________________
फक्किकारत्नमञ्जूषा । धानेन मालाशब्दस्य प्रत्ययान्तत्वेन प्रातिपदिकभिन्नत्वात्क्विप् न स्यादत आह (१) लिंगविशिष्टपरिभाषयेति । प्रातिपदिकस्य मालेत्यस्य ग्रहणे लिंगबोधकटाप्प्रत्ययवि. शिष्टस्य मालाशब्दस्याऽपि ग्रहणबोधनात्तदुपपत्तिः । समाधानान्तरमाह-एकादेशस्य पूर्वान्तवत्वाद्वेति । 'अन्तादिवच्चे त्यनेन दीर्घरूपैकादेशस्याऽकाररूपपूर्वस्थानिघटित. मालशब्दवृत्तिप्रातिपदिकत्वस्यैकादेशविशिष्टमालाशब्देऽतिदेशात्प्रातिपदिकत्वात्तदुपपत्ति. रिति भावः ॥
ननु भूरिखाचरतीतिविग्रहे क्विबन्तादुक्तधातोलुंडादौ 'गातिस्थेत्यादिसूत्राणां प्राप्तिर्दुर्वा रेत्यत आह-अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणादिति । उक्तञ्च
अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः ।
शास्त्रार्थस्तेषु कर्त्तव्य उक्तेषु न तदुक्तिषु ॥ इति । पथीनतीति । पन्था इवाचरतीति विग्रहेऽन्तरंगत्वाद्दीधैं गुणाऽभावाद्पमिदम् । माधवानुसारेणैतत् । परे तु हलन्तेभ्य आचारक्किपोऽभावादयुक्तमेतत् । किञ्च 'इन्हन्नि: त्यनेन शावेव दी? नान्यत्रेति नियमात्प्रकृते दीर्घाऽप्राप्त्या गुणे सति पथेनतीत्येव रूपम्। नच तत्र सूत्रे शाबित्युपादानाज्ज्ञापकस्य सजातीयापेक्षत्वे सुबानन्तर्य एव नियमफलनिषेधप्रवृत्तिरिति वाच्यम् । तथा सति वृत्रघ्नः स्त्री वृतघ्नीत्याद्यसिद्धयापत्तेः । अत्र हन. शब्दस्य विबन्तत्वात्तत्राऽनुनासिकस्येतिदीर्धेऽस्मात्पुंयोगास्त्रियां वृत्या नान्तलक्षणडीपि कृतेऽल्लोपो न स्यादित्याहुः । येषामिन्नादीनां शावुपधादीर्घः परमदण्डिन्नित्यादौ तपा दण्डिनवृत्रहन्नादीनामेव, इन्ह निति नियमो नतु पथ्यादोनामेतेषांतु शो परे सुपन्थानीत्या. दादुपधादीर्घप्रवृत्तावपि 'इतोऽत्सर्वनामस्थाने' इत्यत्वे कृते 'इन्हन्निति नियमाप्रवृत्तेः । अन्यथा पन्थानावित्याद्यसिद्धिः । एवञ्च पूर्वोक्तरूपमेव साध्विति केचित ॥
देवतीति भाधव इति । अत्र 'दिव उत्' इत्येनेन नोत्वं भवति तेन पदान्तविषय एवोत्वविधानादिह पदान्तत्वाऽभावादिति भावः । अत्र ऊठि द्यवतीत्युचितमिति । लघूपधगुणं बाधित्वाऽन्तरङ्गत्वादूटि यण । नच (असिद्धं बहिरंगमन्तरङ्गे) अनयापरिभाषयाऽन्तरस्य यणः कर्त्तव्यत्वे बहिरङ्गस्योठोऽसिद्धत्वबोधनादच्परत्वाऽभावाद्यण न स्यादिति वाच्यम् । अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्ग कर्त्तव्ये न बहिरङ्गत्वप्रयुक्तासिद्धि. रित्यर्थक (नाजानान्तये बहिष्ट्वप्रक्लूप्तिरि) ति परिभाषयोक्तपरिभाषाया निषेधेनाप्रवृत्तेः। न च (वार्णादाङ्ग बलीयः) इत्यनया परिभाषया वार्णकाऱ्यांदाङ्गकार्यस्य बलीयस्त्वबोध. नेन यणं बाधित्वा लघूपधगुणे उक्तप्रयोगासिद्धिरिति वाच्यम् । समानाश्रय एव तत्प्रवृत्तः सिद्धान्तितत्वेनेह व्याश्रयत्वात्तदप्रवृत्तः । व्याश्रयेऽप्युक्तपरिभाषाप्रवृत्यभ्युपगमे तु अनित्यत्वेन तदप्रवृत्तिकल्पनम् । अत एव सिवेरौणादिके न प्रत्यये स्योनः सिद्धयतीति भावः।।
(१) प्रातिपदिकाहणे लिङ्गविशिष्टस्यापि ग्रहणम् । इति परिभाषास्वरूपम् । सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकशब्दप्रहणे सति लङ्गबोधकप्रत्ययविशिष्टस्य, अपि श. ब्दात्केवलस्यापि ग्रहणं बोध्यम् ।
Aho ! Shrutgyanam