Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 274
________________ १२८ फक्किकारनमञ्जूषा। दुर्वार इत्याशंकते अथ कथं भार्या वधूरिति । ननु असंज्ञाग्रहणसामर्थ्यात्तत्र सूत्रान्तरेणाऽपि क्यप् न स्यादत आह-संज्ञापर्युदासस्तु पंसि चरितार्थ इति । उक्तापत्ति वारयति-बिभर्ते इति । (तदनुबन्धकग्रहणे नातदनुबन्धकस्ये) तिपरिभाषया दुभृञ्धातोः क्यविधौ ग्रहणेन विभतेर्ण्यता रूपसिद्धिरितिभावः। . ननु 'चजोः' इति सूत्रे निष्ठायामनिट इति पठित्वा निष्ठायामनिटधातोश्चजोः कुत्व. मित्यर्थे गर्जधातोनिष्ठायां सेट्त्वेन गय॑मित्यादौ 'न कादेरि ति सूत्रोदाहरणे कुत्वाभावं सम्पाद्य वार्तिककारेण प्रत्याख्यातन्तत्सूत्रम् । अर्जितर्जिप्रभृतीनां निष्ठायां सेट्त्वेन कुत्वाभावः। ग्रुचुग्लुचप्रभृतीनां क्वादिगणपठितत्वेऽपि 'ऊदितोवे तिक्त्वायामिविकल्पत्वेन 'यस्य विभाषे' तिनिष्ठायामनिटत्वात्कुत्वम्भवत्येव सूत्रकृन्मते तु स्यादिति परस्परविरोधेऽपि उत्तरोत्तरमुनिवाक्यस्य प्रामाण्याद्वार्तिककृन्मतमेव ज्याय इत्याह-यथोत्तरं मुनीनां प्रामाण्यादिति प्राञ्चः । नागेशास्तु वार्तिकस्य सूत्रदूषणाय प्रवृत्तत्वाद्भाष्यकृता च वात्तिकमते शोक इत्यस्यासिद्धिमाशंक्य सूत्रकृन्मतेऽपि ण्यति कुत्ववारणाय नियमार्थमावश्यकेन शुचेषंजीति वचनेन समाधानाद्वार्त्तिकमतस्यैवाऽभ्यनुज्ञानाच्येत्याहुः ॥ ननु 'प्रैषातिसर्गे' ति सूत्रे चकारेण लोटोऽनुकर्षणात्तेन कृत्यप्रत्ययाऽबाधाय कृत्यग्रहणं, (वासरूप) विधेनित्यत्वे विकल्पबाधेन पक्षे कृत्यप्रत्ययसिद्धौ सूत्रे पुनस्तद्ग्रहणेन सा. पादुक्तविधेरनित्यत्वज्ञापनेन (क्तल्युट्तुमुन्खलथेषु वासरूपविधिर्नास्ती) तिसिद्धिरित्यभिप्रायेणाह-इह लोटा बाधेत्यारभ्य नेति सिद्धमित्यन्तमिति । वस्तुतस्तु वासरूपविधेरनित्यत्वे (अहेंकृत्यतृचश्चे) ति सूत्रस्यैव ज्ञापकत्वमिति लिङ्गा बाधा माभूदित्यादिना मूले एव स्पष्टमिति भावः । मुले क्वचिन्नेत्यस्य क्त्वाप्रत्ययेन तुमुनो नित्यबाधाऽभावेन आसित्वा भुक्ते आस्यते भोक्तुमिति च भवतीति फलम् ॥ श्रागमस्य दीर्घत्वसामर्थ्यादभ्यासहस्वो हलादिः शेषश्चनेति । नच दीर्घाऽऽगमोच्चारणस्य सवर्णदीर्धबाधकत्वेनोपक्षयात्सामर्थ्याभावेन मृलोक्तमसङ्गतमिति वाच्यम् , (अनन्तरस्ये) ति न्यायेन हलादिः शेषस्यैव बाधात्, वस्तुतस्तु दीर्घप्रवृत्तिकाल एव वैयोपस्थित्या तद्बाधस्यैव न्याय्यत्वम् , हलादिः शेषबाधनं तु अभ्यासस्याऽनचीति भा. ध्योक्तवचनेन साध्यम् । अभ्यासस्य यदुच्यते तदग्निमित्ताऽभ्यासभिन्नस्येत्यर्थः । अत एव लोलुव इत्यदौ गुणः । यद्यप्यत्र वचने वेति भाष्ये नास्ति तथापि रात्रिचर इत्यादि. प्रयोगदर्शनादाश्रितमिति । खशोऽन्यत्र नेष्यत इतिहरदत्त इति । अत्रारुचिबीजन्तु भाष्यानानुकूल्यम् 'टिढाणनि' तिसूत्रे प्रत्यासत्या दिदाद्यवयवयकारस्यैव ग्रहणं समुचितं भाष्यप्रामाण्यात् । न च टित्वसामर्थ्यादतिरिक्ताऽकारस्यापि ग्रहणमितिवाच्यम् । तथासति, धयेत्यत्रापि डीबापत्तेर्दुर्वारत्वात् । नच टिदाद्यवयवाकारस्यैव ग्रहणे स्तनन्धयीत्यत्रापि लोब् न स्यादि. ति वाच्यम् । गौरादित्वेन तदुपपत्तेः । नच डीपि स्वरे विशेष इति वाच्यम् । डीप्यपि उदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादित्यलम् । ब्रह्मज्य इति । ब्रह्मरूपोपपदाजिनाते. डित्वसामर्थ्यादभस्यापि टेर्लोपे रूपम् । नव कप्रत्यये आकारलोपेनाऽपि रूपसिद्धौ डविधानं व्यर्थमिति वाच्यम् । तथा सति स. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280