________________
९४
फक्किकारत्नमञ्जूषा। [(१) लुग्विकरणालुग्विकरणयो रलुग्विकरणस्य (२) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषाभ्यामिति-(स्वरतिसुति) इत्यत्र सूङिति पठितेनापि रूपद्वयोपपत्तौ सूतिसूयत्योः पृथगग्रहणे व्यर्थ सत्पूर्वपरिभाषां ज्ञापयति । द्वितीया तु न्यायसिद्धा । यद्यप्युक्तपरिभाषाद्वयस्य परस्परविरोधादिहाप्रवृत्तावपोष्टसिद्धि. स्तथापीहोभयोरविशेषात्प्रवृत्तिरपि युक्तैवेति भावः ॥ __ननु निशामनशब्दस्य शम आलोचन इत्यस्मानिष्पन्नत्वेन विचारार्थकत्वाद्दर्शनार्थकत्वं न स्यादित्यत आह-निशानं चाक्षुषज्ञानमिति माधव हात-(अन्यमते ज्ञापनञ्च तदर्थः । ननूक्तशब्दस्यैतदर्थकत्वाभ्युपगन्तणाम्मते (श्लाघन्हुङ स्था) इत्यत्र जीप्स्य. मानो बोधयितुमभिप्रेत हात वृत्तिग्रन्थे सङ्गत्तेऽपि मारणादिकञ्च तस्यार्थः । एवञ्च माधव मतेऽप्युक्तग्रन्थस्य सङ्गतिः । ननु ज्ञाधातोपधातोश्च णौ मित्वाध्रस्वेन भाव्यमित्याशंकतेकथं विज्ञापना भर्तृष्विति-समाधत्ते-माधवमते चाक्षुषज्ञाने मित्वाऽभावदिति । एवञ्च ज्ञाधातोर्बोधनेऽर्थे ज्ञापयति, ज्ञपेस्तु ज्ञपयतीति माधवमते रूपद्वयं बोध्यम् ॥ ननु अनुपसर्गस्यैव ज्वलादेवैकल्पिकमित्वं सोपसर्गस्य तु नित्यमेव एवञ्च प्रज्वालयतीत्यनुपपन्नमित्याह-कथं तर्हि प्रज्वालयति उन्नामयतीति । उत्तरयति-घञन्तात्तत्करोतीति णाविति ।
ननु (नोदात्तोपदेश) इति प्रतिषेधात्क्रमेधजि क्रम इत्येवं नतु काम इति तथा च संक्रामयतीत्यनुपपन्नमित्याह-कथं संक्रामयतीति-समाधानमाह-'मितां हस्वाइतिसूत्रे'वाचित्तविराग इत्यतो वेत्यनुवयं व्यवस्थितविभाषाश्रयणादितिवृत्तिकृदिति । एवञ्च क्वचित णौ मितां ह्रस्व इत्यस्य न प्रवृत्तिरिति भावः । एतेन
इति जित्वा दिशो जिष्णुर्व्यवर्तत रथोद्धतम् ।
रजोविश्रामयन राज्ञां धुर्यान् विश्रमयेति सः ॥ ___ इति व्याख्यातम् । धजन्तात्क्रमशब्दात्प्रज्ञाद्यणि कामशब्दं स्वीकृत्य ततस्तत्करोतीति णावुक्तप्रयोगसिद्धिरिति केचित ।
ननु (न कम्यमिचमामि) त्यनेन दर्शनार्थे शाम्यतेर्मित्वाभावविधानेन दर्शनातिरिक्ताथे मित्वाद्वक्ष्यमाणप्रयोगानुपपत्तिरित्याह-कथं तर्हि(३) निशामय तदुत्पत्तिमिति--चौरादिकस्य शम आलोचने इत्यस्योक्तरूपम् । नचैवं रीत्योक्तप्रयोगनिष्पत्तावपि
(१) स्वरातिसूतीतिसूत्रे सूङिति वक्तव्ये सूतिसूयत्योः पृथनिर्देशो हि परिभाषायां केयटमते ज्ञापकः । अस्याः कार्य साहचर्यपरिभाषया सम्पाद्य भाष्ये नेयं पठिता।
(२) लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकं लाक्षणिकम् । तत्तद्विभाक्तविशेषाद्यनुवादेन विहितः शीघ्रोपस्थितिकः प्रतिपदोक्तस्तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणम् । विलम्बोपस्थितिकत्वशीघ्रोपस्थितिकत्वयोरेव परिभाषायां बीजत्वम् । भुवश्च महाव्याहृतरित्यत्र महाव्याहृतिग्रहणादनित्या चेयम् ।
(३) सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तरात्गदतो मम ॥ अयं दुर्गासप्तशत्याः प्रथमश्लोकः ।
Aho ! Shrutgyanam