________________
नामधातुप्रक्रियाप्रकरणम् ।
११० यत्तु स्वामो स्वांचकारेति तदनाकरमेवेति । अनेकाच्त्वाभावादिति तदाशयः। अन्येतु भाष्यकृता प्रत्ययग्रहणमपनीयेत्यनुक्तत्त्वात्प्रत्ययान्तत्वेन स्वामासेत्यादि रूपं साध्वेवेति वदन्ति ।।
युधे योऽयं ग्रामशब्द इति-अयम्भावः, युद्धे योऽयंग्रामशब्दः सच समुपसविशिष्ट एवास्ति न केवलग्रामशब्दस्ततो ग्रामशब्दपाठेनैव संग्रामशब्दलाभे पुनः समुपसर्गविशिष्टपाठो व्यर्थीभूतो ज्ञापयति धातुसंज्ञाप्रयोजकीभूतप्रत्ययस्य चिकीर्षितत्वे उपसर्गसमानाकारकपूर्वपदस्य पृथक्करणं भवतीति । ज्ञापने तूपसर्गसमानाकारेत्यंशानुपादाने संग्रामघटकसंशब्दस्य क्रियायोगाऽभावादुपसर्गत्वाऽभावेन ज्ञापकोपपत्तिर्न स्यात् । प्रयोगभेदेनोपसर्गस्यापि तत्समानाकारत्वं बोध्यम् । तत्र च चिकीर्षितपदोपादानात्पृथक्करणेन समासाऽभावकल्पनेऽपि तद्विषये क्यडादिप्रत्ययविधायकसूत्रे सुबन्तादित्यंशे यस्माद्विहितम्तदादीत्यंशाऽप्रवृत्त्या न दोषः । पृथक्रियत इत्यनेन जातसमासाऽभावकल्पनम् । अत एव, सुमनाय्येत्यादौ पुनः क्त्वान्तेन समासे ल्यसिद्धिः । उक्तञ्च तद् 'भृशादिष्वि' त्यत्र भाष्ये संग्रामयतेरेव सोपसर्गान्नान्यस्मात्सोपसर्गादिति । ज्ञापनफलञ्च स्वमनायतेत्यादौ मनःशब्दात्प्रागडिति बोध्यम् ।
ज्ञापकस्य सजातीयविषयत्वात्साजात्यं दर्शयति-तेनेत्यादिना । यत्र सकलस्योपसर्गरूपस्य श्रवणं नत्वादेशेनाऽपहरणं तत्रैव पृथक्करणं भवति नत्वन्यत्रेति । अत एब, आ ऊढः स इवाचर्य ओढायित्वेत्यत्र उन्मनाय्य अवगल्भ्येति बन्न ल्यबापत्तिः । ज्ञापकस्य विशेपविषयत्वे षष्टाध्यायीसुत्रस्थवार्तिकस्य तदभाष्यस्य च प्रामाण्यम् । एतच्च तथाहीत्यादिना मूले एव स्पष्टत्वान्नात्र लिखितम् । क्यजन्तादुस्राशब्दाल्लङि अंगस्याटि कृते 'उस्यपदान्तादिः त्यनेन प्राप्तपररूपस्य प्रतिषेधार्थमुक्तवार्तिकम् । न च औस्रीयदित्यत्रोसोऽनर्थकत्वान्न तत्प्राप्तिरिति वाच्यम् । छिन्थुर्भिन्धुरित्यादावप्युसोऽनर्थकत्वेन दोषापत्तेः । नच सर्वत्रोसोऽनर्थकत्वे क्व सूत्रप्राप्तिरिति वाच्यम् । अयुः, अवुरित्यादौ तत्प्रवृत्तः सुघटत्वात् । एवञ्चाऽयमेव (उस्योमावि )ति प्रतिषेधोऽत्रार्थवद्ग्रहणपरिभाषाप्रवृत्तिज्ञापकः ।
औङ्कारीयदिति-अत्र 'ओमाडोश्च' इत्यनेन प्राप्तपररूपस्य प्रतिषेधः । आडागमस्याऽऽङिपरे उदाहरणं प्रदर्शयति-ौढीयदिति । आदेशेन (एकादेशरूपेण) अपहृतस्थलेऽपि पृथक्कृतावाङः परत्राटो विधानादाडागमस्याऽऽङि पररूपाप्राप्त्या निषेधो व्यर्थः स्यात् । एवञ्चाऽयमेव निषेधो ज्ञापकस्य विशेषविषयत्वे प्रमाणमिति बोध्यम् । ज्ञापकस्य विशेषविषयत्वे न केवलषाष्ठवार्तिकतदीभाष्ययोरेव प्रामाण्यमपि तु चशब्दं प्रयुञानस्य सूत्रकारस्याऽप्यनुकूलस्य प्रामाण्यमित्याह-चशब्देनेति । एवञ्च विनिगमकाऽभावेन तस्य बाध्यसामान्यचिन्तया सर्वबाधकत्वम् । अन्यथा ( पुरस्तादपवाद )न्यायेन ओमाडोश्चेत्यस्यैव बाधो नतु उस्यपदान्तादित्यस्येत्यवसेयम् ॥
अत्राच्वेरित्यनुवृत्येति । अत एव लोहितभिन्नानां लोहितादिगणे पट्यमाना. नां भृशादिपाठे नित्यात्मनेपदमेव प्रयोजनमुक्तम्भाष्ये न तु अभूततद्भावविषयतालाभोऽपीति तात्पर्यम् ॥
Aho ! Shrutgyanam