________________
११४
फक्किकारनमञ्जूषा। ननु आपूर्वकाद्धन्तेर्यङलुकि 'आङो यमहनः' इत्यात्मनेपदं न स्याद्यङलुगन्तस्यो. कधातोश्शुद्धधातुभिन्नत्वेन तद्ग्रहणेनाऽग्रहणात्सूत्रे च शुद्धधातोरेवोपदानादिति चेन्न । (१)(प्रकृतिग्रहणेन यङ्लुगन्तस्याऽपि ग्रहणात् ) द्विः प्रयोगो द्विवचनं पाष्टमिति सिद्धान्तितत्वादाह-श्रापूर्वकात्तु 'श्राङो यमहन' इत्यात्मनेपदमिति ॥ ____ ननु चरतेर्यङ्लुकि 'चरफलोश्चेत्यभ्यासस्य नुकि 'उत्परस्यातः' इत्युत्वस्य गुणः कुतो नेत्यत आह-तपरत्वान्न गुण इति-ननु तपरकरणसामर्थ्यागुणव्यावृत्तिरिव दीर्घव्या. वृत्तिरपि स्यादत आह-हलि चेति दीर्घस्तु स्यादेवेति-तत्र युक्तिमाह-तस्यासिद्धत्वेनेति-उत्वविधायकदृष्ट्या गुणस्य सिद्धत्वात्तस्य च तपरत्वव्यावर्त्यत्वेन व्या. वृत्तिः । दीर्घस्य तु उत्वदृष्टयाऽसिद्धत्वेन तपरव्यावर्त्यत्वाऽभावेन नानेन तद्वयावृ. त्तिरिति भावः ॥ __ननु यौतेर्यलुकि लटि 'उतोवृद्धिरिति वृद्धिः स्यादत आह-उतोवृद्धिरित्यत्र नाभ्यस्तस्येत्यतोऽनुवृत्तरिति-अयम्भावः तत्र नाभ्यस्तस्येत्यस्यानुवृत्तावभ्यस्त. भिन्नोकारस्य वृद्धिरित्यर्थे प्रकृतेऽभ्यस्तत्वान्नोक्तापत्तिरिति दिक् ॥
ननु स्वपेर्यङ्लुकि 'स्वपिस्यमिव्येां यङि' इत्यनेन सम्प्रसारणं कुतो नेत्यत आहलुका लुप्ते प्रत्ययलक्षणाऽभावादिति-उक्तसूत्रेण यङि सम्प्रसारणं विधीयते यङश्च 'यङोऽचि चे' त्यनेन लुक् तस्य च लुकशब्देन कृताऽदर्शनात् 'न लुमताङ्गस्येति निषेधेन प्रत्ययलक्षणाऽप्रवृत्या यङोऽभावान्न सम्प्रसारणम् , मुले उत्वं नेति फलितार्थकथनमुक्तसूत्रविधीयमानसम्प्रसारणन्नेति तदर्थः, । नच लुकः प्रागेव यङः सत्वेन तस्मिन्नुक्तापत्ति. दुर्वा रेति वाच्यम् । सर्वविधिभ्योलुग्विधेर्बलीयस्त्वेन (२) (अकृतव्यूह) परिभाषया च लुकः पूर्व तदप्रवृत्तेरितिभावः ॥ ___ ननु अर्तर्यङ्लुकि लटि प्रथमपुरुषस्य बहुवचने झौ आरतीतिरूपं सिद्धयति तन्न स्यात् अर ऋ इति स्थितौ रुको रेफस्य 'रोरीति लोपे यणि कृते प्राप्तस्य 'ढलोप' इति दीर्घस्य यणः स्थानिवद्भावेन निमित्ताऽभावेनाऽप्रवृत्तेरिति चेन्न । 'अभ्यासस्याऽसवणे इत्यत्रा. ऽसवर्णग्रहणेनाऽभ्यासकायें ऽभ्यासानवयवधात्ववयवादेशस्य तत्प्रतिबन्धकस्थानिवद्भावो नेत्यर्थज्ञापनादीर्घविधौ स्थानिवत्वनिषेधाचोक्तानुपपत्यभावादिति ॥
ननु यङलुगन्ताद्ग्रहे कि 'ग्रहोऽलिटी' तिसूत्रेण कुतो नेटो दीर्घ इति चेन्न । तत्रै. काच्ग्रहणसत्वादेकान्निबन्धनकार्यस्यात्र प्रकरणेऽभावबोधनादित्याह-ग्रहो लिटोति दीर्घस्तु न, तत्रैकाच इत्यनुवृत्तेरिति । माधवमते युक्तमेतदित्याह-माधवस्तु, दीर्घमाहेति । इत्थंहि तदाशयः, ग्रहोऽलिटी ति सूत्रस्थ(यङ्लोपे चोक्तमि) तिवात्तिक. तदीयभाष्यादिपर्यालोचनात् जरीगृहितेत्यादौ यन्ताद्ग्रहेस्तृचस्तासेर्वा इटो दीर्घाभावे
(१) प्रकृतिप्रहणे यङ्लुङन्तस्यापि ग्रहणामति परिभाषास्वरूपम् । पाष्ठद्वित्वस्य द्विःप्रयोगत्वसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनान्न्यायसिद्धमिदम् ।
(२) अकृतव्यूहाः पाणिनीया इति परिभाषास्वरूपम् । पाणिनीयशास्त्राध्येतारो नि. मित्तस्य विनाशोन्मुखत्वे दृष्ट तत्प्रयुक्तकार्यकारिणो न भवन्तीत्यर्थः । समथीनां प्रथमावतिसूत्रस्थं समर्थग्रहणमत्र ज्ञापकम् ।
Aho! Shrutgyanam