________________
तनादिप्रकरणम् । न्तरङ्गार्थकोपसर्गनिमित्ताद्वित्वाद्यपेक्षया सुडन्तरङ्ग इति तदाशयः । लावस्थायामडितिपक्षे तु सम्परिभ्यां परत्वयोग्यस्य करोतेः सुडिति तदर्थात्सर्वथा पूर्व सुडित्यदोषः ॥
ननु 'समवाये चेत्यनेन सम्पूर्वकस्य करोतेषणसंधातयोरर्थयोरेव सुटो विधानादन्याथें तदविधानेन 'संस्कृतं भक्षा' इति सूत्रमसङ्गतिमाप्नुयादित्यत आह-सम्पूर्वस्य क्वचिदभूषणेऽपि सुडिति । अत्रार्थेऽवतरणदलोक्तसूत्रस्यैव ज्ञापकत्वमित्यवसेयम् ॥
__ इति तनादिप्रकरणम् ।
अथ तिङन्ते क्यादिप्रकरणम् । अवष्टभ्नोति । ननु [वेः स्क-नातेनित्यमि] ति सूत्रे श्नाप्रत्ययनिर्देशेन श्नाप्रत्ययसद्भाव एव षत्वस्य न्याय्यत्वेन श्नुप्रत्ययपक्षे षत्वं कथमिति चेन्न । धातुनिर्देशे स्तिप्प्रत्यये कृते विकरणस्यावश्यकत्वेन शबपवादश्नुश्नाप्रत्ययप्रवृत्तेरवश्यं स्वीकार्यत्वात्तत्राऽन्यतरोच्चारणस्य साधुत्वार्थत्वेनेतरनिवृत्त्यर्थत्वानभ्युपगमादिति भावः ॥
दीर्घनिर्देशसामर्थ्यान्न ह्रस्व इति । ननु ज्ञाजनोर्ज इत्येव सूत्रकरणे (अतोदी. ो यकी) ति दीर्घसिद्धौ दीर्घग्रहणस्य (१)(अङ्गवृत्तौ पुनर्वृत्तावविधिरि)ति परिभाषाज्ञापकत्वस्याऽऽकरे स्थितत्वाद्दीर्घनिर्देशस्योपक्षयेन कथं ह्रस्वाभावे ज्ञापकत्वमिति चेन्न । सत्येव हस्वाभावे दीर्घनिर्देशस्योक्तपरिभाषाज्ञापकत्वात् । सनि हस्वे तु पुनरंगकार्यस्य प्रवृत्तत्वान्न ज्ञापकत्वम् । एवञ्च न हस्वाभावज्ञापने किमपि बाधकमिति भावः ॥
इति क्रयादिप्रकरणम् । । अथ तिङन्ते चुरादिप्रकरणम् । तेषामिह ग्रहणं प्रपश्चार्थमिति । (२)(अनिर्दिष्टार्थाः स्वार्थे भवन्ती) ति परिभाषया स्वार्थे विधानार्थत्वात्प्रपञ्चार्थत्वकथनं तेषामयुक्तमिति वाच्यम् । सत्यशब्दस्य कृषथै णिच्यापुगित्यर्थक (सत्यस्य कुञ्यापुगि) तिभाष्यविरोधात् । न च सत्यापग्रहणस्याऽऽपुनिपातनार्थमावश्यकत्वमिति वाच्यम् । अर्थवेदार्थभाष्यके वार्तिक एवोक्तशब्दग्रहणेनापुर सिद्धेरिति भावः ॥ ___ ननु चितेरिदित्करणं व्यर्थमित्यत आह-चिन्तेति पठितव्ये इदिकरणं णिचः पाक्षिकत्वे लिङ्गमिति । अयम्भावः व्यर्थमिदित्करणं चुरादेणिज्वेति ज्ञापयति । णिचो नित्यत्वे तु तेन व्यवहितत्वान्नलोपाप्राप्त्या व्यर्थमेवेदित्करणं स्यात् । न च णिजन्ताक्वि. पि नलोपाभावार्थमिदित्करणस्य चारितार्थ्यम् । न च णिलोपस्य स्थानिवद्भावेन व्यवधानादेव नलोपवारणमिति वाच्यम् । [क्वौ विधौ न स्थानिवदि] ति स्थानिवत्वनिषेधेन दोषस्य तादवस्थ्यादिति वाच्यम् । 'असिद्धवदत्राऽभादितिणिलोपस्यासिद्धत्वेन क्वौ वि.
(१) अङ्गवृत्तेऽङ्गाधिकारकार्थे जाते पुनरन्यस्याऽगकार्यस्य विधानं न भवतीत्यर्थः । ज्यादादीयस इत्याद्विधानेन झापिता चेयम् । द्वयोरिति निर्देशादनित्या च ।
(२) येषां प्रत्ययानामर्था न निदिष्टास्तेषां स्बार्थे विधानं भवतीत्यर्थः । प्रत्यय इति महासज्ञाबलादर्थाकांक्षायामन्यानुपस्थितिरेवास्या बीजम् ,स्पष्टाचेयं सुपि स्थ इत्यादिसूत्रेषु भाष्ये
Aho ! Shrutgyanam