________________
१०६
फक्किकारत्त्रमञ्जूषा |
गेव परत्वार्णादाङ्गस्य बलीयस्त्वाच्च औलोप इति । एवञ्चाऽनग्लोपित्वाद्दीर्घ सन्वद्भावौ स्तः । नच टिलोपस्य स्थानिवद्भावेन व्यवधानाच्चङ्परणिपरलघुपरकाऽभावेन कथं दीर्घसन्वद्भावाविति वाच्यम् । तथाऽप्यङ्गस्य णिचूपरत्वाऽनपायात् । चङ्परे णौयल्लध्विति पक्षेऽपि अभ्यासस्याssदिष्टादचः पूर्वत्वेन स्थानिवत्वमेव नास्तीति न कोऽपि दोष:, अत एव 'मुण्डमिश्रेति सूत्रे हलकल्योरदन्तत्वनिपातनं सङ्गच्छते । पूर्वं लोपे तु इकारलोप्यग्लोपित्वसत्वेन तद्वैयर्थं स्यात् । एतन्निपातनमेवात्र ज्ञापकम् । आयादेशात्प्रागेवाऽन्तरङ्गत्वालोपेऽनग्लोपित्वाद्भवत्येव सन्वद्भाव इति
वृद्ध ेर्लोप बलीयानिति । अत एव 'नाग्लोपी' तिसूत्रेऽगितिप्रत्याहारग्रहणस्य साफल्यम् । (मुण्डमिश्रे ) ति सूत्रे हलकलेत्यकारान्तस्यैव पाठात्, एतद्भाष्यप्रामाण्यादिदुदुववेभ्यो णिजन्तेभ्यो लुङोऽनभिधानाच्च न दोष इति दिक् ॥
इति चुरादिप्रकरणम् ।
Writer
अथ तिङन्ते ण्यन्तप्रक्रिया |
श्रचीच कासदिति । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर इति व्याख्यातॄणां प्राचां मत एतत् । मतान्तरे त्विति । भाष्यसम्मतपक्षे तु चङ्परे णौ यल्लवित्यर्थे सन्वद्भावाद्यप्राप्त्या अचचकासदितिरूपम् ।
1
ननु अचुचुरइ अदिति स्थितौ णिनिमित्तणिलोपस्य स्थानिवस्वाच्चडूपरणिपराया उपधाया अभावात्तत्परलघोरभावाच्च हस्वदीर्घो न स्यातामित्याशयेनाशंकते - नचाग्लोपिश्वाद्वयोरप्यसम्भव इति । समाधत्ते - एयाकृतिनिर्देशादिति । 'ते प्राग्धातोरित्यादौ गत्याकृतिनिर्देशवदिति भावः । एतेन वर्णग्रहणे एव जातिप्रहणं नान्यत्रेति केषाञ्चिन्मतमपास्तम् । एवञ्च णित्वजात्याश्रयानेकणिचो ग्रहणेन णिचङ्परत्वाद्धूस्वदीर्घयोरस्ति सम्भव इति वृत्तिकृन्मतम् । शेखरकृतस्तु-जातेः पौर्वापर्याभावेन दोषस्तदवस्थ एव, जात्या न पौर्वापर्य व्यवहारः सम्भवतीत्याशंकायां [आर्द्धधातुक इति विषयसप्तमी]तिभाष्येण व्यक्तिद्वारकपौर्यापर्यस्याऽप्यनङ्गीकारात् । किञ्च णावित्यस्याऽग्लोपविशेषत्वाण्णित्वजातिनिमित्तकाग्लोप इत्यर्थेन एकणिनिमित्तकापरणिलोपस्यापि णित्वजातिनिमित्तकत्वेनाऽग्लो पित्वस्य दुर्वारतया दोषस्य तादवस्थ्यम्, तथा च अवीवददिति भाष्येण [र्णिच्युपसंख्यानमि ]ति 'चङी' ति सूत्रस्थवार्त्तिक्रेन चोक्तप्रयोगसाधुत्वमित्याहुः ॥
ननु अन्तरङ्गत्वात्पूर्वं कृतयोवृद्धयायोः पश्चात्सम्प्रसारणेऽपि अशूशवदिति न स्यादत आह- सम्प्रसाणं तदाश्रयञ्च कार्यं बलवदिति । वच्यादीनां ग्रह्यादीनामनुवृत्यैवेटसिद्धौ' लिट्यभ्यासस्ये' त्यत्रोभयेषां ग्रहणसामर्थ्यादेतस्या लाभः । अन्यथा वत्रश्चेत्यत्र कृते हलादिशेषे वस्य सम्प्रसारणापत्तिरिति । नच णिच्यजादेशो न स्याद्वित्वे कर्तव्य इत्यर्थक 'द्विर्वचनेऽची' तिसूत्रप्रवृत्त्या वृद्ध्यादेरप्राप्त्या न दोष इति वाच्यम् । अशूशवदितिभाष्यप्रयोगेणोक्तज्ञापनस्यानित्यत्वात् । नच सूत्रसामर्थ्यादेवोक्तज्ञापनस्यानित्यत्वमिति वाच्यम् । तस्य द्वित्वे कृतेऽपि चरितार्थत्वादिति भावः ॥
ननु एधतेर्लुङि णिचि उपधासंज्ञायाः प्राक् धिशब्दस्य द्वित्वे तत एकारस्योपधात्वाऽभात्रा
Aho! Shrutgyanam