Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
भ्वादिप्रकरणम् । नार्थ संगतिरिति वाच्यम् । (१)शाम्यतिवद्धातूनामनेकार्थत्वात्तत्संगतेरिति भावः ॥ ___ ननु पै धातोर्लुङि अपासीदितीष्टरूपं नस्यात् (धुमास्थे) त्येतद्विहितेत्वापवादस्य 'एलिङी' त्येत्वस्य 'गातिस्थेति सिज्लुकश्च प्राप्तेरिति चेन्न । (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषयाऽऽत्वनिष्पन्नस्य पा इत्यस्य लाक्षणिकत्वात्ततः प्रतिपदोक्तस्य तस्य तत्तत्सूत्रे ग्रहणबोधनेनाऽनुपपत्तेरभावादित्याह-घुमास्थेतीत्वं तदपवाद एलिङात्येत्वमिति । _श्रादादिकोऽयमिति हरदत्तः फले तु न भेद इति । ननु गाधातोर्लटितत्स्थाने आतामि शपि गा आतामितिस्थितौ (वार्णादाङ्ग बलीयः) इति परिभाषया वर्णनिमित्तककार्यादंगनिमित्तककार्यस्य बलवत्त्वबोधनेन 'आतो डिन्तः' इत्यस्य दीर्घात्प्रागेव प्रवृत्ती फलभेदस्य स्पष्टत्वात्तन्मूलोक्तमयुक्तमिति वाच्यम् । स्योन इति भाष्योदाहरणादुक्तपरिभाषानित्यत्वेन फलभेदाभावेन मूलोक्तस्य युक्तत्वात् । नचोक्तधातोश्शानचि मुकि फलभेद इति वाच्यम् । वार्णशास्त्रीयस्थानितासमानाधिकरणस्थानिताकत्वरूपसमानकार्यित्व एवोक्तपरिभाषाप्रवृत्यभ्युपगमेनादोषादिति भावः ॥
नन (नेदे)ति सूत्रे मारूपस्य ग्रहणात्तस्मिन्नुत्तरपदे उपसर्गस्थनिमितात्परस्य नस्य गत्यविधानादिह शिद्विषये आत्वाप्राप्त्या मारूपत्वाऽभावेनाऽशिद्विषये आत्वेऽपि तस्य लाक्षणिकत्वादग्रहणेन च गामादाग्रहणेष्वविशेषेऽपि मीनातिमिनोतीत्यादिना कृतात्वयोरपि ग्रहणापत्या तदनंगीकारेण च सर्वथा णत्वस्य दुर्लभत्वात्प्रणिमयते इति न स्यादत आहअत्र घुप्रकृतिमाङिति पठित्वा. डितो माप्रकृतेरपि ग्रहणस्येष्टत्वादिति । घुश्च प्रकृतिश्च माङ्चेति द्वन्द्वे कस्य प्रकृतिरित्याकांक्षोदये सामीप्यात्पूर्वोत्तरयोरेवेति (दाधावि)ति सूत्रभाष्ये सिद्धान्तितत्वेन प्रणिदयत इत्यत्रेव तत्रापि णत्वं सुलभमिति दिक् !!
षत्वपक्षे णत्वमिति । नन्विदमनुपपन्नंषत्वस्य पदद्वयापेक्षत्वादहिरंगत्वेनासिद्धत्वा. दिति चेन्न । धातूपसगंयोः कार्यमन्तरङमित्यभियुक्तोक्त्या षत्वस्यान्तरंगत्वबोधनेन प्राक् प्रवृत्तेः । (पूर्व धातूरुपसर्गेण युज्यते पश्चात्साधनेने)ति भाष्यमपि तत्र मानम् । पूर्व धातोः साधनेन योगः पश्चादुपसर्गेणेति मतान्तरे तु नैव णत्वमित्यत्यलम् ॥
ननु व्येजो लिटि गलि (न व्यो लिटी)त्यात्वनिषेधे द्वित्वे परत्वाद्धलादिः शेष इत्यनेनाऽभ्यासाऽवयवयकारस्य लोपे सम्प्रसारणाऽप्राप्त्या विव्यायेति रूपन्न स्यादत आहपरमपि हलादिः शेषं बाधित्वा यस्य सम्प्रसारणमिति-अत्र प्रमाणं (लियभ्यासस्योभयेषामित्यत्रोभयग्रहणम् । वच्यादीनां ग्रह्यादीनाञ्च ग्रहणार्थमेव सुत्रे तदूग्रहणमनुवृत्यैव सिद्ध व्यथं तद्ग्रहणं ज्ञापयति परमपीति भावः ।
इति भ्वादयः ॥
(१) यथा शाम्यतेर्निशामयतीत्यादौ दर्शने प्रयोगस्तथा चौरादिकशमधातोरपि श्रवणे वृत्तिभविष्यतीत्यर्थः ॥
Aho! Shrutgyanam

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280