________________
१०४
फक्किकारत्नमञ्जूषा। धावित्यस्य क्विशब्दमुच्चार्य विहितविधिविषयत्वेनादोषात्। न च क्वौ लुप्तं न स्थानिवदिति स्थानिवद्भावनिषेधात्क्विबन्ते दोषाऽभावार्थमिदितकरणस्यावश्यकत्वे ज्ञापकत्वायोगइति वाच्यम् । तस्यासार्वत्रिकत्वादिति प्राञ्चः । तत्रिमत्र्यादाविदित्वस्य व्यभिवरितत्वात्वों लुप्तमित्याश्रयणे ज्ञापकत्वौचित्याच्चिन्तेति पाठेऽर्धमात्रागौरवाच न णिशास्त्रबाधे मानमिति न भाष्यकृता गिचो वैकल्पिकत्वमुक्तन्नापि कैयटकृतेत्यपि बोध्यमिति प्राहुनागेशाः।
एतच्च ज्ञापकं सामान्यापेक्षमिति । सर्वेऽपि चुरादयो धातवो विकल्पेन णिचं लभन्त इत्यर्थकमिदित्करणं ज्ञापकमित्यर्थः । न च ज्ञापकस्य सामान्यापेक्षत्वे 'आषाद्वे' त्यस्य वैयर्थ्य सर्वचुरादीनां वैकल्पिकणिज्ज्ञापनेनैतत्सूत्रविहितवैकल्पिकणिचोऽकिञ्चित्करत्वादिति वाच्यम् । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वेन सार्थक्यात् । एवञ्चास्मिन्पक्षे आरषीयाणामेवैच्छिको विकल्पः, ज्ञापकस्य सामान्यापेक्षत्वादेव वृत्तिकृदुदाहृतस्य जगाणे. त्यादेः संगतिः । अन्यथोक्तप्रयोगानुपपत्तिः । अन्येषां तु शिष्टप्रयोगानुपपत्तिः । अन्येषां शिष्टप्रयोगाद्वयवस्थित इति एतत्पक्षस्य [भाष्यविरुद्धत्वं] दर्शयति, तथा हि ज्ञापकस्य सामान्यापेक्षत्वे 'घुषिरविशब्दने' इति सूत्रस्स्थभायं विरुणद्धि, तत्रहि, विशब्दनार्थस्योक्तधातोश्चरादित्वेन नित्यणिजन्तत्वाद्भवादेश्वाऽ विशब्दनार्थ एवं वृत्तः सुत्रे विशब्दन इति व्यर्थमित्याशंक्य, एतदेव ज्ञापयति घुर्विशब्दने विभाषा णिच् तेन जुघुपिरिति सिद्धमित्यक्तम् , अत एव चुरादाविरित्वमति सार्थकम् ॥
विशेषापेक्षमिति । असंयोगोपधेकारान्तचुरादेगिचो विकल्प इत्येवं रूपमित्यर्थः । ज्ञापकस्य विशेषापेक्षत्वादेव, 'आषाद्वे' त्यस्य चारितार्थ्यम् । न च पूर्वपक्षस्य शैथिल्ये वृत्तिकृदुक्तग्रन्थस्य कथं सङ्गतिरिति वाच्यम् । भ्वादेराकृतिगणनेन तत्रत्यधातोरुक्तरूपोपपत्तेः ॥ . यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यमिति । नस्योपधत्वाऽभावेन नलोपाइप्रसक्त्या ज्ञापितेऽपि चारितार्थ्याऽभावादिति भावः ॥ ___ ननु हस्वोच्चारणेऽपि परतीत्यादिरूपसिद्धावुक्तरूपसिद्धयर्थं कथं दीर्घोच्चारणं णिवो वैक. ल्कित्वं ज्ञापयतीत्याह-दीर्घोच्चारणं णिचः पाक्षिकत्वे लिंगमिति ।
इररारामपवाद इति । ऋकारोपधे (उपधायाचे)ति सूत्रेणाऽचीकृतदित्यादाविर प्राप्तः । अमीमृजदित्यत्र 'मृजेर्वृद्धिरि त्यनेनाऽऽर प्राप्तः । इतरेषामृदुपधानां अपीपृथदित्यत्राऽर प्राप्त इति विवेकः । ननु इह उरित्यनूद्यमानः सवर्णान् गृह्णाति । ऋदिति विधीयमानो न तान् गृह्णाति । तथाच, अचीक्लपदित्यत्र 'उत्' इत्यनेन सति ऋवणे अचीक्लपदित्यापत्तिरिति चेन्न । लत्वस्यासिद्धत्वेन प्राक् उत् इत्यस्य प्रवृत्त्या पश्चात् 'कृपो रोल' इत्यनेन ऋकारैकदेशस्य लादेशविधानेनेष्टसिद्धरित्यलम् ॥
ननु अत उपधाया इत्यनेन कथयतीत्यत्र वृद्धिर्दुर्वारेत्यत आह-अल्लोपस्य स्थानिवत्तवान्न वृद्धिरिति । अचः परस्मिन्निति सूत्रेणेत्यर्थः । नव स्थानिनि सति यत्कार्य तस्यैव स्थानिवदित्यनेनातिदेशो नत्वादेशप्रयुक्तवारणम् । अन्यथा नायकः पावक इत्यादेन सिद्धिस्तथा चोक्तदोषस्तदवस्थ एवेति वाच्यम् । अचः परिस्मिन्नित्यत्र
Aho ! Shrutgyanam