________________
११०
फक्किकारत्नमञ्जूषा।
'पुष्ययोगे झी' ति सूत्रे भाष्यकृत् कृतायाः प्रकृतिप्रत्ययानुवृत्तेझपकत्वम्, तत्र हि चजोरि ति घिति परे कुत्वं अन्यथा इल्लुकि निमित्ताऽपाय इति परिभाषयैव कुत्त्वव्यावृत्तौ व्यथैव तदनुवृत्तिः । किञ्च [ आख्यानात्कृतस्तदाचष्टे ] इति वार्तिकविहितप्रकृतिप्रत्ययापत्तिवचनं तदनित्यत्वे झापकम् । वस्तुतस्तु एतैरुक्तपरिभाषाऽभाव एव ज्ञाप्यत इति दिक् ।
स्थादिष्वभ्यासेनेति नियमान्नेहेति-ननु नियमादेव निषेधे 'सुनोतेः स्यसनो' अस्येह निविषयापत्तिरिति चेन्न अभिसुसुपतेरप्रत्ययेऽभिसुसूरित्यत्र षत्वनिषेधाय तदावश्यकत्वादिति भावः ॥
इति सन्नन्तप्रक्रिया।
अथ तिङन्ते यङन्तप्रक्रिया । ननु क्रियासमभिहार इत्युक्त्यैव धातोर्लाभात्सूत्रे पुनस्तदुपादानं व्यर्थमित्याशंकतेधातोः किमिति । उत्तरयति-ब्रुवोवचिरित्यादीति । वावच्यते चाख्यायते इत्या. दिसिद्धिः प्रयोजनम् । धिगित्यव्ययस्यापि क्रियावाचित्वादेकाच्त्वाच्च ततः प्राप्तयळ्यावृत्त्यर्थमपि धातुग्रहणमित्यलम् ॥
यस्येतिसंघातग्रहणमिति । तेन नाव्ययीदहर्यादित्यादौ यलोपापत्तिः । संघातग्रहणमामात्तु (अर्थवदग्रहणे नाऽनर्थकर-ये) ति परिभाषोपस्थितौ न पुत्रकाम्यादौ यलोपातिप्रसक्तिः । वर्णग्रहणे तु तदनुपस्थित्या यलोपोऽत्र स्यादेवेति भावः ॥
दीर्घोऽकितः । अत्राऽग्रहणे यंयम्यते रंरम्यत इत्यादौ दीर्घापत्तिः । ननु सूत्रे दीर्घयदश्रवणादुपस्थिताऽपदेन 'अत्रलोपोऽभ्यासस्ये' त्यस्मादनुवर्तमानाऽभ्यासस्य विशेष्यत्वेन अजन्ताभ्यासरस्य दीर्घ इत्यर्थे नोक्तस्थले दीर्घप्राप्तिरिति व्यथं तत् । नचाऽभ्यासावयव. स्याचो दीर्घ इति वैयधिकरण्यान्वयाङ्गीकारे तस्य सार्थक्यमिति वाच्यम् । सामानाधिक. रणयान्वयसम्भवे वैषधिकरण्यान्वयस्यायुक्तत्वेन (येन नाप्राप्ति) न्यायेन नुको दोर्षापवाद. त्वाऽभ्युपगमेन च दोषाभावेनाकिद्ग्रहणवैयर्थ्यस्य तादवस्थ्यादिति चेन्न । डोढौक्यत इत्य. त्राऽभ्यासहस्वबाधेनोक्तसूत्रप्राप्तदीर्घव्यावृत्तये (अभ्यासविकारेषु उत्सर्गविधीन् बाधका न बावन्ते) इत्येतदूज्ञापनायाऽकिदुग्रहणस्यावश्यकत्वात् । एवञ्चोक्तज्ञापकसमर्थनाय वैयधिक२ण्यपक्षाश्रयणेन यंयम्यत इत्यादौ दीर्घात्पूर्व सत्यपि नुकि दीर्घवारणायावश्यकमकिद्ग्रह. णमिति भावः ॥
ननु अतेंर्यडि 'नन्द्राः संयोगादयः' इत्यनेन निषेधाद्रेफस्य द्वित्वाभावेन वक्ष्यमाण. भाष्योदाहरणमसङ्गतं स्यादत आह-यकारपररेफस्य न द्वित्वनिषेधः। श्रारार्यत इतिभाष्योदाहरणादिति । द्वित्वम्प्रति यङः कार्यित्वान्न निमित्तत्वयोग इत्यपास्तमेतेन । भाष्योदाहरणस्य सामन्यापेज्ञापकत्वादार्यमाख्यदारर्यदिति सिद्धिः ॥
ननु विग्रहेण यङन्तप्रतिपाद्यविशेषाऽसम्प्रत्ययेन नित्यग्रहणमनर्थकमिति भाष्येण च नित्यग्रहणं न वाक्यनिवर्तकं किन्तु कौटिल्यपदान्वय्यावधारणार्थन्तदित्याह-कौटि. ल्य एवेति । इति वृत्तिकृद्रीत्या, 'धातोरेकाच' इति सूत्रभाष्यरीत्या तु गत्यर्थेभ्यः क्रि.
Aho! Shrutgyanam