Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
फक्किकारत्नमञ्जूषा |
१२६.
शस्य यो वेत्युक्तमिति । चक्षिङः ख्याम् इत्यनेन न ख्याजादेशः किन्तु खूशानादेश एव तस्य शकारस्य णत्वप्रकरणोपरिस्थतेन शस्य यो वेतिसूत्रेण यत्वे रूपं सिद्ध्यति, एवञ्च अकुप्वाङ्नुमित्येतद्दृष्ट्या यत्वस्यासिद्धत्वाच्छ्कारेगाऽतिरिक्तेन व्यवधानान्नत्वप्राप्तिरिति भावः ॥
ag rat यदि त्यत्राऽग्ग्रहणं हलन्ताद्यतोऽभावाय तस्य च ऋवर्णान्तादिवद्धलन्तादपि ण्यता बाधेनोपपत्तौ व्यर्थमेव तदित्याह - श्रग्रहणं शक्यमकर्त्तुमिति । केचित्तु अजन्तभूतपूर्वादपि धातोर्यत्प्रत्ययार्थमज्ग्रहणं तेन दित्स्यं धित्स्यमित्यत्र यति कृते 'यतोsनाव' इत्युदात्तत्वसिद्धिः । अन्यथा यति कृते 'तित्स्वरितमिति स्वरितत्वापत्तिरित्याहुस्तन्न, (१) आर्धधातुकविवक्षायामकारलोपेऽज्ग्रहणस्योक्तफलकत्वसम्भवेन तस्मिन्परे तु तस्याऽकिञ्चित्करत्वात् । लोपस्य परनिमित्तकत्वानङ्गीकारे तु गणयतीत्यादावुपधावृद्धिप्रसक्तिः ॥
ननु जन्यमिति रूपस्य यता ण्यता वोभयथा सम्भवाहहलोर्ण्यदिति ण्यतैव रूपसिद्धौ तशिचितीतिवार्त्तिके जनेर्ग्रहणं व्यर्थमित्यत आह-जनेर्यद्विधिः स्वरार्थ इति । यतोऽनाव इत्याद्युदात्तस्वरार्थ इत्यर्थः ॥
ननु यद्यतोरसरूपत्वेन वासरूपोऽस्त्रियामित्यनेन यता ण्यतो वैकल्पिकबाधेन पक्षे एयत्प्रत्ययो दुर्वार एवेत्यत आह- नानुबन्धकृतमसारूप्यमिति । अनेकान्तपक्षेऽनुबन्धानामनवयवत्वात्तत्कृताऽसारूप्यस्य न ग्रहणम् । एकान्तपक्षेऽपि ददातिदधात्योर्विभाषेतिविभाषाग्रहणज्ञापकादनुबन्धकृताऽसारूप्यस्यानाश्रयणादुक्तपक्षद्वये न ण्यतः प्रसक्तिरिति भावः ॥
ननु धातूनां हलन्ताजन्तभेदेन द्वैविध्यात्तत्र हलन्ताण्ण्यतो वक्ष्यमाणत्वात्प परिशेषादजन्तादेव यतो विधानेन तव्यदादिष्वेव तद्ग्रहणादिष्टसिद्धौ पृथग योगो नावश्यक इत्यभिप्रेत्याह-योगविभागोऽप्येवम्, तव्यदादिष्वेव यतोऽपि सुपठत्वादिति ।
ननु 'पोरदुपधादि' त्यनेनाऽकारोपधपवर्गान्तधातोर्यद्विधानेन आङ्पूर्वकालभेर्यादिप्रत्ययविवक्षायामेव नुमि तदाऽकारोपधत्वाभावान्न यत्किन्तु ण्यदेवेत्याह- नुमि कृतेऽदुपधत्वाभावाणूण्यदेवेति । ण्यति कृते आलम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा तरपदप्रकृतिस्वरेणेष्टस्य स्वरितान्तत्वस्य सिद्धिः । यति प्रत्यये तु 'यतोनाव' इत्यनेनाssधुदात्तत्वादनिष्टस्योत्तरपदाद्युदात्तत्वस्यापत्तिरिति भावः ।
कृदुत्तर
ननु यमेः पवर्गान्तत्वेन पोरदुपधादित्यनेनैव सिद्धौ ( गदमदे ) ति सूत्रे तद्ग्रहणं व्यर्थ - मित्यत आह-यमेर्नियमार्थमिति । यमेश्वेदनुपसर्गादेवेतिनियमाकारः तेनोपसर्गविशिस्य तु प्रयाम्यमित्येव तत्रापि ( न तत्र भवेद्विनियम्यमिति वार्त्तिकप्रयोगदर्शनात विनीत्युपसर्गद्वयातिरिक्तोपसर्ग विशिष्टस्य माभूदिति संकोचः ।
शतेन वर्या कन्येति । अत्र शतशब्दोऽनियतपरस्तेन कन्याया वरणे वरयितॄणां नि.
( १ ) आर्धधातुकविवक्षायामकारलोपे तदानीं हलन्तत्वात् ण्यतः प्रसक्तिः । आर्धधातु कपरे लोपस्तु प्रत्यये सत्येव लोपः, लोपे सत्येव हलन्तत्वसम्भवः, इति प्रत्ययोत्पत्तिकालेऽजन्तत्वस्यैव सत्वाद्यदेवेति केचिदित्यादिना प्रतिपादितमसङ्गतमेवेति ।
Aho! Shrutgyanam

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280