Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 236
________________ फक्किकारत्नमञ्जूषा। मिति तुमन्नन्ते इनिषेधाऽनापत्तेः । इत्युभयत्रोपदेशपदसम्बन्ध आवश्यक इति भावः ॥ एकाचः किमिति-ननु एकाग्रहणाऽभावे जंघनितेत्यादौ यङलुगन्ते निषेधस्य दुर्वारत्वेन व्यर्थमेव तदिति वाच्यम् । [स्थालीपुलाक] न्यायेन वक्ष्यमाणपरिभाषाज्ञापनेन तस्य सार्थक्यात । तदाह-(१)श्तिपाशपानुबन्धेनेत्यादि-नच [श्युकः किती] त्यत्रैकाज्ग्रहणस्यानुवृत्यर्थत्वेन कथमुक्तार्थे ज्ञापकत्वमिति वाच्यम् । तथा सति लक्ष्यानुसारेणैवोक्तनिषेधज्ञापनादित्यारर्वाचीनाः । नव्यास्तु, एकाग्रहणमुत्तरार्थमित्युक्तवता भाष्यकृता [एकाच उपदेश] इत्यत्रैकाग्रहणस्यानावश्यकत्वं बोधितम् । नचेह किञ्चित् पो इतीति भाष्येणोत्तरार्थस्याप्यैकान्ग्रहणस्येह करणं युक्तमिति वाच्यम् । भाष्यकृतैवाऽत्रैकान्ग्रहणस्य वैयोपपादितत्वात् । नच हन्तिरूपोपदेशे वधादेशस्यैकाच्त्वानिषेधः स्यादेवेति वाच्यम् । साक्षादुपदेशसम्भवे परम्परोपदेशग्रहणे मानाभावेनादोषात् । नच स्तिपा शपेत्याधुक्तज्ञापने ज्ञापकभूतैकाग्रहणस्योत्तरार्थतया ज्ञापकत्वाऽभावाज्ज्ञापनासम्भवेन कथं यङ्लुकि तत्का प्रवृत्तिरिति वाच्यम् । यङ्लुकश्छान्दसत्वेन छन्दसि दृष्टस्यैवाऽनुविधानेन सर्वेष्टसिद्धरिति दिक् ॥ ननु अनयोः पूलयोः कटं कुर्वित्यादौ यथा उभयपूलनिर्मितकटपदोत्तराविभक्तिगतैकत्वविवक्षणं तथैवाऽच इत्यत्रङस्विभक्तिगतैकत्वस्य विवक्षणादेकत्वस्य संख्यात्वेन विशेपणतया लक्ष्यानुरोधेन मत्वर्थलक्षणया एकावतो ग्रहणेन च सिद्ध व्यर्थमेकग्रहणमिति चेन्न । तस्योपदेशत्वावच्छेदेनैकाचो ग्रहणमिति बोधनेन सार्थक्यात् । तेन नावधीदित्यादौ निषेधः स्थान्युपदेशे एकाचत्वेऽप्यादेशोपदेशेऽऽनेकाच्त्वात् । नच [अर्द्ध नपुंसकम् ] [आकडारादेका संज्ञा] इतिसूत्रद्वयस्थनपुंसकग्रहणकाजग्रहणाभ्यां ज्ञापितस्य [सूत्रेलिङ्गवचनमतन्त्रमि] त्यस्य सत्वात्कथमुक्तप्रकारोपपत्तिरिति वाच्यम् । साक्षादुपदेशग्रहणेन चरितार्थत्वसम्भवे परम्परोपदेशाङ्गीकारे बीजाऽभावात् ॥ __श्रादेशश्चेह वैरूप्यसम्पादक एव गृह्यते । शसिदयोः प्रतिषेधवचनाजज्ञापकादिति-अयम्भावः [अतएकहल्मध्येऽनादेशादेलिटि] इत्यत्राऽनादेशघटकाऽऽदे. शपदेन विरूपत्वसम्पादकस्य ग्रहणम् । प्रमाणञ्चात्र शसिदद्योः प्रतिषेधवचनमेव, तथाहि, तत्रोदेशपदेनोक्तरूपाग्रहणे सरूपस्याऽऽप्यादेशस्य ग्रहणापत्त्या यस्याऽङ्गस्य लिनिमित्त आदेशो न भवतीत्युक्तसूत्रस्यार्थे शस्धातोर्ददधातोश्चापि लिनिमित्तस्याऽऽदेशस्य सत्त्वादेवाऽप्राप्त्या निषेधो व्यर्थः सन्नुक्तार्थ ज्ञापयतीति ॥ ननु उखधातोलिटि द्वित्वे हलादिः शेषे उत्तरखण्डाद्यवयवोकारस्य लघूपधगुणे उवङि (अतो गुणे) इतिपररूपे उरोखेतिरूपसिद्धिः, अत्र पररूपात्प्राक् (इजादेश्चे) त्याम् कुतो नेत्याशङ्कां समाधत्ते-सनिपातपरिभाषया इजादेरि त्याम्नेति-द्वयोः सम्बन्धस्सन्निपातस्तल्लक्षणजायमानो विधिः स्वातिरिक्तसम्बन्धविघातकशास्त्रे निमित्तं न भवतीत्यर्थः । तथाच प्रकृतिप्रत्यययोर्यः पूर्वापरीभावः सम्बन्धस्तल्लक्षणजायमानो लघूपधगुणविधिः स्वातिरिक्तलिट्परत्वसम्बन्धविघातके आमि न निमित्तम् , आनि सति लिट्परत्वव्याघातः स्प(१) शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाग्रहणं चैव पञ्चतीनि न यङ्लुकि ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280