________________
वादिप्रकरणम् |
मिति अत्र ज्ञापकं चक्षिङो ङित्करणम् । तथा हि चक्षिको ङित्करणाभावेऽनुदात्तत्वादेवात्मनेपदसिद्ध व्यर्थन्तदुक्तार्थे ज्ञापकम् । अस्य भाष्येऽदृष्टत्वात्पूर्वप्रकारेणैवोपपाद्यः । तदस्वकर्तृणान्न एव स इति भावः ॥
ननु प्यायधातोर्लिटि (लिटि धातोरनभ्यासस्य) (लिड्यङोचे ) ति सूत्राभ्यां युगपद्वित्वपीभावयोः प्राप्तौ परत्वाद्वित्वं वाधित्वा प्यायः पोभावे ( सकृतौ यद्वाधितं तद्वाधितमेत्र) इति न्यायेन पुनर्द्वित्वं न स्यादित्यत आह-पुनः प्रसङ्गविज्ञानात्पीशब्दस्य द्वित्वमितिघटादिगणे येऽन्यविकरणा अनूद्यन्ते तेषां तत्तत्प्रयुक्ता एव विकरणाः । येतु भ्वादिस्था एवानुद्यन्ते स्वतन्त्रा वा पठ्यन्ते तेषां शवेव । तेषु च येऽन्यत्राऽधीता इह पठ्यन्ते तेषामर्थ - नियमः । येत्विहैव पठ्यन्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं तदेत्त्ध्वनयन्नुदाहरति-विघटयतीति । ननु घटधातोर्मित्त्वे (कमलभवनोद्वाटर्न) (१) प्रविघाटयितेत्यादयः प्रयोगा नोपपद्यन्त इतिचेन्न । चौरादिकस्यामितो घट संघात इति धातोरुक्तरूपाऽभ्युपगमेनोपपत्तेः । नच भ्वादिस्थस्यैवोक्तधातोरत्रार्थान्तरे मित्वार्थमनुवादाद्दोषस्तदवस्थ एवेति वाच्यम् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चातिरिक्ताश्चुरादयो मितो नेत्यर्थक (नाsन्ये मितोऽहेतावि ) ति निषेधात् । अनुवादसामथ्र्येंन मित्त्वबाधकल्पनापेक्षया स्वतन्त्रकल्पनस्यैव न्याय्यत्वात् । नच चुरादिपठितस्यैव घटधातोः पित्त्वार्थमिहानुवाद इति वाच्यम् । तथासति तत्रैव घटिषिति पठितुं युक्तत्वात् । ण्यासश्रन्थेति युवा व प्रात्यापित्वे फले विशेषाऽभावाच्चेति भावः ॥
हलादिः शेषापवाद इति - यथास्थानिकहलादिः शेषापवाद इत्यर्थः । नचाऽभ्यासविकारे बाध्यबाधकभावाऽभावादिदमसंगतमेवञ्च वस्यैव सम्प्रसारणापत्तिरिति वाच्यम् । लिट्यभ्यास्वस्योभयेषामित्यत्रो भयेषां ग्रहणसामर्थ्यात्सामान्यत एवाभ्यासलोपाभ्याससप्रसारणविषये तन्न्यायाऽप्रवृत्तिज्ञापनेनादोषात् । सम्प्रसारणं तदाश्रयञ्च कार्य बलवदितितूक्तसूत्रस्योभयग्रहणवैर्थ्यापत्या तत्सूत्रभाष्य एव प्रत्याख्यातमिति तदुपन्यासः केषाञ्चिदयुक्त एवेति दिक् ॥
केचिद्घटादौ श्रत्स्मृद्गत्वर] इति सूत्रे दीर्घस्थाने ह्रस्वं पठन्ति तन्नेति माधव इति । सूत्रे दोर्घान्तपाठस्यैव सर्वसम्मतत्वाद्घटादावपि दीर्घान्त एव सर्वैः पयते । यद्ययं ह्रस्वान्तः स्यात्तदा दूह इति धातुद्वयेन ददतुरितिरूपद्वयसिद्धौ (शृट्टां - स्वो वे) ति वैकल्पिकहस्वविधायके दृग्रहणस्याऽऽनर्थक्यं स्यात् । नच विदारणेऽर्थं रूपद्वयसिद्ध्यर्थं तत्र दृग्रहणस्यावश्यकत्वेन कथं वैयर्थ्यमिति वाच्यम् । धातूनामनेकार्थत्वेन समीहितरूपपत्तेरिति तदाशयः ॥
श्री पाके, इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् ।
(१) किरातार्जुनीयकाव्ये २ सर्गे भारवेरयं श्लोक:अभियोग इमान्महीभुजो भवता तस्य कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव ॥
:
Aho! Shrutgyanam