Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 239
________________ वादिप्रकरणम् | मिति अत्र ज्ञापकं चक्षिङो ङित्करणम् । तथा हि चक्षिको ङित्करणाभावेऽनुदात्तत्वादेवात्मनेपदसिद्ध व्यर्थन्तदुक्तार्थे ज्ञापकम् । अस्य भाष्येऽदृष्टत्वात्पूर्वप्रकारेणैवोपपाद्यः । तदस्वकर्तृणान्न एव स इति भावः ॥ ननु प्यायधातोर्लिटि (लिटि धातोरनभ्यासस्य) (लिड्यङोचे ) ति सूत्राभ्यां युगपद्वित्वपीभावयोः प्राप्तौ परत्वाद्वित्वं वाधित्वा प्यायः पोभावे ( सकृतौ यद्वाधितं तद्वाधितमेत्र) इति न्यायेन पुनर्द्वित्वं न स्यादित्यत आह-पुनः प्रसङ्गविज्ञानात्पीशब्दस्य द्वित्वमितिघटादिगणे येऽन्यविकरणा अनूद्यन्ते तेषां तत्तत्प्रयुक्ता एव विकरणाः । येतु भ्वादिस्था एवानुद्यन्ते स्वतन्त्रा वा पठ्यन्ते तेषां शवेव । तेषु च येऽन्यत्राऽधीता इह पठ्यन्ते तेषामर्थ - नियमः । येत्विहैव पठ्यन्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं तदेत्त्ध्वनयन्नुदाहरति-विघटयतीति । ननु घटधातोर्मित्त्वे (कमलभवनोद्वाटर्न) (१) प्रविघाटयितेत्यादयः प्रयोगा नोपपद्यन्त इतिचेन्न । चौरादिकस्यामितो घट संघात इति धातोरुक्तरूपाऽभ्युपगमेनोपपत्तेः । नच भ्वादिस्थस्यैवोक्तधातोरत्रार्थान्तरे मित्वार्थमनुवादाद्दोषस्तदवस्थ एवेति वाच्यम् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चातिरिक्ताश्चुरादयो मितो नेत्यर्थक (नाsन्ये मितोऽहेतावि ) ति निषेधात् । अनुवादसामथ्र्येंन मित्त्वबाधकल्पनापेक्षया स्वतन्त्रकल्पनस्यैव न्याय्यत्वात् । नच चुरादिपठितस्यैव घटधातोः पित्त्वार्थमिहानुवाद इति वाच्यम् । तथासति तत्रैव घटिषिति पठितुं युक्तत्वात् । ण्यासश्रन्थेति युवा व प्रात्यापित्वे फले विशेषाऽभावाच्चेति भावः ॥ हलादिः शेषापवाद इति - यथास्थानिकहलादिः शेषापवाद इत्यर्थः । नचाऽभ्यासविकारे बाध्यबाधकभावाऽभावादिदमसंगतमेवञ्च वस्यैव सम्प्रसारणापत्तिरिति वाच्यम् । लिट्यभ्यास्वस्योभयेषामित्यत्रो भयेषां ग्रहणसामर्थ्यात्सामान्यत एवाभ्यासलोपाभ्याससप्रसारणविषये तन्न्यायाऽप्रवृत्तिज्ञापनेनादोषात् । सम्प्रसारणं तदाश्रयञ्च कार्य बलवदितितूक्तसूत्रस्योभयग्रहणवैर्थ्यापत्या तत्सूत्रभाष्य एव प्रत्याख्यातमिति तदुपन्यासः केषाञ्चिदयुक्त एवेति दिक् ॥ केचिद्घटादौ श्रत्स्मृद्गत्वर] इति सूत्रे दीर्घस्थाने ह्रस्वं पठन्ति तन्नेति माधव इति । सूत्रे दोर्घान्तपाठस्यैव सर्वसम्मतत्वाद्घटादावपि दीर्घान्त एव सर्वैः पयते । यद्ययं ह्रस्वान्तः स्यात्तदा दूह इति धातुद्वयेन ददतुरितिरूपद्वयसिद्धौ (शृट्टां - स्वो वे) ति वैकल्पिकहस्वविधायके दृग्रहणस्याऽऽनर्थक्यं स्यात् । नच विदारणेऽर्थं रूपद्वयसिद्ध्यर्थं तत्र दृग्रहणस्यावश्यकत्वेन कथं वैयर्थ्यमिति वाच्यम् । धातूनामनेकार्थत्वेन समीहितरूपपत्तेरिति तदाशयः ॥ श्री पाके, इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । (१) किरातार्जुनीयकाव्ये २ सर्गे भारवेरयं श्लोक:अभियोग इमान्महीभुजो भवता तस्य कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव ॥ : Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280