________________
९२
फक्किकारत्नमञ्जूषा । ततश्च, अंगाभिन्नैकाचकर्मकं यदद्विरुवारणं तत्र पूर्वाभ्याससंज्ञः सचाऽभ्यासः चपरकणिपरकलघुपरकः सन्वद्भगवतीत्यर्थ इति माधवमतम् । तदाह-(१)संज्ञायाः कार्यकाल. त्वादिति-अजजागरदित्यत्र सन्वद्भाववारणाय वार्तिककृता (जागर्तेः प्रतिषेधो वक्तव्यः) इति वार्तिकमारब्धम् , भाष्यकृता तु तत्प्रत्याख्यातम् । माधवमते सन्वद्भावस्य तत्राऽप्रा. प्त्या तदु नयमपि विरुद्ध मित्याह । ऊण दीर्घ इति-तेन औMनवदित्यस्य सिद्धिः। नात्र सन्वद्भावोपयोगो णौ कृतादेशस्य स्थानिवद्भावेन निषेधेन वा नुशब्दद्वित्वे सत्यभ्यासेवर्णाऽभावात् । अर्थापयताविति–अर्थमाचष्ट इत्यर्थे णिच्यापुगागमे ततः च्लेश्चडि दाचे (सन्वत्)इतीत्वे च, आतीथपदिति सिद्धम् । चकास्तौ तूभयमिदमिति-चपरे जो यल्लघु इति व्याख्याने न स्यात् । चपरे णौ यदंगमितिव्याख्यानेतु स्यात् , तेन अचचकासत् अचीचकासदिति रूपद्वयं सिद्धम् । ननु येनोभयाथेनोक्तरूपद्वयसिद्धिस्तदर्थद्वयं कथं लभ्यत इत्याह-विशेष्यं सन्निहितमिति-अत्र किम्प्रमाणमित्याकांक्षायामाह -इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति-चपर इत्यावर्त्य अग्लोपविशेषणत्वेन योजितस्य फलमाह-णेरग्लोपेऽपि सम्बन्ध इति-श्रिनुपरतोऽग्लोपित्वासम्भवनात्रापि चपर इत्येतावतैव णाविति लभ्यत इत्यवसेयम् । अगितामपिसिद्धये इति-पचिकमिशकिप्रभृतीनामित्यर्थः । इत्संज्ञकानां लोपो न णिचं प्रतीक्षत इत्याशयः ॥
ननु अयधातोरात्मनेपदित्वात्ततश्शानचो विधानस्यैव युक्तत्वाच्छतृप्रत्यासम्भवेन (२)(उदयति विततोद्ध्वरश्मिरज्वावि)ति माघश्लोके उदयतीति प्रयोगोऽनुपपन्न इत्यत आह-इटकिटकटीत्यत्रेति । कटीत्यत्र इधातोः प्रश्लेषादयतिरूपस्य सम्भवेनोक्तकाव्यप्रयोग उपपन्नः । पक्षान्तरेणोपपत्तिप्रकारमाह-यद्वा अनुदात्तत्त्वलक्षणमात्मनेपदमनित्य.
(१) संज्ञायाः कार्यकालत्वादङ्ग यत्र द्विरुच्यते
तत्रैव दीर्घः सन्वच्च नानेकाविति माधवः ॥ १ ॥ चकास्त्यर्थापयत्यू[त्यादौ नाङ्गं द्विरुच्यते। किन्त्वस्यावयवः कश्चित्तस्मादेकाश्विदं द्वयम् ॥ २ ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् । ऊो दीर्घोऽर्थापयतो द्वयं स्यादिति मन्महे ॥ ३ ।। चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ ४ ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ।
णेरग्लोपेऽपि सम्बन्धस्त्वगितामपि सिद्धये ॥५॥ इति व्याख्यातकारिकासंग्रहः । (२) उदयति विततोलरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघटाद्वयपरिवारितवारुणेन्द्रलीलाम् ॥ इति श्लोकाकारः।
Aho! Shrutgyanam