Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 265
________________ नामधातुप्रक्रियाप्रकरणम् । अगवृत्तपरिभाषया सम्प्रसारणन्नेत्येक इति--अयम्भावः, टिलोपेनासो लोपे सम्प्रसारणाऽप्राप्त्योक्तपरिभाषोपन्यासो व्यर्थः ॥ विदावयतीत्यन्य इति–अत्र पूर्ववदेवाऽरुचिबीजम् । एवञ्च विद्वयतीत्येव रूपमितिबोध्यम् । उदीचयतीति-उदञ्चमाचष्ट इति विग्रहे उद उपसर्गत्वात्पृथक्करणे नैकाच्त्वात्प्रकृतिभावे रूपम् ॥ तिरायतीति-तिर्यञ्चमाचष्ट इति विग्रहे तिरसोऽनुपसर्गात्पृथक्करणाऽभावादेकाचत्वाऽभावेन प्रकृतिभावेन प्रकृतिभावाऽप्राप्तौ टिलोपे रूपम् । असिद्धवदत्रेति चिणोलुग्न्यायेय प्रथमटिलोपोऽसिद्ध इति-अपाचितरामित्यत्र चिणः परस्य तशब्दस्य लुकि पुनस्तरप्प्रत्ययस्य लुग् न भवति प्रथमलुकोऽसिद्वत्वेन व्यवधानात्तद्वदित्यर्थः ॥ इति नामधातुप्रक्रिया । अथ तिङन्ते आत्मनेपदप्रक्रिया । कर्तरि कर्मव्यतिहारे-अत्र कर्मपदेन क्रियाग्रहणं व्यतीहारपदस्य विनिमयः, परिवर्तनम्वाऽर्थः, तच्च स्ववस्तुदानपूर्वकपरवस्त्वाङ्गीकाररूपम् । कर्मव्यतिहारपदेन न केवलक्रियाविनिमयो गृह्यते अपि तु परस्परकरणपरिवर्तनमपि, संप्रहरन्ते राजान इति कैयटोदाहरणात् । 'अनुदात्तडित आत्मनेपदमिति सामान्यसूत्रेणाऽत्मनेपदसिद्धौ अस्य पृथ. गारम्भसामर्थ्यात्कर्तृग्रहणमेतत्सूत्रघटकमुत्तरार्थमिति भावः ॥ नेर्विशः । अत्रार्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणात् मधूनि विशन्ति भ्रमरा इत्यत्र नात्मनेपदापत्तिः । ननु अटा व्यवायादन्यविशतेत्यत्र नात्मनेपदमिति चेन्न । स्वाङ्गस्याऽव्यवधायकत्वात् । नचाऽभक्तस्याऽटो विकरणान्तं प्रत्यवयवत्वेऽपि धातुम्प्रत्यनवयवत्वेन तदवस्थ एव दोष इति वाच्यम् । (उपसर्गनियमेऽव्यवाय उपसंख्यानमि) ति वार्तिकेनोपसर्गात्परधातुतो विहितकार्यस्योपसर्गधात्वोरन्तरालपतिताऽव्यवायेऽपि बोधनेनाऽदोपात् । ननु निरूपोपसर्गविशिष्टविशेरात्मनेपदविधाने इत्युक्त्वा मैथिली भर्तुर निविशती भयात् , इति कथं सङ्गतमिति चेन्न । अङ्गानि विशतीमिति पाठभेदेन तत्संगतेरित्यलम् ॥ ननु अपाच्चतुष्पाच्छकुनिष्चित्यत्र । (सुडपि हर्षादिष्वेवे) ति वात्तिकम् । अब ह. हर्षादिष्वित्यस्याऽभावे अपकिरति कुसुममित्यत्र सुडापत्तिः । तत्सत्त्वेतु आलेखनाभावामुडभावः, म्रियमाणो वृषभः पादैर्भुवमपकिरतीत्यत्र हर्षाद्यभावान्नासावित्यभिप्रायेणाह मूले हर्षादिष्विति किम् । अपकिरति कुसुममिति । नेष्यत इति । अत एव भा. ज्ये ससुटकान्येवोदाहरणानि दृश्यन्ते । गजोऽपकिरतीति । स्वभावाख्यानमत्र ॥ णेरणाविति । अत्र चत्वारि वाक्यानि प्रतीयन्ते । तथाहि, णेरित्येकं वाक्यम् , अणौ यत्कर्म णौ चेदिति द्वितीयम् , स कनैति तृतीयम् , अनाध्याने इति चतुर्थम् , आत्मनेपदस्याधिकारः, द्वितीययोगे कर्मपदस्य क्रियापरत्वम् , तृतीययोगे द्वितीययोगस्यानुवृ. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280