________________
यङ्लुगन्तप्रक्रियाप्रकरणम्।
११३ इत्यत आह-नित्यत्वादुवुगिति-(परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः) इति परिभाषया परत्वाऽपेक्षया नित्यत्वस्य बलवत्वबोधनाज्जुसि चेति गुणस्य परत्वात्तदपेक्षया कृताकृतप्रसङ्गित्वेन वुको नित्यत्वाद्गुणं बाधित्वा वुगेवेति भावः ।।
ननु (एकाच उपदेशेऽनुदात्तादि)त्यत्रैकाच्ग्रहणस्य रितपाशपानुबन्धेतिनिषेधवचनज्ञापकत्वेनैकाग्रहणघटितशास्त्रस्य यङ्लुक्यप्रवृत्तिसूचनादिहोक्तसूत्राऽप्रवृत्तिरित्याह-एका. जग्रहणेनोक्तत्वान्नेनिषेध इति ॥ - ननु गमेर्यलुगन्ताल्लोटि मध्यमपुरुषैकवचने सेद्यपिञ्चेति हौ तस्य 'अतो हेरिति लुक् स्यादत आह-अनुनासिकलोपस्याऽऽभीयत्वेनाऽसिद्धत्वान्न हेलगिति । समानाश्रयाभीये कर्तव्ये समानाश्रयमाभीयमसिद्धमित्यर्थकस्य 'असिद्धवदत्राभादित्यस्य 'अनुदात्तोपदेशे'त्यत्रोपस्थित्या, अनुदात्तोपदेशानां यमिरमिगम्यादीनां, तनोत्यादीनां, वनतेश्चानुनासिकस्य लोपः स्याज्झलादौ किङ्तिपरे सचाऽसिद्धो भवतीत्यर्थे समानाश्रयस्य हेर्नुकोऽत्र कर्तव्यत्वे समानाश्रयस्याऽनुनासिकलोपस्यासिद्धत्वेन हेरतःपरत्वाऽभावान्न लुगितिभावः ॥ ___ ननु यङलुगन्ताद्मेर्लुङि 'च्लि लुङि' इत्येतत्सूत्रविहितस्य च्ले: स्थाने 'स्तिपाशपे' तिनिषेधपरिगणनेऽनुबन्धपदसद्भावात्तनिर्दिष्टकार्यस्येह प्रकरणेऽभावप्रतिपादनात् 'पुपादिद्युताय्ल दितः परस्मैपदेष्वि' तिसूत्रेण नाऽङित्याह-अनुबन्धनिर्देशान्नच्लेरङिति।
ननु हन्तेर्यलुकि 'हो हन्तेणिन्नेब्वित्यतो हन्तेरित्यनुवर्त्य 'अभ्यासाच्छेत्येतत्सू. त्रविहितकुत्वरयाऽत्र प्रवृत्तिर्न स्याद्धन्तेरित्यत्र श्तिपो निर्दिष्टत्वादुक्तनिषेधादित्यत आहशितपाशपेतिनिषेधस्त्वनित्य इति । अनित्यत्वे प्रमाणमाह-गुणो यङलकोः, इति सामान्यापेक्षज्ञापकादिति-अयम्भावः' 'सन्यङो' रितिद्वित्वविधायकेनैकाचोदित्वविधानात्तत्र च शितपाशपेति निषेधेन यङ्लुकि कुत्रापि द्वित्वाऽभावात् 'गुणोय
लुकोः' इत्यनेनाऽभ्यासस्य विधीयमानो यो गुणस्तस्य द्विर्वचनं विनाऽनुपपत्या व्यर्थीभूतं क्वचिदप्रवृत्तिं ज्ञापयति । विशेषाऽपेक्षज्ञापकत्वे तु एकाज्निबन्धनस्यैवाऽनित्यत्न स्यादित्यलम् ॥
ननु हन्तेर्यलुकि लोटि मध्यमपुरुषैकवचने हौ जङ्घहीत्यत्र 'हन्तेजः' इति जादेशः कुतोनेत्याशंका समाधत्ते-श्तिपा निर्देशाज्जादेशो नेति । उक्तजादेशविधायकसूत्रे हन्तेरित्यत्र शितपो निर्दिष्टत्वेन तन्निहिष्टकार्यस्य च श्तिपा शपेति निषेधेन यङ्लुक्यप्रवृत्तिबोधनेन जादेशाऽभाव इति भावः ॥
ननु हन्तेर्यङलुकि आशीलिङि लुङि च कृतद्विवचनस्य हन्तेर्वधादेशे पुनर्द्वित्वं कुतो नेत्याशंका समाधत्ते-वधादेशस्य द्वित्वं तु न भवतीति-अयम्भावः, सन्यङोरिति द्वित्वविधायके 'लिटि धातोरनभ्यासस्ये त्यतोऽभ्यासस्ये' त्यतोऽनभ्यासपदानुवृत्तौ सन्नन्तस्य यङन्तस्य चानभ्यासभिन्नप्रथमैकाचो द्वित्वमित्यर्थे वध्यात् अवधीदित्यत्र वधादेशस्य स्थानिवद्भावेनाऽभ्यासत्वान्न द्वित्वप्राप्तिः । नाऽभ्यासो यस्मिन् यस्य वेति बहुव्री. हावभ्यासपदस्य धातोः समानाधिकरणविशेषणत्वम् । अस्तेरिति सूत्रस्थभाष्येणोत्तरखण्ड. स्यैव वधादेशे जंवध्यादित्येवरूपमिति बोध्यम् ॥
Aho! Shrutgyanam