाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेनेति । स. म्प्रसारणरमो जति भ्रष्टेत्यादाववकाशादिति भावः । कृताकृतप्रसंगित्वमात्रेण सम्प्रसारणस्य नित्यत्वमपि सुवचम् । नच ऋकारान्तर्गतरेफमादाय रमोऽपि नित्यत्वमिति वा. व्यम् । वर्णग्रहणे वर्णेकदेशाग्रहणस्य भाष्ये स्पष्टत्वादिति दिक् ॥
ननु अस्य तुकि तस्य चुत्वेन चकारे लिटि दित्वेऽभ्यासकायें 'ऋच्छती' ति गुणे त्रिहल्त्वान्नुट् न स्यादत आह-द्विहलूग्रहणस्याऽनेकहलुपक्षणत्वान्नुडिति ॥ न द्विहलग्रहणस्यानेकहलुपलक्षणत्वे प्रमाणाभावात्कथन्तत्र नुडिति वाच्यम् । अदुपधस्य चेदश्नोतरेवेति नियमाद्विहल्ग्रहणस्य प्रत्याख्यानं कुर्वतो भाष्यकारस्यैव तत्र प्रमाणत्वेन तदुपपत्तेः । न च (२) (वार्णादाङ्ग बलीयः) इति परिभाषया गुणे तुको प्राप्त्या त्रि. हल्त्वाऽभावादुक्ताऽनुपपत्त्यभावेन द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वाऽभ्युपगमो व्यर्थ एवेति वाच्यम् । 'च्छवोः शूडनुनासिक चेत्यत्र सतुनिर्देशेनोक्तारिभाषायास्तुग्विषयेऽनाश्र. यणादिति दिक् ॥
म्रियतेलुंलिङोश्च । डित्वं स्वारार्थमिति । 'तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमित्यनेन 'माहि मृते' त्यत्र डितः परस्य लादेशसार्धधातुकस्यानुदात्तत्वे कृते धातोरुदात्तत्वम् । सत्यङित्वे तु प्रत्ययस्योदात्तत्वे धातोरनुदात्तत्वं स्यात् । न च सिज्लोपस्यासिद्धत्वाल्लसार्वधातुकस्य डितः परत्वस्य दुरुपपादत्वात्कथं तस्यानुदात्तत्वमिति वाच्यम् । ङित्वसामथ्र्येन सिज्लोपस्यासिद्धत्वाऽभावज्ञापनात् । अमृतेत्यत्राऽडागमस्यै. वोदात्तत्वेन नान्यत्किञ्चित्प्रयोजनं मृडो डिक्त्वस्येति तत्राऽटवारणाय माङः प्रयोगे 'तिङ्ङतिङ' इति तिङन्तनिघातेऽपि ङित्त्वं व्यर्थमेवेति हि शब्दप्रयोगः, तत्प्रयोगे तु 'हि चे' त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरसिद्धिरित्यलम् ॥ ___ (१) तुल्यबलपुरुषद्वयस्यैको भृत्यः पर्यायेण कार्यसम्पादको भवति न युगपन्नानादिक्षु च कार्ये प्रेषितः, तथा लक्ष्यप्रयोजनस्यापि शास्त्रद्वयस्य कुत्रचिल्लक्ष्ये युगपत्प्रवृत्यसम्भवेनाऽ प्रतिपत्तौ सत्यां परविध्यर्थमिदं विप्रतिषेधसूत्रम्। कृते च तस्मिन् पूर्वशास्त्रप्राप्तौ सत्यां तद. पि भवत्येवेति मूलोक्तन्यायासिद्धिः। (२) वर्णोद्देश्यककार्यादङ्गोद्देश्यककार्य बलवदित्यर्थः ।
Aho! Shrutgyanam