________________
१०८
फक्किकारत्नमञ्जूषा ।
प्रार्थनां कुर्वन्तीति विवक्षितेऽर्थे प्रयोग इति भावः । यत्तु परस्मैपदसिद्ध्यर्थं प्रार्थनं प्रास्तं कुर्वन्ति प्रार्थयन्तीति तन्न, धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करणस्य वक्ष्यमाणत्वाद् ‘अर्थवेदयोरित्यापुको दुर्वारत्वात् ॥
इतिण्यन्तप्रक्रिया |
अथ तिङन्ते सन्नन्तप्रक्रिया |
ननु प्रत्ययवाच्येच्छाया नियतकर्माकांक्षत्वात्प्रत्यासत्या प्रकृत्यर्थकर्मिकायामेवेच्छायां सनो विधानात्कर्मणो लाभे पुनस्सूत्रे तदुपादानं व्यर्थमित्याशङ्कते - कर्मणः किमिति । उत्तरयति - गमनेनेच्छतीति करणान्माभूदिति । अयम्भात्रः, कर्मण इत्यस्याभावे प्रत्यासत्तेः सर्वैर्दुर्बोध्यत्वादिच्छाकर्मकादेवेत्यर्थे निश्चिते समानकर्तृकाद्धातोरित्यनेन यस्य यस्य समानकर्तृत्वं तस्य सर्वस्योपस्थितौ करणभूतार्थवाचकादपि धातोः यत्किञ्चित्कर्मिकायामिच्छायामपि प्रत्ययापत्तिः तत्सत्वे तु न तथेति । समानकर्तृकात्किमिति । प्रत्ययापत्तिमाश्रित्य प्रश्नः । पूर्ववदेवोत्तरम् ॥
ननु परत्वात्कत्वषत्वयोः कृतयोर्भष्भावो न स्यादत आह-सनः पत्वस्यासिद्धत्वाद्भषभाव इति । केचित्तु जागृह स इति स्थितौ सस्येणः परत्वात्प्राप्तवत्वस्यासिद्धत्वेन sa भष्भाव इति वदन्ति । षत्वे च कृते पश्चाद्भष्भावे कर्त्तव्ये सकारपरत्वाभावेन भष्भावो नेति पूर्वपक्षे प्रक्रान्तेऽस्य ग्रन्थस्य प्रवृत्तिरित्यन्ये ॥
ननु धृङः सनि [अत्रेटो दीर्घो नेष्टः ] इत्यनेनेटो दीर्घाभावबोधनाद्दीर्घघटितप्रयोगो ऽनुपपन्न इत्याशंकते - कथमुद्दिधीर्षु रिति । समाधते भौवादिकयोर्धृ धृञोरि ति । एवञ्च 'अज्झनगमां सनी' ति वक्ष्यमाणसूत्रेण दीर्घे प्रयोगोपपत्तिरितिभावः ॥
1
ननु दिदीपत इत्यत्र 'मिनाति मिनोति' इत्यनेनात्वं कुतो नेत्याशंकां समाधत्तेएज्विषयत्वाऽभावादिति । उक्तसूत्रेणैज्विषय एवात्वविधानन्न तु तदभाव इति प्रकृasaथात्वान्नात्वमिति अत्र प्रमाणमाह-- श्रत एवेति । एज्विषयाऽभावेऽप्यात्वे 'स निमीमे' ति सूत्रे माग्रहणेन ( १ ) [ गामादाग्रहणेष्वविशेषः ] इति परिभाषया मीधातोरपि ग्रहणसिद्धौ पृथक् तदुपादानं व्यथं स्यादितीदमेवैज्विषय एवात्वमित्यत्र बीजमित्यलम् ॥
ननु 'हलन्ताच्चे' त्यनेन इक् समीपस्थहलव्यवहितोत्तरस्य झलादिसनः किद्भावविधानेन तितृक्षतीत्यत्र स न स्यात् सनो ऋकाररूपेक्समीपस्थनकाररूपहलः परत्वाभा - वान्मध्ये हकारेण व्यवधानादित्याशंक्य समाधत्ते - हल्ग्रहणं जातिपरमिति । एवञ्च हल्त्वजात्याक्रान्तैकानेकहल् परस्य झलादिसनः किदित्यर्थे न दोष इति भावः ॥
ननु इषेः सनि द्वित्वगुणयोः प्राप्तौ नित्यत्वाद्वित्वेऽभ्यासस्यानर्थक्यादिटो गुणस्य चानापत्तौ एषिषिपतीतीष्टरूपन्न स्यादत आह-इह नित्यमपि द्वित्वं गुणेन बा
(१) दाधाध्वदा बिते सूत्रेऽदान्घटकदाप्पदेन देपा प्रहणाय दैप् शोधन इत्यत्रेत्संज्ञकः पकारः कृत; सच दापदेन प्रतिपदोक्त दारूपस्यैव प्रहणात् निरनुबन्धपरिभाषया निरनुबन्धकस्यैव च ग्रहणाच्च व्यर्थः सन्नुक्तपरिभाषाज्ञापकः ।
Aho! Shrutgyanam