________________
सन्नन्तप्रक्रियाप्रकरणम् ।
१०९ ध्यत इति । अत्र प्रमाणमाह--उपधाकायं हि द्वित्वात्प्रबलमित्यादि । ओणे
दित्करणस्य सामान्यापेक्षज्ञापकत्वेनोपधाकाय॑मात्रस्य हस्वगुणादेद्वित्वात्प्राबल्यबोधनेन द्वित्वात्प्राग गुणे रूपमिष्टं सिद्धयतीति भावः । वस्तुतस्तुणौ चङीति सूत्रस्थभाष्ये यदयमोणिमृदितं करोति तज्ज्ञापयति द्विवचनं हस्वादलीय' इत्युक्तत्वादस्य सामान्या. पेक्षज्ञापकत्वं चिन्त्यम् । तस्माच्छब्दान्तरप्राप्त्या द्वित्वस्यानित्यत्वेन द्वयोरनित्ययोः परत्वादिड् वाच्यस्ततोऽपि प्राग गुणेनेष्टसिद्धिरित्यलम् ॥
ननु ऊर्णोतेः सनि इडागम द्वित्वात्प्राक् गुणेऽवादेशे च कृते पश्चान्न शब्दस्य द्वित्वे ऽभ्यासे उकारश्रवणानापत्तिरिति चेन्न । 'द्विर्वचनेऽची' ति सूत्रेण स्थानिरूपस्यातिदेशेन नोशब्दे नवशब्दे वा नुशब्दबुद्धया कार्यप्रवृत्त्या आदेशस्थ गुणस्य निषेधेन वाऽभ्यासे उकारश्रवणोपपत्तेः । नच द्वित्वम्प्रति सूत्रे षष्टान्ततथोपात्तत्त्वात्सनः कायित्वेन निमित्तत्वाऽभावाद्विर्वचनेऽचीत्यस्याऽप्राप्त्या दोषस्तदवस्थ एवेति वाच्यम् । (१) [कार्यमनुभवन् हि कार्या निमित्ततया नाश्रीयते इति परिभाषया कार्यानुभवकर्तृत्वविशिष्टस्य कार्यिणो निमित्तत्वेनानाश्रयणादतादृशस्य कार्यिणो निमित्तत्वाक्षततया नुशद्धस्यैव द्वित्वेन सनोऽद्वित्वात्तस्येटो निमित्तत्वेनोक्तसूत्रप्रवृत्तेरदोषादिति भावः ॥
ननु (लक्षणप्रतिपदोक्त) परिभाषया मिनोतेीरूपस्य लाक्षणिकत्वेन मीग्रहणेन ग्रहणं न स्यादिति चेन्न । यत्र लक्षणाभिनिवृतत्वेन शब्दरूपापेक्षा तत्रैवोक्तपरिभाषोपस्थि. त्या प्रयोगाश्रयणे तदनुपस्थित्याऽदोषादित्याह-कृतदीर्घस्य मिनोतीरूपाऽविशेशेषादिसिति । अत्र मीरूपमात्रस्य प्रयोगाश्रयणात्परिभाषाऽप्रवृत्तिः । 'विमाषा दिक समासे' इत्यत्र तु लक्षणाऽभिनिवृत्तस्य समालशब्दस्याश्रयणादुक्तपरिभाषाप्रवृत्त्या 'दिङ्. नामान्यन्तराले' इति प्रतिपदोक्तसमासस्यैवाश्रयणम् । उक्तपरिभाषाया अनित्यत्वात्वधिदुपस्थितिः क्वचिदनुपस्थितिरिति निष्कृष्टोऽर्थ इति दिक् ॥
नतु ऋधातोःसनि इटि इसः सनोऽवयवस्य कार्यभागित्वेन कार्यिणो निमित्तत्वालाभेन द्विवचनेचीति निषेधाऽप्रवृत्त्या गुणेऽ र इसितिस्थितौ रिसशब्दस्य द्वित्वे हलादिः शेषे अरिरिषतीति सिद्धिरिति भावः ।।
नन उच्छेः सनि तुकि चुत्वे, द्विर्वचने न पूर्वत्रासिद्धं प्रवर्तते इत्यर्थक (पूर्वत्राऽसिद्धीयमद्विर्वचने) इति परिभाषया द्वित्वदृष्ट्या चुत्वस्यासिद्धत्वाऽभावेन चकारछकारसहित. स्येटो द्वित्वे उचिच्छिपतीति सिद्धयति । नच [निमित्ताऽपाये नैमित्तकस्याऽप्यपायः] इति परिभाषया चकाररूपस्य तुकोऽपायाञ्चकारस्याऽभ्यासे श्रवणापत्तिरिति वाच्यम् । तस्या अनित्यत्वेनाऽप्रवृत्त्याऽदोषात् । एतदनित्यत्वे ज्ञापकमाह-च्छोशूडिति सूत्रे सतुगग्रहणाज्ज्ञापकादिति । तथा हि तुग्विशिष्टस्य छकारस्य शादेशेऽपि उक्तपरिभाषया तुनिमित्तस्य छस्याऽपाये नैमित्तिकस्य तुकोऽपायात्तच्छ्रवणापत्या सतुग्ग्रहणं व्यथं सज्ज्ञापयति उक्तपरिभाषाऽनित्येति । एवश्वेह तदप्रवृत्या नोक्तदोषः । समाधानान्तरमाह -प्रकृतिप्रत्ययापत्तिवचनाद्वेति । पुष्ययोगं जानाति पुष्येण योजयतीत्येतत्साधके
(१) कार्यानुभवकर्तृत्वविशिष्टः कार्थी निमित्तं न भवतीति परिभाषार्थः । स्थण्डिलाच्छयितरीतिसूत्रे शयितरीति निर्देशोऽत्र ज्ञापकः ।
१० फ० म०
Aho ! Shrutgyanam