________________
अदादिप्रकरणम् । कतया वैचित्र्यार्थकथनमयुक्तमिति वाच्यम् । भाष्यविरोधात् । ईड्जनोवें चेति भा. व्यसम्मतपाठः ॥ ननु शासेरापूर्वकत्वस्य नित्यत्वेन प्रशास्मह इत्यस्यानुपपत्त्या
इदं कविभ्यः पूर्वेभ्यो नमो वाकं प्रशास्महे ।
विन्देम देवतां वाचममृतामात्मनः कलाम् ॥ इति कविप्रयोगस्य का गतिरित्यत आह-पापूर्वत्वं प्रायिकमिति । अत ए. वोक्तकविप्रयोगसङ्गतिः । नच प्रशास्मह इत्यत्रेच्छारूपार्थप्रतीत्यभावान्नास्य धातो रूपमिति वाच्यम् । धातूनामनेकार्थत्वात् । वचनं वाकः, वचेज् । नमोवाकं नमस्कारमिति यावत् । प्रशास्महे कुर्मह इति यावत् ॥
ननु लिङ्स्थानिकादेशस्य तिपः पित्त्वात्तस्य च (यदागम) परिभाषया याऽसुटविशिष्टे सत्वात्तस्मिन् 'उतो वृद्धिलकी'त्यनेन वृद्धिदुरित्यत आह-इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्नेति व्याख्यानादिति-सार्वधातुकमपिदित्यस्यावृत्याऽस्य लाभः । ननु पूर्ववाक्येन ङित्वमपि दुर्लभमत आह-विशेषविहितेन ङित्त्वेन पि. त्त्वस्य बाधादिति ॥
ननु ऊर्णोते लिटि णुशब्दस्य द्वित्वे उत्तरखण्डे णकारश्रवणं दुर्वारमत आह-नुशब्दस्य द्विस्वमिति-उपदेशे न एव न तु णः, स तु रषाभ्यामि'त्यनेन भवति, तस्य द्वि. त्वदृष्टयाऽसिद्धत्वान्नुशब्दस्यैव द्वित्वम्' यबुध्या शास्त्रप्रवृत्तिस्तदीयद्वितीयप्रयोगस्यैव साधुत्वान्वाख्यानान्नोत्तरखण्डे णकारश्रवणं पूर्वोच्चारणेन व्यवधानाच्च न शास्त्रेग णत्वास क्तिरिति भावः । ननु (पूर्वत्रासिद्धीयमद्वित्वे) इति परिभाषया णत्वस्यासिद्धत्वाऽभावबोधनान्णकारस्यैव द्वित्वेनोत्तरखण्डे तच्छ्रवणं दुर्वारमेवेत्यत आह-(१) पूर्वत्रासिद्धायमद्वित्वे इति त्वनित्यमिति--पूर्वत्रासिद्धमित्यधिकारे भवमित्यर्थः । गहादेराकृतिगणत्वाच्छः । यत्पूर्वत्राऽसिद्धीय शास्त्रं तत्राद्वित्वे इत्यस्योपस्थितिस्तस्य च पुर्वत्रेत्यने नाऽन्वयाद्वित्वभिन्ने पूर्वत्र कर्तव्ये इदमसिद्धमित्यर्थः । द्वित्वं स्वन्यत्रासिद्धम्भवत्येव । अत्र द्वित्वशब्देनाविशेषात्पाष्टाष्टमिकयोहणम् । परिभाषाऽनित्यत्वे प्रमाणमाह-उभौ साभ्यासस्येति-अन्यथा अन्धातोः 'अनिते' रित्यनेन कृतणत्वस्य द्वित्वे प्राणिणत प्राणिणिषतीत्यादिसिद्धौ व्यर्थ सदुक्तसूत्रं परिभाषाऽनित्यत्वे ज्ञापकमिति भावः ॥
ननु एतेलिङि' इत्यनेनोपसर्गात्परस्येणोऽणो ह्रस्वविधानादभीयादित्यत्रापि ह्रस्वो दुर्वार इत्याशंक्य समाधत्ते-उभयत आश्रयणे नान्तादिवदिति-यथा द्वयोरेकः प्रे. प्यस्ताभ्यां युगपभिन्नदेशकायें प्रेरितोऽविरोधार्थी न कस्यापि करोति कार्यन्तद्वत् पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्याञ्च विरोधस्य स्फुटत्वाद्विरुद्धातिदेशस्य युगपदसम्भव इति भावः । नैतद्विषये स्थानिवद्भावप्रवृत्तिः, आनुमानिकस्थान्यादेशभावे विशिष्टस्य स्थानित्वेऽपि प्रत्येकं तयोः स्थानित्वे मानाऽभावात् वर्णयोरेव श्रौतस्थान्यादेशभावविधानाच्चेति बोध्यम् । नच भान्तस्य ( एकदेशविकृत) न्यायेनोपसर्गत्वात्परादिवद्धावेने कारस्ये.
(१) द्वित्वभिन्ने पूर्वत्र कर्तव्ये परशास्त्रमसिद्धमित्यर्थः । अत्र ज्ञापकं तु पूर्वत्रासिद्ध. मित्यधिकारभवं शास्त्रमेवेति । अनित्यत्वे ज्ञापकवर्णनं च मूले एव स्पष्टमितिबोध्यम् । ९ फ० म०
Aho! Shrutgyanam