________________
फक्किकारत्नमञ्जूषा ।
ननु तृषेर्लुङि (स्पृशमृशे ) ति सिज् विकल्पः कुतो नेत्यत आह-स्पृशमृशेति सिविकल्पः पौषादिकस्यैव श्रङपवादत्वादिति । ( उत्सर्ग समानदेशा अपवादा: ) इति न्यायादिति भावः । किञ्चोक्तवार्त्तिके पौषादिकतौदा दिकयोर्ग्रहणे पक्षे सिजभावे चले. रेव श्रवणोपपत्तौ ' च्लिः क्वापि न श्रूयत' इति भाष्यविरोधो दुर्वारः स्यादित्यलम् ॥
ननु (१) (पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ) इति परिभाषया परत्वादियङः प्राग्लघूपधगुणः स्यादत आह— श्रन्तरंत्वादियङिति । (२) (नाजानन्तयें बहिवप्रक्लप्तिरिति निषेधादन्तरं गपरिभाषाऽप्रवृत्या दोषस्य तादवस्थ्यमेवेति वाच्यम् । गुणेोः समकालप्राप्तिकत्वेनोक्तनिषेधपरिभाषाऽप्रवृत्तेरिति भावः ॥ इति तुदादिप्रकरणम् ।
१०२
अथ तिङन्ते रुधादिप्रकरणम् ।
,,
जश्त्वं ष्टुत्वमित्यादि । अत्र प्रक्रिया प्रदर्शनमात्र एव तात्पर्य्यम् नतु क्रमदर्शने । शिण्डीतिसानुस्वार एव पाठः, अनुस्वारस्याऽऽदिष्टादचः पूर्वत्वेन स्थानिवत्त्वाप्रवृत्तावपि (दीर्घादाचार्याणामित्युत्तरं (अनुस्वारस्य ययि ) ( वा पदान्तस्य ) (तोलिं) (उदःस्था) (झयो हो ) ( शशुछोटी) ति षट्सूत्रीपाठोत्तरं (झलां जश्झशि ) ( अभ्यासे चर्च) (खरिच) ( वाऽवसाने) (अणोऽप्रगृह्यस्ये ) ति पञ्चसूत्रीपाठ इति भाष्यसम्मताष्टाध्यायीपाठपक्षे परसवर्णदृष्ट्या (झरो झरी) त्यस्य (झलां जशि) त्यस्य चाऽसिद्धत्वेन ययपरत्वाऽभावात्परसवर्णाऽप्राप्तेरिति ।
इतिरुधादिप्रकरणम् ।
अथ तिङन्ते तनादिप्रकरणम् |
(३) संज्ञापूर्वको विधिरनित्य इति न भवतीत्यात्रेयादय इति । अनारुचि जन्तु नित्यत्वे भाष्यानुक्तत्वमेव ॥
ननु कात्पूर्वग्रहणं कालावधारणार्थं तदा सुट् भवति यदा कृतः कात्पूर्वो भवतीति तेनान्तरङ्गमपि द्वित्वादिकं बाधित्वा पूर्व मुडिति 'अडभ्यासव्यवायेऽपीति न कार्य्यमिति तत्प्रत्याख्यातं कात्पूर्व इत्यपि प्रत्याख्यातम्भाष्यकारेणेत्यत आह- पूर्वं धातुरिति । उपसर्गेणेत्यस्य तदर्थेनेत्यर्थः । अत एवाऽनुभूयत इत्यत्र कर्मणि लकारसिद्धिः । एवञ्चा
(१) बलवत्वप्रयोजकपरिभाषा प्रकरणस्थेयं परिभाषा | अर्थस्तु पूर्वशास्त्रात्परं शास्त्रं बलवत् विप्रतिषेधसूत्र बलात् । परशास्त्रान्नित्यं शास्त्र वलवत् । नित्यशास्त्रादन्तरङ्गशास्त्रं बलवत् । अन्तरंगशास्त्रादपवादशास्त्रं बलवत् इति । पूर्वात्परं बलवत् स्वोत्तरत्वादित्याद्यनुमानप्रकारो बोध्यः ।
(२) अग्निष्ठान्यानन्तर्यनिमित्तकेऽन्तरंगे कर्तव्ये यदन्तरङ्गप्राप्तिस्तत्र च कर्तव्ये न बहिरङ्गत्वप्रयुक्तासिद्धिरित्यर्थः । अत्र षत्वतुकोरिति सूत्रस्थं तुम्प्रहण ज्ञापकम् ।
(३) विधेयताप्रयेाजकसंज्ञाशब्दघटितं शास्त्रमनित्यमित्यर्थः । इयं परिभाषा भाष्ये नो-क्ता भाष्यकृतेति ध्येयम् ।
Aho! Shrutgyanam