Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
भ्वादिप्रकरणम् । ष्ट एव । इजादेरित्यत्र गुरुमानिति नित्ययोगे मतुपो विधानान्नित्यं यो गुरुमानित्यर्थे एध वृद्धावित्यादावेवाऽऽम् न तु प्रकृते तत्प्रसक्तिरित्यन्ये ॥ ननु ऊखतुरित्यत्र पूर्व कृते सवर्णदीघे तस्य पूर्वान्तवद्भावेनाऽभ्यासत्वेन [हस्व] इत्यनेन कुतो न पुनर्हस्व इत्यत आह-इह सवर्णदीर्घस्याऽभ्यासग्रहणेनेति-अयम्भावः । [वार्णादाङ्गं बलीयः] इत्यनया परिभाषयाऽन्तरङ्गमपि सवर्णदीर्घ बाधित्वा पूर्व कृते हस्वे ततो दीघे (लक्ष्ये लक्षण) न्यायेन न पुनर्हस्वापत्तिः । नच पिष्टपेषणवद्धस्वस्य हस्वविधानस्य वैयर्थेन तच्छंकोत्थापनं निर्मलमेवेति वाच्यम् । पर्जन्यवल्लक्षणप्रवृत्तः सिद्धान्तसिद्धत्वेन फलाऽभावेऽप्यङ्गाऽवयवाऽभ्यासरूपस्थानिनि विधीयमानहस्वप्रवृत्तेरनिवार्यत्वात् । नच स्योन इति भाष्यकृदुक्तोदाहरणादक्तपरिभाषाऽनित्यत्वादप्रवृत्त्या द्वित्वनिमित्तको यो बहिरङ्गहस्वस्तदपेक्षयाऽन्तरंगसवर्णदीर्घस्यैव प्रवृत्या पुनरुक्तदोषस्तदवस्थ एवेति वाच्यम् । (षत्वतुकोरसिद्ध) इत्येतद्धटकतुग्ग्रहणेनाऽन्तरंगपरिभाषाया अप्यनित्यत्वाद्धस्वस्यैव परत्वात्प्रवृत्तेरिति ग्रन्थकर्तुराशयः । नव्यास्त, अभ्यासविकारे बाध्यबाधकभावाऽभावाद्धस्वदीर्वयोरेकदा प्राप्तौ (लक्ष्ये लक्षण) न्यायान्न पुनर्हस्व इत्याहुः । उक्तपरिभाषया हस्वहलादिशेषयोः समावेशे उक्तन्यायेन न पुनरसाविति केचित् ।
ननु कृसभृ इत्येषां प्रकृत्याश्रयस्य (एकाच उपदेशेऽनुदात्तादि)ति निषेधस्य प्राप्तत्वात् वृजोस्तु उदात्तत्वेन (युकः किती)तिप्रत्ययाश्रयस्य निषेधस्य प्राप्तत्वाच्च, ग्रहणं व्यर्थम् । भारद्वाजनियमप्रापितेनिषेधाय स्तुवादीनां सार्थक्यमित्याह-क्रादीनां चतुणी ग्रहणं नियमार्थमिति-नियमाकारस्तु मूल एव स्फुटत्वादत्र नोक्तः । अव्यवहितोत्त. रत्वसम्बन्धानवच्छिन्नधातुत्वावच्छिन्न प्रकारतानिरूपितविशेष्यताप्रयोजकप्रत्ययघटितशास्त्र प्रकृत्याश्रयत्वम् । यावानिति । नवाशब्दान्यतरप्रापित इत्यर्थः । तेन षिधू इत्स्य सिषेधिथेत्येकमेव । यत्त (अनन्तरस्यविधिर्वा भवति प्रतिषेधो वे)तिन्यायेन प्रक्रमाद्वा नप्रापितस्यैव नियमस्तेनोक्तधातोरुभयमिति तन्न । (उपदेशेऽत्वत)इति सूत्रे नित्यानिट इत्यस्याञ्जिावर्त्य इत्यर्थपरभाष्यासङ्गतिः । यदि च वाप्राप्तनियमो न स्यात्तदा तत्राऽप्यूदित्वप्रयुक्तविकल्पस्य सद्भावात्तदसंगतिः । मम तु क्रादिनियमेन नित्य इडिति भावः । नान्येभ्य इति-तेन बभूविवेत्यादेः सिद्धिः । नियमाकारे प्रकृत्याश्रयः प्रत्ययाश्रयः इत्युक्तन्तत्र विचार्य्यते । अस्तु नाम प्रकृत्याश्रयनिषेधस्य नियमः वृग्रहणस्य वव/त्यत्राप्राप्तनिषेधप्रापकत्वेन प्रत्ययाश्रयस्य नियमासम्भवात् । थलोऽकित्वेन न तत्र प्रत्ययाश्रयनिषेधप्राप्तिः । वृज उदात्तत्वेन नापि प्रकृत्याश्रयनिषेधप्राप्तिः । न चैवमपि वृडो नियमार्थत्वमस्त्विति वाच्यम् । तस्य विशेषरूपेणाऽत्राग्रहणात् । यद्यपि विशेषरूपेण तत्र वृजोऽपि न ग्रहणं तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वेन वृज एव ग्रहणम् । एवञ्च (युकः किति) इति निषोधो दुर्वार एवेति चेदुच्यते, (बभूथाततन्थे) ति सूत्रे छन्दसि ववषैति निपातनेन भाषायां वृजस्थल इटः स्वीकर्तव्यत्वाद्वग्रहणस्य थलविषयत्वाऽयोगेन वमादीनां च कित्वेन नियमस्य सुस्थत्वात् ॥ ____ ननु संज्ञाशास्त्रस्य कार्यकालपक्षे न पृथग्वाक्यार्थबोध: किन्तु विधिवाक्येन सहैवेति सिद्धान्तः । तथा च (सन्वल्लघुनि) इति संज्ञाशास्त्रमेकाचो द्वेऽङ्गसंज्ञेति सहितमुपस्थितम् ।
Aho! Shrutgyanam

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280