________________
चुरादिप्रकरणम् ।
१०५ स्थानिवदित्यनुवृत्त्या शब्दाधिकारपक्षाश्रयणात्स्थानिनि सति यन्न भवति तदादेशेऽपि न, स्थानिनि सति यद्भवति तदादेशेऽपीति भावातिदेशस्य सिद्धान्तितत्वेन स्थानि सत्यभवत्या वृद्धरादेशेऽप्यभावात् । उक्तद्विविधातिदेशे नपदान्तसूत्रस्थयलोपादिग्रहणस्यैव प्रामाण्यमित्यलम् ॥
ननु उन धातोणिचि तदन्ताल्लुडि तत्स्थाने तिपि पकारेकारयोरित्वे लोपे च मध्ये च्लौ तत्स्थाने चङि आडागमे आ उन इ अदितिस्थितौ णिचो द्वित्वनिमित्तत्वाऽभावेन (द्विर्वचनेऽची') त्यस्याऽप्राप्त्या द्वित्वात्परत्वादन्तरङ्गत्वाच्च कृतेऽल्लोपे निशद्वस्य द्वित्वे
औननदितीष्टरूपाऽनापत्तिरित्यत आह-श्रोःपुयणजीति । बिभावयिषति, अबीभवदि. त्यादावन्तरङ्गत्वावृद्धाववादेशे (सन्यत) इत्येव सिद्धं पूङयौतेश्च सनि (स्मिपूज्वशां सनि) (सनीवन्त भ्रस्जदन्भे)त्यादिनेटि द्वित्वनिमित्तसत्वात् (द्विर्वचनेऽची)ति सूत्रप्रवृत्त्या पूर्व गुणाभावादभ्यासे उकारसद्भावेऽपि पिपविषते यियविषतीत्यत्रेत्वार्थ पययोरित्येव वाच्यम् । न च पिपविषत इत्यादौ गुणाऽवादेशयोः (अचः परस्मिन्नि)तिस्थानिवद्भावेनाsवर्णपरयकारादिपरत्वाऽभावादित्वं न स्यादिति वाच्यम् । पययोरित्येतत्सूत्रारम्भसामथ्येन स्थानिवद्भावाप्रवृत्तेः एवञ्च व्यर्थीभूतं वर्गादिग्रहणं णिचो द्वित्वानिमित्तत्वाऽभावे तन्निमित्तकाऽजादेशस्य द्वित्वे कर्त्तव्ये निषेधं ज्ञापयति, ज्ञापनफलं तु तुतावयिषति, अतूतवत् , ऊर्णनावयिषति, और्गुनवत्, पुस्फारयिषति, अपुस्फुरदिति । न च (ओःपुयणजी)ति सूत्रे णिचीत्याऽसत्त्वात्कथं णिच्यजादेशो नेत्यर्थलाभ इति वाच्यम् । द्वित्वनिमित्तेऽचि नाऽजादेशः स्थानिवदित्यर्थक द्विवंचनेऽची'त्यस्य (येन नाव्यवधानमि)तिन्यायेन एकवर्णव्यव. धाने प्रवृत्त्या तल्लाभात् तेनाऽपूर्वनिषेधाज्ञापनात् । अत एव दिववनीयिषतीत्यादौ नाऽतिप्रसक्तिः । तथा च द्वित्वनिमित्तेऽजादौ प्रत्यये एकप्रत्ययातिरिक्ताव्यवहिते परे तदन्यतरनिमित्तकादेशो नेति द्विर्वचनेऽची'त्यस्यार्थः फलित इति भावः । ननु उक्तरीत्योक्तज्ञापनेनाचिकीतदित्यत्र पूर्व 'उपधायाश्चे' तीत्वमपि न स्यादत आह-यत्र द्विरुक्ताविति । ज्ञापकसाजात्याद्यत्र द्वित्वेभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठितरूपे वाऽवर्णो लभ्यते तत्रैवोक्तनिषेधादुक्तस्थले प्रक्रियायां परिनिष्टितरूपे वाऽभ्यासोत्तरखण्डस्याऽऽद्यचोड. वर्णरूपत्वाऽभावान्नापत्तिरित्यत्यम् ॥
अदन्तत्वसामर्थ्यारिणज्विकल्प इति । कथादिषु उपाधावृद्धिदीर्घसन्वद्भाववि. रहात्सारभामप्रभृतीनामुपधाहस्वस्य गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्त्तनाददन्तत्वस्य सार्थक्यम् । गर्वयतेस्त्वदन्तत्वं प्रागुक्तलाभावाद्वयथं सत् णिचः पाक्षिकत्वं ज्ञापयति । नचादन्तत्वसार्थक्याय वाऽल्लोप इति प्राचोक्तमेव स्वीकर्तव्यमिति वाच्यम् । चिन्तयतेरिदित्वस्य सामान्यापेक्षज्ञापकत्वे उक्तस्याऽदन्तत्वफलस्य स्पष्टत्वेपि विशेषापेक्षज्ञापकत्वे तत्र तत्राऽऽकारोकाररूपानुबन्धानां ज्ञापकत्ववददन्तत्वस्य ज्ञापकत्वाक्षतेः । कलुलेनैव णिज्विकल्पेनैव कृतार्थत्वेनापूर्वलोपबाधकल्पनस्यायुक्तत्वात् । सत्येवं मतद्वयेऽप्येकमेव रूपमिति भावः ॥
परत्वावृद्धौ सत्यां टिलोप इति । शब्दान्तरप्राप्त्या लोपोऽनित्यः । वृद्धिरपि तथा । उभयोरनित्ययोः परत्वावृद्धिः । कृतायां तस्यामौकारस्याऽऽवादेशात्प्रा
Aho ! Shrutgyanam