________________
यङन्तप्रक्रियाप्रकरणम् ।
१११ यासमभिहारे यङ्भवत्येवेत्यवसेयम् । नच 'नित्यं कौटिल्ये गतावि' त्यत्र नित्यग्रहणं व्यथं (१)(तक्रकौण्डिन्य) न्यायेन तक्रदानेन दधिदानबाधवत्सूत्रे कौटिल्यपदोपादानेन क्रि. यासमभिहारे प्रत्ययाविधानान्नित्यपदासद्भावेऽप्यवधारणार्थलाभेनेष्टसिद्धेरिति वाच्यम् । तस्योक्तन्यायानित्यत्वज्ञापनेन सार्थक्यात् । अत एव ‘मतिबुद्धिपूजार्थेभ्यश्चे' त्येतत्सूत्रविहितवर्तमानार्थकत्तेन पूजार्थकधातुभ्यो भूते क्तस्याबाधात् 'क्तस्य च वर्तमाने इति षष्ट्यप्राप्त्या (पूजितो यः सुराऽसुरैरि)त्यत्र तृतीयायाः साधुत्वमिति भावः ॥
अकित इत्युक्तेन दीर्घ इति-ननु अजन्ताऽभ्यासस्य दीर्घ इत्यर्थेन नुग्रुगादौ कृतेऽजन्तत्वाऽभावान्नीकि विशेषाभावाद्रीकि रोग्विधानेनैव सिद्धे रिग्विधिसामर्थ्यादेव तदभावसिद्धेः, किमकित इत्यनेनेति चेन्न । अभ्यासविकारविधौ वैयधिकरण्यान्वयज्ञापनार्थत्वात् । अत एव छयतेः सनि द्वित्वेऽन्तरङ्गत्वात्तुकि चिच्छासतीत्यादावभ्यासहस्वत्वेत्वसिद्धिः । नचैवमपि अपवादत्वान्नीगादिभिर्दीर्घबाधे व्यर्थमेव तदिति वाच्यम् । अ. भ्यासविकारे बाधका न बाधन्ते इत्यर्थस्यापि ज्ञापनात् ।
इति यङन्तप्रक्रिया ।
अथ तिङन्ते यङलुगन्तप्रकिया। यङोऽचि च । अत्र सूत्रे अचीति प्रत्ययस्य ग्रहणं नतु प्रत्याहारस्य यडा साहच. र्यात् । चकारेण बहुलमित्यनुकर्षस्तदाह-अच् प्रत्यये बहुलं लुगिति-चकारस्य फलान्तरमप्याह-चकारात्तं विनाऽपीति ।
अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवतीति-'सन्योः ' इति षष्ठी न तु सप्तमी । सप्तमीस्वीकारे तु यङो लुका लुप्तत्वेन प्रत्ययलक्षणाऽप्रवृत्त्या यङन्तत्वाऽभावेन द्वित्वानापत्तिरिति भावः । नच 'न लुमताङ्गस्येत्यनेनाऽङ्गाधिकारविहितकार्थस्यैव निषेधेन प्रकृते तादृशकार्याऽभावातद्वित्वे बाधकाऽभावेन सप्तमीपक्षेऽपि न कोऽपि दोष इति वाच्यम् । उक्तनिषेधसूत्रेऽङ्गाधिकारस्याग्रहणेन प्रत्यये परतः पूर्वस्य विधीयमानं यदांगमनांगं कायं तस्य सर्वस्यापि निषेधात् । अत एव राजपुरुष इत्यादौ नलोपसिद्धिः । आङ्गकायस्यैव तेन निषेधे तु 'यचिभमित्यस्यानाङ्गत्वेन निषेधाऽभावाभत्वेन पदत्वबाधान्नलोपो न स्यादिति भावः ॥
धातुत्वालडादय इति-क्विबन्तेष्विव प्रत्ययोत्पत्तेः प्राक् प्रवृत्ताया धातुसंज्ञाया (एकदेशविकृत)न्यायेनाऽवस्थितत्वात् कार्यकालपक्षेऽपि भूवादिसूत्रप्रवृत्तेश्च । अथवा, चर्करीतमित्यस्याऽदादौ पाठाभ्वादित्वाद्भुवादिसूत्रेण धातुसंज्ञेति भावः ॥
डिवस्य प्रत्ययाऽप्रत्ययसाधारणत्वेनेति-ऋतेरीयङित्यादिषु प्रत्ययेषु चित्रकादिष्वप्रत्ययेषु च ङित्वस्य दर्शनेन प्रत्ययस्याऽसाधारणरूपाश्रयणे प्रवर्तमानल्य प्रत्ययलक्षणस्यात्राऽप्रवृत्त्या न यडो डित्वप्रयुक्तकार्यस्याऽऽत्मनेपदरूपस्य शङ्कालेशोऽयीति भावः । प्रत्ययस्याऽसाधारणरूपाश्रयण एव प्रत्ययलक्षणप्रवृत्तरेव सुदृषत्प्रासाद इत्यत्रासिति
(१) सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्यायेति तदाकारः ।
Aho! Shrutgyanam