________________
फक्किकारत्नमञ्जूषा |
इष्टवदित्यतिदेशात्पुम्वद्भावादय इति - आदिशब्देन रभावटिलोपादयः । एतदयतीति । नच परत्वादत्रातिदिश्यमान कार्याणामुपदेशस्यैव देशत्वांगीकाराट्टिलोपः स्यादिति वाच्यम् । पुंवद्भावातिदेशसामर्थ्यात् अन्तरङ्गत्वाद् 'भस्याढे तद्धिते' इत्यस्य प्रत्ययोत्पत्तेः प्रागेव प्रवृत्त्या 'टेरि' त्यस्याप्रवृत्तेः । न च पुंवत्वस्यासिद्धत्वेन टिलोपस्याऽत्र दुर्लभत्वमिति वाच्यम् । एतयति श्येतयतीति भाष्योदाहरणेनाऽऽभीयासिद्धत्वस्यानित्यत्वाट्टिलोपस्य दुर्वारत्वादिति भावः ॥
ननु अतिदेशशास्त्रे पुंवद्भावग्रहणं व्यर्थ टिलोपेनैवतयतीत्यादिसिद्धेरिति चेन्न । दारयतीत्यस्य सिद्ध्यर्थं पुंवद्भावग्रहणस्य सार्थक्यात्तदाह-दरदमाचष्टे दारदयतीति । दरदोऽपत्यं दारदः, 'द्वयमगध' इत्यण् तस्य स्त्रियाम् 'आतश्चे' ति लुकि सिद्धिः । अत्र वभावस्याभावे सति टिलोपे दरदयतीत्यापत्तिः ॥
११८
ननु अजढदित्यत्र टिलोपे सति णिज्विशिष्टिस्य द्वित्वे पश्चादभ्यासे कारो दुर्लभ इत्यत आह- श्रोः पुयणजीतिसूत्रे वर्गप्रत्याहारजग्रहो लिंगमिति । त्वां म aissa इति विग्रहे त्वापयति, मापयतीति रूपम् । वस्तुतस्तु त्वादयति मादयतीत्येव युक्तम्, तदेवोपपादयति । श्रन्तरं गत्वादित्यादिना । न च (वार्णादाङ्ग बलीयः) इत्येager ट्टिलोपस्यैव प्रवृत्तौ त्वापयतीत्येव स्यादिति वाच्यम् । समानाश्रये तत्प्रवृत्यभ्युपगमेनेह व्याश्रये तदप्रवृत्तेः । न च भाष्ये प्रकृतिभावस्य प्रत्याख्यातेन दोषस्तदवस्थ एवेति वाच्यम् । प्रेष्ठाद्युदाहरणविशेषे भाष्यस्याऽन्यथासिद्धिपरत्वेनादोषात् । अयम्भावः, 'प्रकृत्यैकाजिति सूत्रस्य वृत्तिकारेण प्रेयान् प्रेष्ठ इत्याद्युदाहरणदानात्तत्र प्रकृतिभावं विनाऽपि प्रत्ययाद्यादेशविधायकसूत्रस्य 'असिद्धवदत्राभादि' त्यनेना सिद्धत्वात्प्रस्थादावकारोच्चारणसामर्थ्यात्तल्लोपाभावस्य भाष्ये साधनात् । त्रग्विन् स्रजिष्ठ इत्यादावपि लोपापवादविन्मतो लुकः प्रवृत्त्या न टिलोपः । नच प्रकृत्यैकाजिति सूत्रस्यैतावता प्रत्याख्यानमेवांगीकरणीयमिति वाच्यम् । स्वापयतीत्याद्यर्थन्तदावश्यकत्वादिति ॥
टेरित्यस्यैवेति-- एवकारेण 'नस्तद्विते' इत्यस्य व्यावृत्तिः । वस्तुतः 'प्रकृत्यकाजि ' तिसूत्रेऽनेकाजित्येव सिद्धे प्रकृतिग्रहणेन (येननाप्राप्ति) न्यायप्रवृत्तिबोधनात प्रकृतिभावस्य देरित्येतन्मात्र बोधकत्वमयुक्तम् । तथाच नस्तद्धित इत्यस्यापि प्रकृतिभावस्यान्याय्यस्वेन श्वानयतीत्येव रूपम् । सम्प्रसारणविधायकस्य श्रूयमाणान्नन्त एव प्रवृत्या टिलोपेऽपि सम्प्रसारणं दुर्लभमेवेत्यलम् ॥
शुनयतीति - ननु सम्प्रसारणे कृते पूर्वरूपत्वं बाधित्वा (वार्णादाङ्गमि) तिन्यायेन टिलोपे दुर्लभमिदं रूपमिति चेन्न । शुशुवतुरित्यादौ सम्प्रसारणे कृतेऽनेन न्यायेन 'एरनेकाजि' तियणि रूपाऽसिद्ध्या पूर्वरूपविषयेऽनित्येन तन्न्यायाप्रवृत्तेरिति भावः ॥
श्रन्ये तु शुनयतोतिरूपमाहुरिति- इदमत्रारुचिबीजं ब्रह्मवच्छब्दादिष्ठनि मतोलुकि टेरित्यस्याप्रवृत्त्या नस्तद्धित इत्यस्य प्रवृत्तिदर्शनादिष्ठनि तस्यादृष्टत्वादित्यसङ्गतम् । किञ्च ब्रह्मिष्ठ इत्यादावित्यप्यसंगतम् । तथाहि केवलाद्गुणवचनत्वेन इष्ठनि एव दुर्ल-सः । मत्वन्तादिष्टनि मतोर्लुकि तेन टेरित्यस्य प्रवृत्तिमात्रबोधनेन लुगुत्तरं तदप्रवृत्या परत्वादित्यस्यासंगतिः । किञ्च टेरित्यपेक्षया नस्तद्धित इत्यस्यैव परत्वमिति ॥
Aho! Shrutgyanam