________________
फक्किकारत्नमञ्जूषा |
त्वाद्धस्वो दुर्वार एवेति वाच्यम् । परिच्छिन्न परिमाणार्थवाचकव्यादिद्रोणादिशब्दानां न्यूनाधिकयोरप्रवृत्तिवत्सर्वाद्युपादानेन क्रियमाणसंज्ञायाः शास्त्र व्यापारं विना न्यूनाधिकयो. प्रवृत्तिवच्च परिच्छिन्नपरिमाणे तदप्रवृत्या दीर्घविशिष्टे भान्ते च लौकिकन्यायेनोपसर्गत्वाऽभावादुपसर्गज्ञायाः परिच्छिन्नपरिमाणप्रादिगतत्वादिति भावः । श्रन्येतु लक्ष्यानुसारात्क्वचिदुक्तन्यायानाश्रयणाददोष इत्याहुः ॥
९८
ननु ब्रूतेर्लटि सिपि 'ब्रुवः पञ्चनामि' त्याहादेशे आह सिप इति स्थितावाहः स्थानिवत्वेन ब्रूत्वात्ततः परस्य सिपः 'ब्रुव इडि' - ति इट् दुर्वार इत्यत आह- श्राथेत्यत्र झलीति थत्वविधानान्न भवतीति । 'आहस्थः' इत्यनेन सिप्रूपे झलि हस्य थविधानसामर्थ्यादिनेति कल्प्यते । अन्यथा सतीडागमे झलादित्वाभावात्तदप्राप्त्या आत्थे -- ति रूपं न स्यादिति भावः ॥
ननु ब्रूतेर्लोटि तत्स्थाने मिपि तस्मिन्बुवो गुणे मिप आनि तस्मिन्नवादेशे स्थानिववेन मिपः पित्वस्याssनौ सुलभत्वादुक्तसूत्रेणेट् दुर्वार इत्यत आह- ङिच्च पिन्नेत्यपित्वादिणनेति । (ङिच्च पिन्न पिच्च ङिन्ने ) ति भाष्याद्विशेषविहितेनादिष्टङित्वेन पित्वस्य बाधात्पित्वाभादेव नासाविति भावः ॥
ननु 'द्विर्वचनेऽचि' इत्यनेन द्वित्वनिषेधादिङ एव द्वित्वे उत्तरखण्डस्य गाऽऽदेशे अधोगे इति स्यान्नत्वधिजग इत्यत आह-लावस्थायामिति । एवञ्च गादेशस्य लिटो निमित्तत्वेन द्वित्वनिमित्ताज्निमित्तत्वाऽभावादुद्विर्वचनेऽचीत्यस्याप्राप्त्या नोक्ताऽऽपत्तिरिति भावः । विवक्षिते वेति-लिटो विवक्षायामेवादेश इत्यर्थः । भाष्यकृन्मतमेतत्, एतन्मते त्वनैमित्तिकत्वेन सुतरामेव नोक्तसूत्रप्रवृत्तिरिति ॥
ननु पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेनेत्यभियुक्तोक्त्या अन्तरङ्गत्वाद्गुणादेः प्रागेव सवर्णदीर्घे यणि अध्ययै इति न स्यादत आह-गुणायादेशयोः कृतयोरुपसर्गस्य यणिति । अयम्भावः, 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेत्यस्य सुटका - त्पूर्व' इत्यत्र भाष्ये सिद्धान्तितत्वात्पूर्वं गुणादिरेव । ननु एतत्सिद्धान्तपक्षे भाष्यकृता स्वेनैव तत्रैवाऽरुचिः प्रदर्शितेत्यरुचेराह - 'शेरध्ययने वृत्तमिति निद्देशाद्वेति । एतन्निर्देशान्न दीर्घाऽभावः कल्प्यते किन्तु भाष्यकृदुक्त एव । अपूर्वार्थकल्पनापेक्षया भाष्यसम्मतपक्षकल्पनस्यैव ज्यायस्त्वात् । नच [वार्णादाङ्ग बलीयः] इति परिभाषयैव दीर्घव्यावृत्तिरिति वाच्यम् । समानाश्रय एवोक्तपरिभाषाऽप्रवृत्तेरिति दिक् ॥
श्रागमे सत्यनेकाच्त्वाद्यणिति - कृताकृतप्रसङ्गित्वमात्रेणाऽटो नित्यत्वादिय बाधित्वाऽऽट् । अत एवाऽपरितोषात् असिद्धत्वादियङ एवौचित्यमित्यभिप्रायेण वा के. चिदित्युक्तम् | लावस्थायामेवाडिति पक्षे तु यणेवेत्यलम् ॥
ननु 'तनादिकृञ्भ्य उ:' इत्यस्य स्थाने 'तनादेरुः" इत्येव सूत्रकरणात्कृञोऽप्युप्रत्ययः स्यादेव सूत्रे कृञ्ग्रहणं व्यर्थमित्यत आह-तनादित्वादेव सिद्धे इति । तनादिसाह - चर्येण तद्गुणस्यैव कृञोऽत्र ग्रहणं क्रियासामान्यवाचित्वेनान्वययोग्यत्त्वात्तस्यैवात्रानुप्रयोगः । एवञ्च कृञ्ग्रहणं व्यर्थ सद्गणकार्यस्यानित्यत्वे ज्ञापकम् । तथा च विश्वसेदित्यत्र न शपो लुगिति । भाष्यकृता तु कृञ्ग्रहणस्य प्रत्याख्यातत्वाज्ज्ञापितेऽपि तस्य चारितार्थ्याSभावाच्चात्रार्थे तात्पर्यं न युक्तम् । उक्तप्रयोगस्त्वार्थत्वादेव समाधेय इत्यलम् ॥
Aho! Shrutgyanam