________________
११२
फक्किकारत्नमञ्जूषा।
प्रत्ययाऽप्रत्यययोः सत्वादसाधारणरूपानाश्रयणेन प्रत्यलक्षगाऽप्रवृत्त्याऽसन्तत्वाऽभावान्न दीर्घ इति दिक् ॥
ननु येषामनुदात्तेतां प्रत्ययलक्षणमन्तरैव ङित्वं तेभ्यस्त्वात्मनेपदं दुर्वारमित्यत आह-अनुदात्तङित इत्यनुबन्धनिर्देशादिति-रितपाशपाऽनुबन्धेनेति निषेधपरिगण. नेऽनुबन्धपदसद्भावेन तत्प्रयुक्तकार्यस्य यङ्लुक्यभावबोधनात् 'अनुदात्तडित' इत्यत्राडित इत्यस्य डकारेत्संज्ञकाद्धातोरित्यर्थे डकारस्याऽनुबन्धत्वस्य स्पष्टत्वान्न तनिर्दिष्टात्मनेपद. प्रसक्तिरिति भावः ॥
अतएवेत्यादि शपोलुगित्यन्तमिति-उक्तनिषेधपरिगणनेन गणनिर्दिष्टकार्यस्याप्यत्राप्रवृत्तिबोधनाच्छयन्नादेरप्राप्त्या तदनिर्दिष्टस्य शप एवं प्रवृत्त्या तस्य (चर्करीतमि)त्यस्य विशिष्याऽदादौ पाठाल्लुगिति बोध्यम् ।
ननु यङलुगन्तभूधातोर्लटि तिपि प्रत्ययलक्षणेन यङन्तत्वादद्वित्वेऽभ्यासस्य जश्त्वे तस्य च गुणे 'यडो वेति इटि, तदभावे वा बोभू इति बोभूति इति स्थितौ 'सार्वधातुकाईधातुकयोरिति प्राप्तगुणस्य 'भूसुबोस्तिडीति निषेधे बोभवीति, बोभोतीतीति चेष्टप्रयोगो न स्यादत आह-बोभूतु तेतिक्ते इति छन्दसि निपातनादिति ।।
उक्तसूत्रेणैव गुणनिषेधसिद्धौ निपातनस्य यङ्लुगन्तभूधातोश्छन्दस्येव तत्रापि लोट्येव गुणाऽभावो नाऽन्यत्रेति नियमार्थत्वेन लटि गुणे न बाधकमिति । अत एव बोभूत्विति नियमार्थमत्रैव यलुगन्तस्य गुणाऽभावो नान्यत्र बोभवीतीत्युक्तम्भाष्ये । श्रत एवेति । पूर्वोक्तनियमादेवेत्यर्थः । ननु समुदायस्य बोभू इत्यस्य भुवोऽतिरिक्तत्वेन त. वाऽभावाद्भवोस्तिङीति गुणनिषेधाऽप्राप्त्या निपातनस्य गुणनिषेधायावश्यकत्वेन नियमार्थत्वं न सम्भवतीत्याशंकते-नच यलुक्यप्राप्त एव गुणाभावो निपात्यता. मिति । समाधत्ते-प्रकृतिग्रहणेन यलुगन्तस्यापि ग्रहणादिति । एवञ्च भूग्रहणेन बोभू इत्यस्य ग्रहणाद्गुणनिषेधसिद्धया निपातनं नियमार्थमेवेति । तत्र प्रमाणमाहद्विःप्रयोगोद्विवचनं पाष्ठमिति सिद्धान्तादिति । षष्टाध्यायस्थसूत्रविहितद्विर्वचनस्य द्विः प्रयोगरूपत्वेन तत्त्वाक्षततया निषेधादिसिद्धिः । शेखरकृतस्तु, उत्तरखण्डस्य भूत्वाक्षततया भूसुबोरित्यस्य भूशब्दान्ताङ्गस्य न गुण इत्यर्थेन निषेधप्राप्त्या नियमसिद्धिः । द्विःप्रयोगत्वेऽपि विशिष्टानुपूर्वीभेदात्प्रकृतिग्रहणेन तद्ग्रहणोपपादनं न सम्भवति । अत एव 'दयते दिगी'ति सूत्रे भाष्ये अस्तेभ्वीदेशे यदि स्थाने द्विर्वचनं द्वित्वे कृते सर्वादेशो भूभावः प्राप्नोति । अथ द्विः प्रयोगो द्विर्वचनं तदा परस्य भूभावे कृते पूर्वस्य श्रवणं प्राप्नोतीत्युक्तमित्याहुः ॥
ननु 'आत' इत्यनेन सिज्लुकि सति आदन्तादेव झेर्नुसो विधानादिह जुस् न स्यादत आह-अभ्यस्ताश्रयो जुसिति । 'सिजभ्यस्तविदिभ्यश्चे, त्यनेन सिचः परत्वमाश्रित्य प्राप्तजुस एव नियमो नत्वभ्यस्ताश्रयस्य तस्येति न कोऽपि दोषः । नच परत्वात् 'अदभ्यस्तादि' त्यनेन कृतेऽदादेशे जुसोऽप्राप्त्या दोषस्य तादवस्थ्यमेवेति वाच्यम् । अभ्यस्ताश्रयजुसोऽदादेशाऽपवादत्वेन दोषोद्धारादिति भावः ॥
ननु 'सिजभ्यस्तविदिभ्यश्चेत्यनेनाऽभ्यस्ताश्रये जुसि कृने जुसि चेति गुणो दुर्वार
Aho! Shrutgyanam