________________
११५
यङ्लुगन्तप्रक्रियाप्रकरणम् । युक्तिद्वयम् । पूर्वस्मादपि विधौ स्थानिवद्भावः ग्रहेविहितस्येटो दीर्घ इति च, तत्र भाध्यवार्तिककृद्रीत्या प्रथमः पक्षः ताभ्यां पूर्वत्रासिद्ध न स्थानिवदिति स्वीकृत्य दीर्घग्रहणं प्रत्याख्यातम् । तन्मते रँपादिकदीर्घातिरिक्तदीर्धे कर्तव्ये स्थानिवद्भावः सुवचः । द्वितीयपक्षस्तु सूत्ररीत्या, एतन्मते सामान्यतो दीर्घविधौ स्थानिवद्भावनिषेधादसौ वक्तुमशक्यः। तथाच बङ्लुकि दीर्घप्रवृत्तौ न बाधकम् । यङ्लुकोऽनैमित्तिकत्वेन अज्झलादेषत्वेन च न स्थानिवद्भावः । द्विःप्रयोगो द्विर्वचनं पाष्टमितिसिद्धान्तादग्रहेर्यङ्लुगन्ताद्विहितिस्य ग्रहेविहितत्वापायो नेति ।
तदभाष्यविरुद्धमिति । तथा हि 'एकाचो द्वे प्रथमस्ये, ति सूत्रे ग्रहेरङ्गादिति भाव्यमुपादाय कैयट आह तृवो हि जरीगृहित्यंगन्न तु ग्रहिः विशेषणसामर्थ्याद्धि यथाश्रुतविशेषणमिति। न च यङतप्रक्रमे एतत्समाधानस्य कैयटेनोक्तत्वात्कथं यङलुगन्ते तेन निर्वाह इति वाच्यम् । युक्तिसाम्याद्यङ्लुगन्तेऽप्युक्तसमाधानेन दीर्घाभावस्य लक्षितत्वात्। अत्रपक्षे यङ्लुकि दीर्घाऽप्रसक्तया पूर्वस्मादपि विधौ स्थानिवभाव इति, ग्रहेविहितेटो दीर्घ इत्यस्य च समाधानस्योपायस्योपायान्तरादूषकत्वादितिन्यायेन यङन्तांशे उपायान्तरपरत्वेन नेयत्वम् । न च यथाश्रुतरूपपक्षे गृहीतमित्याद्यसिद्धिरिति वाच्यम् । अंगसंज्ञाप्रवृ. त्तिकाले यथाश्रुतरूपस्यैव सद्भावेन तत्सिद्धेः । ग्राहितमित्यादौ तु नैवम् , 'निष्ठायां सेटि' इति णिलोपे एकाच्त्वानपायादिति भावः ॥ ___ भाष्ये ध्वनितमिति । तथाहि, अत्र कितीत्यस्यानुवृत्तिनवेतिपूर्वपक्षे सनाते बहू. न्दोषानुद्भाव्य परिहृत्य चोक्तमेतावानेव विशेषः । अनुवर्तमाने डिग्रहणे छः पत्वम्बक्त. व्यम् , अननुवर्तमाने तस्मिन् छः शत्वे कृते शान्तत्चादेव पत्वसिद्धौ ‘वश्वादि' सूत्रे छग्रहणं न कर्तव्यम्भवतीति भावः । एवं वदन् भाष्यकार ऊभाविभ्यो यङ्लुङ्नास्तीत्युक्त. वान् । अन्यथा दिवेर्यलुकि देदेति, देदेषि इत्यादौ ऊठो भावावाभ्यां महान् विशेष: स्यात् । ततश्च कितोऽननुवृत्तावूठः प्रवृत्त्या देद्योति, देद्योषीत्यादिविशेषरूपलाभादतावानेवेत्येवकारो विरुध्येतेत्यलम् ॥
इति यङलुगन्तप्रक्रिया ।
अथ तिङन्ते नामधातुप्रक्रिया। ननु गामिच्छतीति विग्रहे गव्यतीत्यादौ अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वात "लोपः शाकल्यस्ये ति वकारलोपः कुतो नेत्याशंका समाधत्ते-नपदान्तत्वादिति । 'नः क्ये' इतिवक्ष्यमाणसूत्रेण क्यचि क्यडि च नान्तस्यैव पदत्वादिहाऽतथात्वान्न दोष इति भावः ॥
ननु गव्याञ्चकार गव्यितेत्यादौ 'यस्य हल' इति लोपो दुर्वार इत्यत आह-सन्निपातपरिभाषया क्यचो यस्य लोपो नेबि । यकारे परे यान्तादेशविधानाद्वकारो न थलोपनिमित्तम्भवतीति भावः ॥
ननु (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः) इति वार्तिकेन प्रातिपदिकात्क्पिो वि.
Aho! Shrutgyanam