________________
ण्यन्तप्रक्रियाप्रकरणम् ।
१०७ ध्रस्वाऽप्राप्त्या मा भवानिदिधदिति प्रयोगो न स्यादत आह-बहिरंगोऽप्युपधाह्रस्वो द्वित्वात्प्रागेवेति । एवञ्च द्वित्वात्प्रागह्वस्वे सत्युक्तप्रयोगसिद्धिः । अत्र प्रमाणमाह
ओणेऋदित्करणाल्लिङ्गादिति । हस्वात्पूर्व द्वित्वे तु णिशब्दस्य द्वित्वे सत्युपधाहस्वाऽप्राप्त्या तन्निषेधार्थ कृतस्य ऋकारस्य वैयर्थ्य स्यात् उक्तज्ञापनेनोक्तार्थज्ञापने तु द्वित्वा. प्रागुपधाहस्वाप्राप्तौ तद्वयावृत्त्यर्थमृदित्करणस्यावश्यकत्वादुक्तार्थे ज्ञापकत्वं सुस्थमिति भावः ॥ __अयमुजधातुरुपदेशावस्थायां दकारोपधः उद्ज इति । ततो भुजन्युब्जावित्यब्रोब्ज इति निपातनेन दकारस्य बकारः तस्य चान्तरङ्गत्वेपि न द्वित्वात्प्राक प्रवृत्तिस्तथा सति छिजशब्दस्य द्वित्वे औब्जिजदितीष्टप्रयोगानापत्तिः । अर्थादुत्तरखण्डे बकारश्रवणापत्तिः स्यात् किन्तु दकारोच्चारणसामर्थ्यात् 'नन्द्राः संयोगादयः इतिनिषेधेन जिशब्दस्य द्वित्वे कृत एव, तथा च न कोऽपि दोष इत्यभिप्रेत्याह-उपदेशे दकारोपध इत्यादि दकारोच्चारणसामादित्यन्तमिति।
ननु कृतात्वस्यापि स्थानिवत्वेन लीत्वान्नुक स्यादत आह-लोई इति ईकारप्रश्लेषादात्वपक्षे नुक् नेति ।।
ननु हेतुभय इत्युक्तेर्भयस्मयावित्यनुपपन्नमित्यत आह-भयग्रहणं धात्वर्थोपलक्षणमिति ।
ननु हेतोः स्मयस्य गम्यमानत्वे सत्येवाऽऽत्वात्मनेपदयोर्विधानात्तत्रात्वाङ्गीकार आत्मनेपदत्यागे च वक्ष्यमाणरघुकाव्यप्रयोगानुपपत्तिरित्याशंकते-कथन्तर्हि (१)विस्मापयन्विस्मितमात्ववृत्ताविति । समाधत्ते-पत्र मनुष्यवाचेति । अत्र मनुष्यवा. चेति करणादेव स्मयस्य गम्यमानत्वाद्धेतोरगम्यमानत्वेन न दोषः । हेतोस्तद्गम्यमानत्वे तु सत्यात्मनेपदे शानजापत्तिारैव । मुख्यसमाधानमाह-सत्यमिति । समाधानान्तरमाह-मनुष्यवाक प्रयोज्यकर्तीति । यद्यपि प्रथमणिजर्थम्प्रति मनुष्यवागेव प्रयोजिका तथापि द्वितीयणिजाऽभिप्रायेणेदमुक्तम् । अत एवाऽऽत्वम्प्रवृत्तम् । प्रयोज्यस्य की प्रयोज्यकर्तीति व्याख्यायां प्रथमणिजाभिप्रायेणैव सुयोज्यमित्याहुः केचित् । रायन्तापणाविति । राजा विस्मयते तं मनुष्यवाग्विस्मापयते तया सिंहो विस्मापयमिनति । एञ्च प्रथमणिच मनुष्यवाचो हेतुत्वादात्वपुकोरुपपत्तिरिति भावः ॥
ईय॑तेस्तृतीयस्येति वक्तव्यम्-तृतीयस्येत्यस्य तृतीयव्यञ्जनस्येत्यर्थः । अत्र व्याख्याने फलं दर्शयति-एप्रिययदिति । एर्षिष्यदित्यस्यासाधुत्वापत्तिरत आह-द्वितीयव्याख्यायामिति । ईय॑तिप्रकृतिकप्रत्ययान्तधातोरित्यर्थे बीजाऽभावेन ण्यन्ते सन्नन्ते च प्रवृत्तिः । तृतीयस्येति । तृतीयव्यञ्जनसहितस्यैकाच इत्यर्थः ॥ ___ननु अर्थधातोरागीयत्वेनात्मनेपदित्वात्प्रार्थयन्तीति प्रयोगानुपपत्तिरित्यत आहनिवृत्तप्रेषणाद्धातोरिति । उक्तञ्च निवृत्तप्रेषणाद्धातोः प्राकृतेऽथें नियुज्यत इति । तेन
(१) श्लोकोऽयं २ सर्गे रघुवंशकाव्ये
तमार्यगृह्यं निगृहीतधनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्वं निजगाद सिंहः ॥
Aho ! Shrutgyanam