________________
अदादिप्रकरणम् ।
ख्याधातुः सार्वधातुकमात्रविषय इति - अत्र प्रमाणमाह - (सस्थानत्वं नमः ख्यात्रे ) इति वार्तिकम् । नमः ख्यात्रे इत्यत्र सस्थानत्वं वक्तव्यम् । अन्यथा 'शर्परे विसर्जनीय' इत्यनेन विसर्गः स्यादिति तदभिप्रायः । आर्द्धधातुकेऽप्यस्य प्रयोगे कृदन्तेSस्मिन्परे 'शर्परे विसर्जनीय' इत्यस्याऽप्रवृत्या 'कुप्वोरिति जिह्वामूलीयो दुर्वार एव स्यात् । कुण्वोरित्यस्य 'विसर्जनीयस्य स ' इत्यस्यापवादत्वमजानतो वार्त्तिककृत उक्तिरिति न वाच्यम् । ख्याञादेशस्य ख्शादित्वप्रयोजनगणनावसरे एव तदुक्तेरिति । सं. ख्यातीति प्रयोगस्तु नास्त्येव । संख्येति प्रयोगस्तु न्यासकृन्मते ख्याजा देशस्येति बोध्यमिति ॥
९९
चर्करीतं चेति-चर्करीतमिति यङ्लुकः संज्ञा, तेन सामर्थ्यात्तदन्तग्रहणम् । श्र दादाविति । तेन यङ्लुगन्ताच्छवेव नतु तत्तद्गणप्रयुक्तः श्यनादिः । शपोलुक्च, परस्मै. पदिन उपक्रम्य पाठादस्य परस्मैपदित्वमेवेति ।
इत्यादिप्रकरणम् ॥
अथ तिङन्ते जुहोत्यादिप्रकरणम् ।
ननु आलोपस्य स्थानिवत्वाज्झषन्तत्वाऽभावेन धत्त इत्यादावपि भष्भावो न स्यादत आह-वचनसामर्थ्यादालोपस्य न स्थानिवत्वमिति । अन्यथोपायसद्भावाद्वचनसामथ्यकल्पनं न युक्तमित्याह - वस्तुतस्तु पूर्वत्रासिद्धे नस्थानिवदिति । एवञ्च वामनादीनां वचनसामर्थ्याश्रयणं व्यर्थमेवेति भावः ॥
ननु 'विज इडि' ति सूत्रे सामान्यतो विजधातोरुपादानादर्थनिर्देशाभावाच्चैतद्गुणप ठितस्यापि धातोस्तत्र ग्रहणात्ततः परस्येटो ङित्वविधानाल्लुडादौ गुणनिषेधः स्यादत आह - श्रोविजोत्यस्यैव तत्र ग्रहणादिति । व्याख्यानात्तौदादिकस्य राधादिकस्यैव च ग्रहणान्नेह काप्यनुपपत्तिरिति भावः ॥
ऐय इति - ऋधातोर्लङि द्वित्वेऽभ्यासस्येत्ये इयङि उत्तरखण्डे गुणे स्परत्वे हल्ब्यादिलोपे विसगँ आदि वृद्धौ रूपम् | लावस्थायामडिति पक्षेऽपि 'बहुलं छन्दस्यमाङि सूत्रे बहुलग्रदणात्तदुत्तरमन्त्राऽऽट् 'बहुलं छन्दसी' त्येव सिद्धे 'अतिपिपत्यश्चे' त्य त्रार्त्तिग्रहणज्ञापकेन लोके प्रयोगेऽपि छान्दसप्रकरणे पाठात्क्वचिदेव लोके साधुत्वमिति बोध्यम् ।
इति जुहोत्यादिप्रकरणम् ॥
अथ तिङन्ते दिवादिप्रकरणम् ।
ननु सुधातोर्लिटि तत्स्थाने यासि तस्य से द्वित्वे उवङि सुषुव से इति स्थितौ 'स्वरति सूति' इत्यनेन प्राप्तस्य वैकल्पिकेडागमस्य पुरस्तात्प्रतिषेधारम्भसामर्थ्यात् युकः किती' ति निषेधेन क्रादिनियमादिटि सुपुविषे इत्यादि सिद्ध
मिति भावः ॥
Aho! Shrutgyanam