________________
१००
फक्किकारत्नमञ्जूषा। ज्ञाजनोर्जा-ज इति ह्रस्वोच्चारणेऽपि 'अतो दीर्घो यजी' ति दी जानातीत्यादिसिद्धौ जाग्रहणस्य (अङ्गवृत्तौ पुनर्वृत्तावविधिः) इत्येतज्ज्ञापकत्वम् , तेन पाधातोः पिबादेशे कृते न गुणः । पिबादेशस्यादन्तत्वाश्रयणेन गुणवारणन्तु समाधानान्तरमिति भावः ॥
ननु ‘शल इगुपदधादनिटः क्स' इत्यनेन क्सस्य सिद्धत्वे तत्सुत्रविहितक्सस्य किं फलमित्यत आह-पुषाद्यङपवाद इति ॥
ननु शिलष इत्येतद्विहितक्तस्य पुषादिसूत्रविहिताङपवादत्ववचिणपवादत्वमपि स्या. दत आह-पुषाद्यङपवादो नतु चिणः पुरस्तादपवादन्यायादिति । (१)(पुरस्ता. दपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानि) ति तत्स्वरूपम् । तथा च पुरस्तादपवादस्य क्सस्य अनन्तरस्याङ एवापवादत्वं न तूत्तरस्य चिण इति भावः ॥
ननु 'आलिङ्गने' इत्यस्य (अनन्तरस्य विधिर्वा भवति प्रतिषेधो वे) तिन्यायेन शिलष इत्येतद्विहितक्सस्य नियमत्वमेव स्यादत आह-योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियम इति। यदि श्लिष इति प्राप्तक्सस्यैव नियमः स्यात्तदा योगविभागस्य वैयर्थ्यमेव स्यादिति भावः ॥
इति दिवादिप्रकरणम् ॥
अथ तिङन्ते स्वादिप्रकरणम् । बभूथाततन्थेति-ननु क्रादिनिषेधादेव सिद्धे ववर्थग्रहणं निगमे एवेति नियमार्थन्तदाह-तेन भाषायां थलीडिति ।
श्रन्थिग्रन्थिदम्भिस्वजीनां लिटःकित्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इति । 'सदेः परस्य लिटी' ति सूत्रस्थः ( परिषस्वजे ) इति भाष्यप्रयोगः, 'अत एक हलि' ति सूत्रस्थो (हेभतुरि)ति भाष्यप्रयोगश्चेह मानम् । (दम्भेश्चे)ति 'अत एके' ति सूत्रस्थं वात्तिकम् ॥
इदं कित्वं पिदपिद्विषयकमिति सुधाकरादय इति-अत्रारुचिबीजन्तु श्र. न्थिग्रन्थीत्येव लिट् पदस्य कित्पदस्य च कर्त्तव्यतापत्या गौरवरूपम् । मम तु व्याकरणान्तरेऽपि असंयोगादिति कित्प्रकरण एवैतदिति तयोरकर्त्तव्यत्वं स्पष्टमेव । अत एव भाष्ये प्रथमोपस्थितणलं विहाय देभतुरित्युदाहृतं दम्भेश्चेत्येत्वविधायके इत्यलम् ॥
इतिस्वादिप्रकरणम् । -are
. (१) प्रथमोपस्थितापवादशास्त्राणि पश्चादुपस्थितविधिशास्त्राणि बाधन्ते इति परिभाषाथः । पूर्वोपस्थितानन्तरबाधेन चारितार्थ्यसम्भवे पश्चादुपस्थितबाधे मानाभाव एवात्र बीजम् ।
Aho ! Shrutgyanam