________________
फक्किकारलमञ्जूषा |
अथ तिङन्तेऽदादिप्रकरणम् ।
ऋतेरीयङ् - 'वञ्चिलुञ्च्युतश्चे 'ति निर्देशात् 'कमेर्णिङ्' इति निर्देशाच्च इका निद्दिष्टस्तान्तोऽयं धातुर्नविकारान्तः । यत्तु ईयङोदीर्घोच्चारणात्तान्तोऽयं धातुः, इदन्तले हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादिति, तन्न, 'एनरेकाच' इति यणापत्तौ सवर्णदीर्घस्य दुर्लभत्वात् । नच ऋतेर्यङ् विधौ (अकृत्सावें ) ति दीर्घोपपत्तेरीयडू विधानं तान्तत्वे लिङ्ग स्यादेवेति वाच्यम् । यद्विधौ 'सन्यडोरिति द्वित्वापत्तेरिति भावः ॥
९६
ननु जघस् अतुसिति स्थितौ 'गमहनेत्युपधालोपे तस्य 'अचः परस्मिन्निति स्थानिवत्वेन व्यवधानात् खर्परत्वाभावाच्चर्त्वाऽप्राप्त्या जक्षतुरिति न सिद्ध्येत आहगमहनेत्युपधालोपस्तस्य चविधिं प्रतीति- 'न पदान्त' सूत्रेण चर्त्वम्प्रतिस्थानित्वनिषेधात्सर्वमुपपन्नमिति भावः ॥
ननु हन्तेर्लोट मध्यमपुरुषैकवचने हौ तस्मिन् 'हन्तेर्ज:' इत्यनेन हनोजादेशे 'अतोहे:' इति हेलुगू, दुर्वार इति शंकां समाधत्ते श्राभीयतया जस्यासिद्धत्वाद्धेर्न लुगि· ति । यत्तु सन्निपातपरिभापयाऽपि हेर्लुको व्यावृत्तिः सम्भवतीति तन्न । 'अतोहे:' इत्यारम्भसामर्थ्यादुक्तपरिभाषाऽप्रवृत्तेरिति ॥
वधादेशोऽदन्त इति - तेनाऽऽदेशोपदेशकालेऽनेकाच्त्वेन अवधीदित्यत्र 'एकाच ' इतीर्णानिषेधस्याऽप्रवृत्तावपि 'अतो हलादेः" इत्यनेनेडादौ सिचि प्राप्ताया वृद्धेरलोपस्य स्थानिवत्वेन व्यवधानाद्वयावृत्तिरिति भावः ॥
अयं दर्शनेऽपीति - 'विश्वारूपा अभिचष्टे शचीभिः' इत्यत्र दर्शनार्थत्वेन व्याख्यातत्वादिति भावः । नुम् तु न श्रन्तेदित इति व्याख्यानादिति - 'इदितो नुम् धातोरिति नुविधौ 'गोः पदान्ते' इत्यतोऽन्त इत्यस्यानुवृत्याऽन्त्यावयवे कारेत्संज्ञकधातोरेव नुमितिभावः । एवञ्च नुमागमशंकोच्छेदाय चक्षिङ इकारस्थाने अकार एव वमुचित इति ॥
ननु अनुदात्तत्वेनैव तङः सिद्धौ ङकारोच्चारणं व्यर्थमित्यत आह- ङकारस्त्विति । इ माधवानुरोधेन । एतस्य मूलोक्तपरिभाषायां ज्ञापकत्वेन भाष्येऽनुपन्यासात्स्फायनित्यादिप्रयोगा असाधव एवेति परे ।
अत्र भाष्ये खूशादिरयमादेश इति - अयम्भावः 'चक्षिङ: ख्याञ्' इत्यनेन न afts: ख्याजादेशः किन्तु ख्शानादेश एव, तेन पुंख्यानमित्यत्र न 'पुमः खय्यम्परे' इति रुत्वमित्यादि सन्धावेवोक्तम् । असिद्धकाण्डे (शस्य योवेति स्थितमि) नि तेन णत्वप्रकरणान्तरमितिशेषः । अत एव शकारेण व्यवायान्न ' कृत्यच' इत्यनेन पर्याख्यानमित्यत्र त्वम् । नापि सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीय इत्यत्र यत्वासिद्धत्वेन 'धन्वयोपधाति'ति वुञ् किन्तु छप्रत्यय एवेत्यलम् ॥
ननु 'ईशीजनां सेध्वयोरित्येकयोगकरणेनैव प्रयोजनसिद्धे पृथकयोगकरणं व्यर्थमित्यत आह-योगविभागो वैचित्र्यार्थ इति । ध्ये इत्यस्य पूर्वयोगेऽपकर्षः । से इत्यस्योत्तरत्रानुत्तिरित्येवं विचित्रबोध इत्यर्थः । नव ईशेध्वं इडभावाय योगविभागस्यावश्य
Aho! Shrutgyanam